कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रुचि

ruciस्त्री · fem.

In 23 kośas: 36 synonym verses, 9 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.100 · p. 8
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.60 · p. 19
बुभुक्षायामशनाया जिघत्सा रोचको रुचिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.13 · p. 4
जीरे जीरणजरणौ हिङ्गौ तु भूतनाशनम् ।अगूढगन्धमत्युग्रं लिप्सौ लालसलम्पटौ ॥ १०२ ॥लोलो लिप्सा तु धनाया रुचिरीप्सा च कामना ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ध (wrong syllable); pāda 3, syllable 4 प (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.34
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.38 · p. 6
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.710 · p. 82
इच्छा वाञ्छा स्पृहा काङ्क्षा कामनेप्सा रुचिस्तथा ।आशंसा चेति तुल्यार्था निश्चितं नियतं स्मृतम् ॥ ७१० ॥
अनुष्टुप्
genderस्त्रीfem.
भासः स्याद्भासा भासश्च रुग्रुची रुचयः समाः ।शोभा शुभा भवेदङ्के लक्ष्म लक्ष्मणलक्षणम् ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.302 · p. 166
वाटिकापर्पटाद्याः स्युः कर्चर्याद्याः प्रभक्षकाः ।अशनाया बुभुक्षा क्षुत् क्षुधा स्याद्रुचिरित्यपि ॥ ३०२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.137 · p. 432
प्रेमास्त्रियां प्रियत्वं षण् हार्दं स्यादथ दोहदः ।पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.138 · p. 432
कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः ।अनुतर्षोऽभिलाषश्च काम ईहारुची स्त्रियौ ॥ १३८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.16 · p. 437
आलोकश्च विरोकश्च प्रकाशोंऽशुः स्त्रियां द्युतिः ।द्युत्त्विट् प्रभा रुचिर्दीप्तिर्विभा रुक् च त्विषिश्छविः ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.25 · p. 438
मनोजवो जितक्रोधो हंसश्रेणियुजः कलाः ।तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.35 · p. 464
स्याद्वितर्दिस्तिरीतिश्च दर्विर्नी विश्छविर्लविः ।राजिर्जाती रुचिः श्रेणी सूचिः साची खलिः खनिः ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.45 · p. 31
छवि-द्युति-द्युद्रुचि-रुक्-त्विषि-त्विट्प्रभा-विभा-भायुजि दीप्तिरेव ।ज्योतिर्विषो [?] धाम-महो-महार्च्चिर्-वर्च्चांसि रोचिश्चरमे च शोचिः ॥ ४५ ॥
उपजातिः
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.202 · p. 97
इच्छान्नस्याशनाया स्त्री जिघत्सा क्षुत्क्षुधा रुचिः ।उदन्या स्त्री पिपासा च तृषा-तृष्णा-तृषोऽम्बुनः ॥ २०२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.60 · p. 18
कान्तं मनोज्ञं रुचिरं रुचिष्यं ।रुचिर्मनोहारि मनोहरं च ।हृद्यं प्रियं बन्धुर-सुन्दराभि-रामाणि वामं रमणीयमाहुः ॥ ६० ॥
उपजातिः
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.43 · p. 99
चञ्चा चर्चा सूचि-साच्यौ रुचिश्चवीचिश्चञ्चुस्त्वगृचौ स्रुग्वदर्वाक् ।कच्छा पिच्छा किं च कच्छू[श्च] राजि-र्मर्जूः खर्जूर्जूश्च सर्जूः प्रजोर्जौ ॥ ४३ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 5 स्त्व (wrong syllable)
genderस्त्रीfem.
बल्वजादयः शब्दाः पुंसि भवन्ति । बहुत्वं चैषां सदैव । इमे बल्वजाः शष्पाः । इमे लाजा भ्रष्टधान्यानि । असवः प्राणाः । एते शब्दाः नपुंसके भवन्ति । इदं स्थलमरण्यप्रदेशः । शाद्वलं हरिततृणम् । शिबिरं शकटस्थानम् । पृतनाशब्दः स्त्रियां भवति । इयं पृतना सेना ।ईर्ष्या रुचिः स्फुलिङ्गाः शय्या निःश्रेणी कोटिः कुटी वाणी ।पेशी वरूथिनी च स्त्रियां कुथा नाडिका कन्था ॥ ६१ ॥
metre not recognised
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 45 · p. 23
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.93 · p. 17
द्योतिरंशुः छविः केतुमरीचिरुचिरोचिषः ।अर्चिविरोकरुक्शोचिमयूखोस्रगभस्तयः ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.58 · p. 217
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.88 · p. 12
घृणिर्घृष्टिर्मयूखश्च रुगर्चिर्वर्च इत्यपि ।शोचिः केतुः पदः पादस्तेजः कान्तिर्भगो रुचिः ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त तेजोभानुः Pañcatattvaprakāśa 4.312 · p. 22
