कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

तिमिर

timiraक्ली · neut.

In 21 kośas: 23 synonym verses, 4 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.56 · p. 10
उच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ॥ १४५ ॥ध्वान्तं भूछायान्धकारं तमसं समवान्धतः ।
metre not recognised
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.3
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ।ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.110 · p. 14
अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
आर्या
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वितीयोपदेशः Bālaprabodhikā 2.51 · p. 70
रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा ।तमी तमस्विनी रात्रिः शर्वरी च विभावरी ।आद्यक्तं तिमिरं ध्वान्तं तामिस्रं शार्वरं तमः ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.14 · p. 21
ध्वान्तं तिमिरमासक्तं तामिस्रं शार्वरं तमः ।आततिश्वान्धकारश्च गाढं सन्तमसं तमम् ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पातालादिप्रकाण्डः Kalpadrukośa 1.15.5 · p. 361
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं पुनः ।निशापर्यायचर्मार्थं भूच्छायं च रजोबलम् ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.179 · p. 481
… गह्वराणां तिमिरभ्राष्ट्रयोस्तथा ।राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥ १७९ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.7 · p. 302
तमो निशाचर्म खचर्म वृत्रो-पकुञ्चकं स्यात्तमसं तमं च ।वृत्रोऽत्र ना ना न तमिस्रमुर्वी-छाया षडस्त्री तिमिरान्धकारौ ॥ ७ ॥
उपजातिः
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.69 · p. 312
नेत्रपुष्पं तु शुक्र स्यात्तिमिरं दृगपाटवम् ।लिङ्गनाशो दृगान्ध्यं स्याद्दिवान्धाद्यास्तु दृग्गदाः ॥ ६९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.63 · p. 114
अगुरुस्तिमिरं जठरंकर्पु(र्पू)रकृच्छ्रे कशेरुहेमादौ ।चन्द्रो वर्ध्रः सीसेसंदेहे द्वापरं कुकुन्दरवत् ॥ ६३ ॥
metre not recognised
genderपुंक्लीm. n.
एते स्त्रियां भवन्ति । इयं मेधा धारणाशक्तिः । रसना शक्तिर्मेखला च ।निद्रा सुप्तिः । तन्द्रा आलस्यम् । तन्त्री वाद्यविशेषः । मञ्जिष्ठा रागद्रव्यम् । स्यातां भवेतामित्यर्थः । इयं मदिरा सुरा । मन्दुरा वाजिशाला । कृशरा तिलयवागूः । अक्षैर्दीव्यते अक्षग्रहणं वादित्रसम्बन्धनिवृत्त्यर्थम् । वाद्यं दुन्दुभिरित्यर्थः ।धान्यद्विदलांशुकवितानवलयरत्नमिथुनश्मशानानि ।बिसतिमिराण्यपि विद्यान्नपुंसकेऽग्रखे चैव ॥ ६४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 वे (syllables merged)
genderक्लीneut.
नाममालिका Nāmamālikā · भोज गगनादिनामधेयप्रकरणम् Nāmamālikā 2.2 · p. 6
छायायां तस्य तिमिरं तमिस्रं भ्रमरं तमः ।पुंस्यन्धकारो मलिनो लोकान्धकर ईर्यते ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 148 · p. 72
कृष्णं नीलासितं कालं धूमं धूम्रमलिप्रभः ।तमोऽन्धकारं तिमिरं ध्वान्तं संतमसं तमम् ॥ १४८ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 184 · p. 87
उल्बणं दारुणं तिग्मं घोरं तीव्रोग्रमुत्कटम् ।शीतलं तिमिरं याथं मन्दं विद्धि विलम्बितम् ॥ १८४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.134 · p. 22
अन्धकारस्तमो ध्वान्तं भूच्छाया तिमिरं त्वथ ।तमिस्र[13]मन्धतमसं तथा संतमसं स्मृतम् ॥ १३४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.156 · p. 230
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.254 · p. 18
दुर्गं कोटो गढो वप्री परिखा गर्त्तमालिका ।अश्मक्षेपणिका गोफ्णा तमिस्रं तिमिरं तमः ॥ २५४ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.80 · p. 9
निशीथिनी क्षपा दोषा क्षणदा च विभावरी ।अन्धकारं च तिमिरं ध्वान्तं संतमसं तमः ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.136 · p. 20
उच्चन्द्रस्त्वपररात्रस्त्वन्धकारं रजोबलम् ।तमिस्त्रं तिमिरं ध्वान्तं तथाऽन्धतमसं तमः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.5 · p. 37
अस्त्रियामन्धकारः स्यात्तिमिरन्तु तमस्तमम् ।नीलपङ्कं निशाचर्म तमिस्रञ्च रजो रजम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.38 · p. 180
ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः ।सान्तं, तमिस्रा तमिस्रं सदन्त्यौ तिमिरं तथा ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.297 · p. 40
तिमिरं तमस्तमिस्रं ध्वान्तं क्लीबेऽपि चान्धकारः स्यात् ।अवतमसमन्धतमसं संतमसं क्षयिणि भूयसि ततेऽस्मिन् ॥ २९७ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.62 · p. 22
ध्वान्तन्तिमिरमासक्तं तामिस्रं शार्वरं तमः ।आततिश्चान्धकारोऽस्त्री तत्तु सन्तमसं यदि ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास रपादः Dharaṇikośa 26.1.20 · p. 164
भ्रामरं मधुनि गाव्णि मन्दिरं नगरे गृहे ।तिमिरं ध्वान्ताक्षिरुजोरुद्धार उद्धृतावृणे ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.857 · p. 122
एतद्रभसकोशोक्तमथ स्यात् तिमिरोऽस्त्रियाम् ।अन्धकारेऽक्षिरुग्भेदे तिमिरा तु स्त्रियामियम् ॥ ८५७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.858 · p. 122
वाद्यभेदे तिरीटस्तु रक्तलोध्रे पुमानयम् ।मकुटे तु नपि स्त्री तु बदर्यां स्यात् तिरीटिका ॥ ८५८ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.353 · p. 215
तारिण्यङ्गदमात्रोः स्त्री न ना ऋक्षाक्षिमध्ययोः ।दृग्रोगे तिमिरं ध्वान्ते तोत्रे प्राजनवेणुके ॥ ३५३ ॥
अनुष्टुप्

तिमिर as a meaning in nānārtha verses