All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · धान्ताः
इति दान्तवर्गः ॥
अन्धं क्लीबमन्धकारे नेत्रहीनेऽपि वाच्यवत् ।आधिर्ना चित्तपीडायां व्यसने बन्धनेऽपि च ॥
7.19.2 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
इन्धं स्यादातपे दीप्ते निर्मलेऽपि च वाच्यवत् ।ऋद्धं सम्पन्नधान्ये स्यात्सुसमृद्धेऽभिधेयवत् ।ऋद्धिः समृद्धै गौर्याञ्च वृद्धिनामौषधिभिदि ॥
7.19.4 · p. 231
अनुष्टुप्metre not read in every line
गन्ध आमोदे सम्बन्धे प्रतिवेशिनि गन्धके ।गोधा तले निहाकायां गाधः स्यात्स्थानलिप्सयोः ॥
7.19.5 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
दधिक्षीरविकारे स्यात् स्त्रीवासे वसनेऽपि च ।दिग्धो लिहो वाच्यलिङ्गो विषाक्तसायके पुमान् ॥
7.19.6 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्त (wrong syllable)
दुग्धी क्षीराविकौषैध्यां दुग्धं क्षीरे प्रपूरिते ।दोग्धा तु करिभेदे स्याद्गोपालवत्सयोः पुमान् ॥
7.19.7 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
नद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः ।बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः ।बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥बोधः समाधिभेदे ना तथा पिप्पलभूरुहे ।मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥
7.19.8 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्धृ (wrong syllable)
स्त्रियां माध्वीके वृद्धौ च जीवन्त्यामपि योषिति ।सिद्धं क्लीबन्तु निद्रायामालस्ये चित्तविभ्रमे ॥
7.19.9 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
मेधो यज्ञे स्त्रियां बुद्धौ मुग्धः सुन्दरमूढयोः ।राधो वैशाखमासे ना राधा चित्रे च धन्विनाम् ॥
7.19.10 · p. 232
अनुष्टुप्
विधिः पितामहे काले विधाने नियतावपि ।विधा प्रकारे ऋद्धो च गजान्ने वेतने विधौ ॥
7.19.13 · p. 232
अनुष्टुप्
वृद्धः प्रवृद्धे जीर्णे ज्ञे त्रिषु क्लीबञ्च शैलजे ।वृद्धिर्योगे वर्द्धने स्यादष्टवर्गौषधिभिदि ॥
7.19.14 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
स्यात्समृद्धावभ्युदये हर्षे कलेऽपि च स्त्रियाम् ।श्रद्धा स्यादरे शुद्धौ आकाङ्क्षायामपि स्त्रियाम् ।श्राद्धं हव्यकव्यविधौ क्लीबं श्रद्धान्विते त्रिषु ।शुद्धं पवित्रे निर्दोषे केवले निर्मले त्रिषु ॥
7.19.15 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श्र (syllables merged); pāda 3, syllable 4 व्य (wrong syllable)
सन्धा स्थितौ प्रतिज्ञायां सन्धानेऽपि च कुत्रचित् ।स्पर्धा क्रमोन्नतो साम्ये तथा संहर्षणे स्त्रियाम् ॥
7.19.16 · p. 232
अनुष्टुप्
सन्धिर्ना तु सुरुङ्गायां संहितोपाययोरपि ।स्त्रियां भगे च घट्टनेऽवकाशे नाटकाङ्गके ॥
7.19.17 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ट्ट (wrong syllable)
स्कन्धश्छन्दो विशेषाकेसयुद्धभूषतिवर्ष्मसु ।तरुप्रकाण्डे भद्रादौ समूहे च भवेत्पुमान् ॥अथ साधुर्वार्द्धुषिके सुन्दरे सज्जने त्रिषु ।सिद्धो योगभिदि व्यासे देवयोनिसुसिद्धयोः ॥
7.19.18 · p. 232
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 5 र्वा (wrong syllable)
नित्ये त्रिषु च निष्पन्ने व्यवहारेऽपि कुत्रचित् ।स्निग्धं त्रिषु स्नेहयुते चिक्कणेऽपि च न द्वयोः ॥