कान्तिः छविः प्रभा दीप्तिः त्विट् रुचिर्भा प्रकाशिका ।अर्च्चिर्ज्वाला वह्निशिखा कीला जिह्वा स्फुलिङ्गिनी ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.72 · p. 9
शोचिर्दीप्तिर्महो वर्चो रोचिर्भा रुग्रुचिर्वसुः ।शिशिरः शीतलः शीतस्तुषारश्च हिमो जडः ॥ ७२ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.84 · p. 27
भावो मतमभिप्रायश्छन्द आकूत आशयः ।शीलं स्वभावः सहजो निसर्गः प्रकृती रुचिः ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.54 · p. 39
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.583 · p. 75
बुभुक्षा तु क्षुधा क्षुत् च रोचकश्च रुचिस्तथा ।अशनाया जिघत्सा च बुभुक्षावाचका अमी ॥ ५८३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.650 · p. 86
लोभस्तृष्णा स्पृहा लिप्सा गर्द्धः काङ्क्षा वशस्तथा ।आशा वाञ्छा धनाया च रुचिः कामश्च कामना ॥ ६५० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.241 · p. 17
स्त्रीपुंसयोर्मरीचिस्त्विड्दीधितिद्युतयः स्त्रियाम् ।आभाप्रभाविभाभारुग्रुचिभाश्छविदीप्तयः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.480 · p. 34
ईहा तृट् तर्ष आकाङ्क्षा कान्तिरुग्रुचयोऽपि च ।दोहदञ्चाभिलासः स्यादभिलाषश्च कीर्तितः ।इच्छा सुमहती या स्यात् सा भवेत् लालसा द्वयोः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.9 · p. 177
सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः ।कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.36 · p. 191
रुचिः क्षुधा-क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च ।क्षुदसहे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.169 · p. 23
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.22 · p. 18
आलोकस्तु प्रभा भा रुग्रुचिदीधितिदीप्तयः ।अथातपो रौद्रमिद्धं मृगतृष्णा मरीचिका ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.132 · p. 134
पत्रेऽस्य करवी बाष्पी पृथ्विका कारवी पृथुः ।तिन्तृणीके तु वृक्षाम्लं चुक्रं शुक्ती रुचिः स्त्रियाम् ॥ १३२ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.83 · p. 142
स्मितं त्वदृष्टदशने हासो वक्रोष्ठिका न ना ।रुचिः स्त्री हसितं दृष्टदन्ते विहसितं श्रुते ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.29
अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥
अनुष्टुप्metre not read in every line
धरणिकोश Dharaṇikośa · धरणिदास चार्धश्लोकः Dharaṇikośa 5.2.2 · p. 29
रुचिर्दीप्तौ च शोभायामभिष्वङ्गाभिलाषयोः ।कचः केशे च विख्यातो ह्रीबेरासुरभेदयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चान्ताः Koṣakalpataru 6.5.7 · p. 171
मधौ( ? )शुद्धे परवत्स्त्री तु रुचिः स्यादभिष्वङ्गे ।शोभामयूखवाञ्छा-स्ववकाशे तु द्वयोर्वीचिः ।स्वल्पतरङ्गे च सुखे-ऽथाभिनये सीवनद्रव्ये ।नारीन्द्रिये च सूचीशचीन्द्रपत्नी शतावर्याम् ।काञ्ची देशविशेषेगुञ्जायां मेखलायां च ।षड्ग्रन्थासारिकयो-र्वचा स्त्रियां स्याच्छुके पुंसि ॥ ७ ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चान्ताः Koṣakalpataru 6.5.8 · p. 171
प्रतिमायां पूजायामर्चाचर्चा स्थासकसुचर्चिकाचिन्ताः ।इच्छाशोभारुचयोरुचिः स्त्रियां चर्मवल्कयोस्त्वक् ॥ ८ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.86 · p. 17
प्रचारे स्रवणे पङ्क्तौ स्वभावेऽन्ये तु पित्तले ।रुजा भङ्गजरामृत्युरोगेष्वथ रुचिः श्रियाम् ॥ ८६ ॥
अनुष्टुप्
meaningsश्री
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.87 · p. 17
अभिष्वङ्गेऽभिलाषेंऽसौ दीप्तौ स्याद्देवतान्तरे ।शोभायां तिन्त्रिणीकायाः फले वृक्षाम्लसंज्ञके ॥ ८७ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश चान्ताः Śabdaratnāvalī 7.6.8 · p. 196
पिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः ।मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः ।रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1988 · p. 242
रुचिः कन्तिस्पृहार्चिःषु रीतिः स्थित्यारकूटयोः ।रेणुर्मुनौ च पांसौ च रिष्टं नाशे शुभाशुभे ॥ १९८८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.31 · p. 222
प्रचारे श्रवणे पड्क्तौ रंडा स्यात् विधवापि च ।रुचिः कान्त्यर्चिषोर्भासि तिंत्रिडीके स्पृहाश्रियोः ॥ ३१ ॥
अनुष्टुप्

रुचि as a meaning in nānārtha verses