आधोरण
ādhoraṇaपुं · masc.In 8 kośas: 8 synonym verses.
genderपुंmasc.
व्यालो दुष्टगजः प्रोक्तो हस्तिनी तु वशा स्मृता ।आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।गजाजीवास्तु शास्त्रज्ञैर्महामात्रा इति स्मृताः ॥ २२५ ॥
अनुष्टुप्
genderपुंmasc.
गजोपचारकुशलो वाहिको मलहारकः ।आधोरणो हस्तिपको हस्त्यारोहो निषादिनः ॥ ३४१ ॥
अनुष्टुप्
genderपुंmasc.
महामात्रा हस्तिपका हस्त्यारोहा निषादिनः ।आधोरणाश्च शण्ढाश्च हास्तिकस्त्रिषु हस्तिगः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
आधोरणो हस्तिपको विषादीति निगद्यते ।तत्प्रधाना महामात्रा आरोहा गजवाजिनः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
आधोरणो हस्तिपको माहामात्रो निषाद्यपि ।यन्ता सादी त्वश्ववारो नियन्ता सूतसारथी ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
साक्षात् न वाह्यते यत्तु तद्वैनीतकमस्त्रियाम् ।हस्त्यारोहः हस्तिपकस्त्वाधोरण-निषादिनौ ॥
अनुष्टुप्
genderपुंmasc.
आधोरणो हस्तिपकहस्त्यारोहनिषादिनः ।तत्प्रधाने महामात्रो हास्तिकं गजता गणः ॥ ७१४ ॥
अनुष्टुप्
genderपुंmasc.