7.19.19 · p. 232
अनुष्टुप्
सिन्धुर्नावन्तिदेशाब्धिनदेषु सरिति स्त्रियाम् ।सिद्धिः स्त्री पादुका ऋद्धियोगनिष्पत्तिवृद्धिषु ॥
7.19.20 · p. 232
अनुष्टुप्
अगाधमतलस्पर्शो त्रिषु छिद्रे तु न द्वयोः ।आविद्धः कुटिले मूर्खे वाच्यलिङ्गः पराहते ॥
7.19.23 · p. 232
अनुष्टुप्
आबन्धः प्रेम्नि योक्त्रे नालङ्कारदृढबन्धयोः ।उत्सेधोऽस्त्री चोच्छ्रये स्यात् क्लीबं संहननेऽपि च ॥
7.19.24 · p. 232
अनुष्टुप्
उपाधिर्धर्मचिन्तायां स्याच्छले च विशेषणे ।कुटुम्बव्यापृते पुंसि नामचिह्ने तु कुत्रचित् ॥
7.19.25 · p. 232
अनुष्टुप्
उपधिस्तु रथाङ्गे स्यात् व्याजेऽपि च भवेत् पुमान् ।कबन्धोऽस्त्री क्रियायुक्तमूर्धहीनकलेवरे ॥
7.19.26 · p. 232
अनुष्टुप्
जले क्लीबं पुंसि कुक्षौ राहौ च राक्षसान्तरे ।दुर्विधः पिशुने मूर्खे दुर्गते वाच्यलिङ्गकः ॥
7.19.27 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
न्यग्रोधस्तु वटे व्यासे शमीभूमिरुहे पुमान् ।न्यग्रोधी चोपचित्रायां न्यग्रोधापि च कुत्रचित् ॥
7.19.28 · p. 233
अनुष्टुप्
परिधिः पुंसि यक्षद्रुशाखायामुपसूर्यके ।मागधः क्षत्रिया वैश्यजाते जीरकवन्दिनोः ॥
7.19.31 · p. 233
अनुष्टुप्
वीवधो विवधो भारपर्याहारपयेषु च ।विस्रब्धो गाढविश्रब्धानुद्भटेषु भवेत्त्रिषु ॥
7.19.33 · p. 233
अनुष्टुप्
विविधः पत्तिभेदे वे(?) वीरुत्स्त्री वल्लीशाखयोः ।सन्नद्धः कृतसन्नाहे व्यूढे मन्त्रादिसंयुते ॥
7.19.34 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ल्ली (wrong syllable)
सम्बाधः सङ्कटे योनौ भये नरकवर्त्मनि ।सन्निधिर्ना सन्निधाने भवेदिन्द्रियगोचरे ॥
7.19.35 · p. 233
अनुष्टुप्
संसिद्धिः स्त्रीमदोग्रायां सिद्धौ च प्रकृतावपि ।समाधिर्नियमे ध्याने तथा काव्यगुणान्तरे ॥
7.19.36 · p. 233
अनुष्टुप्
समर्थने च नीलाके स्यादिन्द्रियनिरोधने ।सुगन्धिवालुके क्लीबं दूष्टगन्धे भवेत् त्रिषु ॥
7.19.37 · p. 233
अनुष्टुप्
अवरोधो नृपगृहे तिरोधाने नृपाङ्गने ।अवष्टब्धः समाक्रान्तेऽविदूरेऽप्यवलम्बिते ॥अनुबन्धी च तृष्णायां हिक्कायाभवि च स्त्रियाम् ।अनुबन्धो बन्धे दोषोत्पादने च विनश्वरे ॥
7.19.38 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
आरम्भे प्रकृता वृत्तौ पुमान् मुखानुयापिनि ।अनिरुद्धः कामपुत्रे वाच्यलिङ्गस्त्वनर्गले ॥
7.19.39 · p. 233
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
आशाबन्धः समाश्वासे पुमान् मर्कटवासके ।इक्षुगन्धः कोकिलाक्षे शृगाली काशगोक्षुरे ॥
7.19.40 · p. 233
अनुष्टुप्
उपलब्धिरपि ज्ञाने मतौ प्राप्तावपि स्त्रियाम् ।उग्रगन्धा वचायां स्याद् यवान्यां चिक्ककोषधौ ॥
7.19.41 · p. 233
अनुष्टुप्
कालस्कन्धस्तिन्दुके स्यात्तमाले जीवकद्रुमे ।तीक्ष्णगन्धा वचाराजिकयोः शोभाञ्जने पुमान् ॥
7.19.42 · p. 233
अनुष्टुप्
चित्रगोधा चित्रकोले स्त्रियामेव तृणाञ्जने ।परिव्याधो भवेत्पुंसि वेतसे च द्रुमोत्पले ॥
7.19.43 · p. 233
अनुष्टुप्
ब्रह्मवन्धूरधिक्षेपे द्विजातिर्देशयोः पुमान् ।महोषधं विषायां स्यात्शुण्ठयाञ्चलशुतेऽपि च ॥
7.19.44 · p. 233
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
समुत्रद्धो गर्विते स्यात्पंण्डितम्मन्य उन्नते ।
7.19.45 · p. 234
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 ज (wrong syllable)