स्नेह
snehaपुं · masc.In 18 kośas: 25 synonym verses, 9 as a nānārtha head word, 19 as a meaning of another word.
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
अनुष्टुप्
genderपुंmasc.
स्नेहः प्रीतिः प्रेम हार्दे दाक्षिण्यं त्वनुकूलता ॥ १३७७ ॥
अनुष्टुप्
genderपुंmasc.
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम् ।इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः ।
अनुष्टुप्
genderपुंmasc.
सख्यं साप्तपदीनं सौहार्दं सौहृदं तथा स्नेहः ।मैत्री प्रीतिरजर्यं सभाजनं सङ्गतं प्रोक्तम् ॥ ७०६ ॥
metre not recognised
genderपुंmasc.
वैरं विरोधो विद्वेषमीर्ष्या मात्सर्यमुन्नतिः ।स्नेहस्तु प्रेमसौहार्दसौहृदेऽप्यभिधीयते ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
दीपाहारः पुमान् स्नेहश्चाथ तद्योनयः क्रमात् ।तिलसर्षपकौसुम्भ क्षुमा खस्खस तूवरी ॥ ६१९ ॥
अनुष्टुप्
genderपुंmasc.
स च विप्रतियारोऽथ चरितं शीलमस्त्रियाम् ।चारित्रं शुभ्रचरिते स्नेहस्तु प्रणयः पुमान् ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
तनूरुहस्नेहदोहलोहपुण्याहयोरपि ।पटहस्याररिचटुकमण्डल्वणुलानुभिः ॥ १९३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्रियता प्रणयः स्नेहो विद्वेषस्तु विरोधवत् ।वैरं चाथ भवेद्वाम्यं प्रातिकूल्यं प्रतीपता ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
स्नेहोऽक्षित्वग्विशां मज्जो मलोऽथौजश्च रेतसः ।शुक्रशोणितसंयोगे प्रकृतिर्दोषभूयजा ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
बर्हिर्दर्भेऽथ तमो राहौ वीर्ये सहो धनुश्चापे ।स्नेहो गेहो लोहो *हो बर्हो गृहं पटहः ॥ ७४ ॥
metre not recognised
genderपुंक्लीm. n.
स्नेहो तिलानां तैलं स्यादन्येषां नामपूर्वकम् ।घृतमाज्यं हविः सर्पिः कौम्भं त्वाज्यं दशाब्दकम् ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
वियोगं मदनावस्थां विरहं पल्लकं विदुः ।प्रेमाभिलाषमालभ्यं रागं स्नेहमतः परम् ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
स्वरूपं सहजो रूपतत्त्वं सर्गो निसर्गवत् ।प्रीतौ प्रेम स्नेहहार्दे समाधाववधानता ॥ २६५ ॥
अनुष्टुप्
genderपुंmasc.
स्नेहे तैलाभ्यञ्जने तु वेषवार उपस्करे ।भोजनं निघसो न्यादः खादनं स्वादनाशने ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
पैष्टिका काञ्जिका काञ्जी पर्पटो माषमण्डकः ।तैलं तिलद्रवः स्नेहः शाकस्तेमनतैमलौ ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
क्रीडा लीला विलासश्च केलिर्नर्म रतिर्द्रवः ।स्नेहः प्रीतिः प्रेमरागौ मैत्री सख्यं च सौहृदम् ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
प्रीतिः प्रेम तथा स्नेहो हार्दं नामापि मन्यते ॥ २५०३ ॥
अनुष्टुप्
genderपुंmasc.
उत्तमे चरिते शीलं उन्मादश्चित्तविभ्रमे ।प्रेम क्लीबे पुमान् प्रेमा स्नेहः प्रणय इत्यपि ॥हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते ।इच्छाकाङ्क्षा स्पृहा वाञ्च्छा लिप्सा कामो मनोरथः ॥
अनुष्टुप्
genderपुंmasc.
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा ह्रीतिरपत्रपा ।व्रीडं स्नेहः पुमान् प्रेमा प्रियता प्रेम सौहृदम् ॥ ९७४ ॥
अनुष्टुप्
genderपुंmasc.
