हास्तिक
hāstikaक्ली · neut.In 9 kośas: 11 synonym verses.
हास्तिकं तु हस्तिनां स्यादापूपिकाद्यचेतसाम् ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
हास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
द्वयोस्तु हस्तिनोऽपत्यं हास्तिनायनमीरितम् ।हास्तिकं गजता वृन्दे करिणां घटना घटा ।मदो दानं प्रवृत्तिः स्त्री वमथुः करसीकरः ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
महामात्रा हस्तिपका हस्त्यारोहा निषादिनः ।आधोरणाश्च शण्ढाश्च हास्तिकस्त्रिषु हस्तिगः ॥ ६ ॥
अनुष्टुप्
genderविadj.
औरभ्रहास्तिके कावचिकमाजकमित्यपि ।मानुष्यकधैनुके तु गाणिक्यं कैश्यकैशिके ॥ ३१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderक्लीneut.
हास्तिकं गजता वृन्दे धेनुका च वशा प्रिया ।कुम्भिमध्ये विदुः प्रोक्तो वमथुः करशीकरे ॥ २८७ ॥
अनुष्टुप्
genderक्लीneut.
गजानां समुदाये तु हास्तिकं गजता घटा ।मदो दानं प्रवृत्तिस्तु उन्मत्तगजगण्डनम् ॥ २२१३ ॥
अनुष्टुप्
genderक्लीneut.
हास्तिकं हस्तिवृन्दे स्यादापूपिकाद्यचेतसाम् ।धेनूनां धेनुकं नाम मन्यते पण्डितैः पुनः ॥ २५७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderक्लीneut.
हास्तिकं गजता चेति द्वयं द्विरदसञ्चये ।स्यात् करेणूः करेणुश्च रेणुका च करेणुका ॥
अनुष्टुप्
genderक्लीneut.
आधोरणो हस्तिपकहस्त्यारोहनिषादिनः ।तत्प्रधाने महामात्रो हास्तिकं गजता गणः ॥ ७१४ ॥
अनुष्टुप्
genderक्लीneut.
हास्तिकमौष्ट्रकमौक्षकमौरभ्रकमाजकं गजादीनाम् ।एवं धैनुकवात्सकमाश्वीयं त्वाश्वमश्वानाम् ॥ १० ॥
आर्या
genderक्लीneut.