कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इच्छा

icchāस्त्री · fem.

In 17 kośas: 15 synonym verses, 3 as a nānārtha head word, 56 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.431 · p. 20
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.39
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.710 · p. 82
इच्छा वाञ्छा स्पृहा काङ्क्षा कामनेप्सा रुचिस्तथा ।आशंसा चेति तुल्यार्था निश्चितं नियतं स्मृतम् ॥ ७१० ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.97 · p. 75
स्यादायल्लकमौत्सुक्यमुत्कण्ठोत्कलिका रतिः ।इच्छा काङ्क्षा स्पृहेहाश्च वाञ्छा कामो मनोरथः ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.138 · p. 432
कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः ।अनुतर्षोऽभिलाषश्च काम ईहारुची स्त्रियौ ॥ १३८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.200 · p. 97
तर्षोऽभिलाषोऽपि मनोरथोऽस्त्रीकामो वशः स्त्री तु तृषा तृडाशा ।काङ्क्षा स्पृहेहापि च कान्तिरिच्छा-ऽऽशंसा च वाञ्छा कविरन्न(?)लिप्सा ॥ २०० ॥
इन्द्रवज्रा
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.91 · p. 112
लोभः स्पृहा वशो लिप्सा तृष्णा काङ्क्षेच्छया सह ।आशंसा गर्धवाञ्छे चाशेहा तृट् तु मनोरथः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.86 · p. 27
लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा ।कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.651 · p. 86
आशंसा चाऽभिलाषस्तृट् चेच्छा चेहा मनोगवी ।ईप्सा चेहो मनोराज्यं प्रोक्तं मनोरथस्तथा ॥ ६५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.479 · p. 33
उत्तमे चरिते शीलं उन्मादश्चित्तविभ्रमे ।प्रेम क्लीबे पुमान् प्रेमा स्नेहः प्रणय इत्यपि ॥हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते ।इच्छाकाङ्क्षा स्पृहा वाञ्च्छा लिप्सा कामो मनोरथः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.24 · p. 309
वासिर्वापि स्तथाजिः स्यादिति सद्भिः प्रयुज्यते ।इच्छा जायाप्रभृतयो ज्ञातेः पुंरत्त्वं निपातनात् ।भावमायोभ्यञ्च (?) ब्रह्मभूयञ्च न द्वयोः ।भ्रूणहत्या ब्रह्महत्या भवे च शिष्टप्रयोगतः ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.975 · p. 122
ईप्सा लिप्सा स्पृहा वाञ्छा काङ्क्षेहेच्छातृषः समाः ।तर्षो मनोरथः कामोऽभिलाषो लालसा द्वयोः ॥ ९७५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1726 · p. 208
भ्रेषोऽधःपतने प्लोष ओषः स्यात् संभ्रमस्त्वरा ।यदृच्छा स्वैरताहेतुरिष्टिरिच्छा वृषा वृषे ॥ १७२६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.179 · p. 97
हृल्लेखो रणरणकोऽप्यभिध्या विषमस्पृहा ।तृषिः कांक्षा स्पृहेहेच्छा वांछा कामो मनोरथः ॥ १७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.182 · p. 98
बुभुक्षेच्छाशनाया क्षुज्जिघत्साशिशिषा पचिः ।राज्यलौल्यं तु कौहोलं तपसीच्छा प्रशान्तिकम् ॥ १८२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.16 · p. 76
सृज्यतिः सृजतिश्चाङो विशेषे त्यागदानयोः ।विसर्जनीये संप्रेषेऽतेर्दाने हिंसनेच्छयोः ॥ १६ ॥
अनुष्टुप्
meanings
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.84 · p. 84
अभेः स्नाने सुनोतिः स्यात्स्वार्थेऽथोदः स उद्धवे ।कोपेच्छाप्रसवोत्सेके प्रारम्भे प्रपरो मतः ॥ ८४ ॥
अनुष्टुप्
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.9 · p. 86
ज्ञानेच्छयोर्गारयते तूक्तं विज्ञानवाचकम् ।चेतति स्याद्वेदयते तथा चेतयते मतम् ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वे (wrong syllable)
meanings
doubtful

इच्छा as a meaning in nānārtha verses