स्नेहोऽस्त्री प्रेम सौहार्दमजय्यं हार्दसौहृदे ।आनन्दनं संगतं स्यादप्रच्छन्नं सभाजनम् ॥ १८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मदनस्तु मधूछिष्टं स्नेहोऽस्त्री पिच्छिले रसे ।स्नेहे तिलानां तैलं स्यादन्येषां नामपूर्वकम् ॥ १३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
रेतो बीजं वरं वीर्यं हर्षजं स्नेहु पौरुषम् ।शुक्लं प्रधानधातुश्च धातवोऽमी नवाष्ट वा ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
स्नेहं सेव्यं महच्छुद्धं धरुणं सर्वतोमुखम् ।पातालं स्वादु दिव्यं च तानि पंचदशाप्स्वपि ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
स्नेहयति स्नेहयतेक्ष्विद्यति मेद्यति च मेदते तिलति ।मिन्दयते मिन्दयतिप्रुष्णाति स्वेदते तद्वत् ॥ ९५ ॥
metre not recognised
सिंही वासकवार्चाकीकण्टकारीष्वपि स्त्रियाम् ।स्नेहः स्यात्सौहृदे पुंसि तैलादिरसवस्तुनि ॥
अनुष्टुप्
स्नेह as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) अपह्नवस्नेहेऽप्यपह्नवः प्रोक्तो द्वेषेऽप्यनुशयः स्मृतः । सुरतेऽपि व्यवायः स्यान्नैगमश्च ऋतावपि ॥ ८१५ ॥ Abhidhānaratnamālā (Halāyudha) 5.815
- धरणिकोश आयत्तिआयत्तिः श-- दैर्घ्यप्रभावागामिकालयोः । मर्यादायां तथा स्नेहे --त्वे वासरे बले ॥ Dharaṇikośa 15.3.16
- धरणिकोश अपह्नवअनुभावः प्रभावे स्यान्निश्चये भावबोधके । अपह्नवोऽपलापः स्यात्स्नेहश्चापह्नवो मतः ॥ Dharaṇikośa 28.2.21
- कोषकल्पतरु गुलकआह्निकमशनेऽहीन- निर्वर्त्यकर्मण्युदीरि[254b]तं चरमे तत् । गुलकः कलोक्तिधूलि- स्नेहामत्रेषु वाच्यवन्मलिने ॥ ९४ ॥ Koṣakalpataru 6.1.94
- नानार्थार्णवसंक्षेप दिग्धदिग्धस्तु विषलिप्तेषौ त्रिषु लिप्तप्रवृद्धयोः । क्ली स्यादुपचये स्नेहेऽप्याहेदं वैजयन्तिका ॥ ५९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.596
- नानार्थार्णवसंक्षेप प्रेमन्स्नेहे केलौ च दासे तु प्रेष्यो द्वे भेद्यवत् पुनः । प्रेषितव्येऽथ पोतो ना यानपात्रे द्वयोः पुनः ॥ ८२० ॥ Nānārthārṇavasaṃkṣepa 2.5.820
- नानार्थार्णवसंक्षेप रसकषायभोजनान्नेषु स्नेहे हिङ्गुलबोलयोः । लशुने च हरिद्वर्णे शाकस्तम्बान्तरे तथा ॥ १०७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1079
- नानार्थार्णवसंक्षेप विस्रम्भऋषिभेदेऽथ विस्रम्भो विश्वासस्नेहयोरपि । स्यात् केलिकलहाभिख्यविप्रलम्भे च संस्तवे ॥ १९१ ॥ Nānārthārṇavasaṃkṣepa 3.2.191
- नानार्थार्णवसंक्षेप मार्जनमार्जनः स्नेहसंज्ञे स्याद् गुणे स्त्रीशण्डयोः पुनः । मार्जनं मार्जना चेति मार्ष्टौ विद्वद्भिरीरितम् ॥ १४०१ ॥ Nānārthārṇavasaṃkṣepa 4.1401
- नानार्थार्णवसंक्षेप रसनत्रिस्त्वात्मीयेऽथ रसनं क्ली कषायद्रवान्नयोः । स्नेहे विषे फले चापि निर्यासे हेमरूप्ययोः ॥ १४७९ ॥ Nānārthārṇavasaṃkṣepa 4.1479
- शब्दरत्नावली आयत्तिआयतिः स्यात् स्त्रियां दैर्घ्ये भाविकालप्रभावयोः । आयत्तिः स्नेहवलयोर्वशित्वे वासरे स्त्रियाम् । आकृतिः स्यात् स्त्रियां देहेहृतौ (?) सामान्यरूपयोः ॥ Śabdaratnāvalī 7.16.87
- शब्दरत्नावली प्रेमन्क्लीबलिङ्गं पुमानयं भवेदाम्रातके मतः । पूतना दानवीपथ्यारोगभेदेषु च स्त्रियाम् ॥ पृतना तु स्त्रियां सेनामात्रे सेनाविशेषके । प्रेमाऽस्त्री नर्मणि स्नेहे प्रेमा ना रतिशक्रयोः ॥ Śabdaratnāvalī 7.20.61
- शब्दरत्नावली अन्वासनअधिष्ठानं प्रभावेऽध्यासने चक्रे पुरेऽपि च । अन्वासनञ्चकारार्थशोचनस्नेहवस्तिषु । अर्यमा भास्करे पुंसि पितृदेवात्तरेऽपि च ॥ Śabdaratnāvalī 7.20.103
- त्रिकाण्डशेष आग्रहआरोहस्तु नितम्बे स्याद्दीर्घत्वे च समुच्छ्रये । शक्तौ स्नेहे चाग्रहः स्यादीहातूद्यमाञ्छयोः ॥ ४५७ ॥ Trikāṇḍaśeṣa 3.3.457
- वैजयन्ती दिग्धदिग्धो विषप्रलिप्तेषौ लिप्ते स्नेहप्रवृद्धयोः । दुर्गे राष्ट्रे वने दुर्गं दुर्गमे नरके पुरे ॥ ४१ ॥ Vaijayantī 6.5.41
- वैजयन्ती प्रेमन्पार्श्वमस्त्री समीपेऽपि पृज्यः श्वशुरमान्ययोः । स्नेहे केलौ प्रेम न स्त्री पीतिः पाने हये तु ना ॥ ५१ ॥ Vaijayantī 6.5.51
- वैजयन्ती विस्रंभविस्रंभौ स्नेहविश्वासौ विबुधौ सुरपण्डितौ । विकारौ रोगविकृती विष्किरौ शिखिकुक्कुटौ ॥ ६६ ॥ Vaijayantī 7.1.66
- वैजयन्ती रसनसंश्रयेऽग्रे च शूर्पस्य वस्त्रभेदे च योषितः । रसनं क्ली कषायेऽन्ने द्रवे स्नेहे विषे फले ॥ ६८ ॥ Vaijayantī 7.5.68
- वैजयन्ती अपवादनृपरक्षिष्वनीकस्थो हस्तिशिक्षाविचक्षणे । अपवादौ तु निन्दाज्ञे स्तुतिस्नेहावपह्नवौ ॥ १४ ॥ Vaijayantī 8.1.14