कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लिप्सा

lipsāस्त्री · fem.

In 15 kośas: 12 synonym verses, 18 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.431 · p. 20
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.39
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.364 · p. 43
तृष्णाभिलाषो लिप्साशा धनाया गर्धनोच्यते ।अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.98 · p. 75
अभिलाषश्च लिप्सा तु घना सेर्ष्या तु गन्धना ।गर्भिण्याः पुनरिच्छायां श्रद्धा दोहददौहृदम् ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.137 · p. 432
प्रेमास्त्रियां प्रियत्वं षण् हार्दं स्यादथ दोहदः ।पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.200 · p. 97
तर्षोऽभिलाषोऽपि मनोरथोऽस्त्रीकामो वशः स्त्री तु तृषा तृडाशा ।काङ्क्षा स्पृहेहापि च कान्तिरिच्छा-ऽऽशंसा च वाञ्छा कविरन्न(?)लिप्सा ॥ २०० ॥
इन्द्रवज्रा
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.91 · p. 112
लोभः स्पृहा वशो लिप्सा तृष्णा काङ्क्षेच्छया सह ।आशंसा गर्धवाञ्छे चाशेहा तृट् तु मनोरथः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.86 · p. 27
लोभस्तृष्णा स्पृहा लिप्सा काङ्क्षा सेहा च लालसा ।कामस्तर्षोऽभिलाषस्तृडिच्छा वाञ्छा मनोरथः ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.650 · p. 86
लोभस्तृष्णा स्पृहा लिप्सा गर्द्धः काङ्क्षा वशस्तथा ।आशा वाञ्छा धनाया च रुचिः कामश्च कामना ॥ ६५० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.479 · p. 33
उत्तमे चरिते शीलं उन्मादश्चित्तविभ्रमे ।प्रेम क्लीबे पुमान् प्रेमा स्नेहः प्रणय इत्यपि ॥हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते ।इच्छाकाङ्क्षा स्पृहा वाञ्च्छा लिप्सा कामो मनोरथः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.975 · p. 122
ईप्सा लिप्सा स्पृहा वाञ्छा काङ्क्षेहेच्छातृषः समाः ।तर्षो मनोरथः कामोऽभिलाषो लालसा द्वयोः ॥ ९७५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.180 · p. 98
अभिलाषश्च लिप्सा तु धनायेप्सा च गर्धना ।गर्भिण्याः पुनरिच्छायां श्रद्धा दोहलदौहृदे ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.

लिप्सा as a meaning in nānārtha verses