अन्धतमस
andhatamasaक्ली · neut.In 12 kośas: 11 synonym verses, 5 as a meaning of another word.
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ।ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
आर्या
genderक्लीneut.
अन्धं तमोऽन्धतमसमन्धातमसमित्यपि ।क्षीणं तमोवतमसं विष्वक् संतमसं च तत् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
स्यान्नीलपङ्कं दिनकेसरान्ध-ध्वान्तानि तत्संतमसं प्रसारि ।गाढेऽन्धपूर्वं तमसं विहीनेत्वत्रावपूर्वं तमसं प्रदिष्टम् ॥ ८ ॥
इन्द्रवज्रा
genderक्लीneut.doubtful
अन्धकारस्तमो ध्वान्तं भूच्छाया तिमिरं त्वथ ।तमिस्र[13]मन्धतमसं तथा संतमसं स्मृतम् ॥ १३४ ