All kośas › Śabdacandrikā
शब्दचन्द्रिका Śabdacandrikā
125 verses · 947 words tagged · 244 marked doubtful (dashed)
मनुष्याधिकारः पञ्चमस्सर्गः · क्षत्रियप्रकरणम्
इति ब्राह्मणाधिकारः ।
क्षत्रियो बाहुजो राजा भूभुजश्चक्रपालकः ॥ १६ ॥
5.2.16 · p. 43
धरणीपरिणी विश्वः पार्थिवो नरनायकः ।नरेन्द्रो नरदेवश्व वश्यामात्योऽथ ईश्वरः ॥ १७ ॥
5.2.17 · p. 43
अनुष्टुप्
सार्वभौमश्चक्रवर्ती नृपोन्यो मण्डलेश्वरः ।मन्त्र्यमात्यौ सुधीः कर्मसहायो राजकीयकः ॥ १८ ॥
5.2.18 · p. 43
अनुष्टुप्
सेनापतिर्दण्डपालः सौविदल्लस्तु सौविदः ।वार्तिकः सन्देशहरो दूतः सादेशिकारतूः ॥ १९ ॥
5.2.19 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न्दे (wrong syllable)
वैतालिका बोधकरा वन्दिनः स्तुतिपाठकाः ।मागधो मङ्खको घण्टानाडो घाण्टिकचाक्रिकौ ॥ २० ॥
5.2.20 · p. 43
अनुष्टुप्
दस्युः शत्रुरमित्रारिररातिरहितो द्विषत् ।प्रत्यर्थी प्रत्यवस्थाता दूषणः शात्रवः परः ॥ २१ ॥
5.2.21 · p. 43
अनुष्टुप्
प्रतिपक्षो विपक्षश्च दुर्हृद्द्वेष्यभियातिकः ।मित्रं स्निग्धो वयस्यश्व हितोऽत्मीयो निजः प्रियः ॥ २२ ॥
5.2.22 · p. 43
अनुष्टुप्
सखा सहाय इष्टोऽपि सहकृत्सहचारिकः ।हस्त्यश्वरथपादातं बलं स्याच्चतुरङ्गकम् ॥ २३ ॥
5.2.23 · p. 43
अनुष्टुप्
दन्तावलो मतङ्गश्च दन्ती कुम्भी करी दरी ।मदावलो महाकायो द्विरदोऽनेकपो द्विपः ॥ २४ ॥
5.2.24 · p. 43
अनुष्टुप्
असुरो वारणः कुञ्जः कुञ्जरः पीलुरित्यपि ।महामृगः शूर्पकर्ण समाजसिन्धुरः कपी ॥ २५ ॥
5.2.25 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
आधोरणो हस्तिपको विषादीति निगद्यते ।तत्प्रधाना महामात्रा आरोहा गजवाजिनः ॥ २७ ॥
5.2.27 · p. 44
अनुष्टुप्
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।रिङ्खावासस्तु तुक्खारः कुटुरोणेटकस्तथा ॥ २८ ॥
5.2.28 · p. 44
अनुष्टुप्
पाकलः पुरुलः पीतो माषाशी सिंहविक्रमः ।शालिहोत्री व्रती कुण्डी प्रोथी दारुप्रकीर्णकः ॥ २९ ॥
5.2.29 · p. 44
अनुष्टुप्
अजानेयः कुलीनः स्यात्पारसीकः प्रकीर्तितः ।तेन हीनकुलाः किञ्चित्पश्चिमोत्तरदेशजाः ॥ ३० ॥
5.2.30 · p. 44
अनुष्टुप्
सितेऽश्वे कर्करः काहो लुङ्गाहः श्वेतपिङ्गले ।आनिलः स्यान्नीलकोशः खुङ्गारः कृष्णवर्णकः ॥ ३१ ॥
5.2.31 · p. 44
अनुष्टुप्
मोनः कोकनदच्छायस्त्रियूहः कपिलो हयः ।समूहे तस्य रिञ्चोली रिङ्खा पुङ्खा प्रकीर्तिता ॥ ३२ ॥
5.2.32 · p. 44
अनुष्टुप्
लाटिका खुरपीठः स्याच्चन्द्रकः परिकीर्तितः ।वडवा वडिवी वामी पार्वती यक्षिणीति च ॥ ३३ ॥
5.2.33 · p. 44
अनुष्टुप्
अश्वपोतस्तु शिशुको गर्भे सुलातिकाऽपि च ।वाहनं यानसंयुग्यं रात्रिकं वाह्ययो रणे ॥ ३४ ॥
5.2.34 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
योग्यं चास्मिन् चक्रयुते शताङ्गः स्यन्दनो रथः ।वहित्रं वहिनं चास्मिन् चतुरश्रे सकूबरे ॥ ३५ ॥
5.2.35 · p. 44
अनुष्टुप्
दीर्घद्विपक्षे वहनं प्रवाहिन्यभिधीयते ।रथभेदे वहिलिको वृषवाहे निगद्यते ॥ ३६ ॥
5.2.36 · p. 44
अनुष्टुप्
आन्दोलिका च कलशी पल्यं किन्नरभोगिनी ।नरवाहनमित्युक्तं स्त्रीयोग्यं वंशवर्धनम् ॥ ३७ ॥
5.2.37 · p. 44
अनुष्टुप्