उच्चन्द्र
uccandraपुं · masc.In 7 kośas: 7 synonym verses.
उच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ॥ १४५ ॥ध्वान्तं भूछायान्धकारं तमसं समवान्धतः ।
metre not recognised
genderपुंmasc.
अर्द्धरात्रो निशीथश्च शिवावसर इत्यपि ।निःसंपातो महानिट् चाथोच्चन्द्रापररात्रकौ ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
उच्चन्द्रोऽपररात्रः[29a] स्यादथ त्रिषु निशा भवेत् ।स्यान्नैशिकं तथा नैशं तत्र दोषातनं भवेत् ॥ ४६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उच्चन्द्रस्त्वपररात्रस्त्वन्धकारं रजोबलम् ।तमिस्त्रं तिमिरं ध्वान्तं तथाऽन्धतमसं तमः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
उच्चन्द्रोऽपररावस्तु शेषरात्रौ भवेद्द्वयम् ।द्वौ यामप्रहरौ पुंसि भूतः कृष्णाचतुर्दशी ॥
अनुष्टुप्
genderपुंmasc.
निःसम्पातोऽर्धरात्रः स्यात्सर्वावसर इत्यपि ।उच्चन्द्रापररात्रौ द्वौ दशौऽमाऽमावसी च सा ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
सांबाधिकः परस्तस्मान्निशीथस्त्वर्धरात्रकः ।मध्यरात्रो महारत्र उच्चन्द्रोऽपररात्रकः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.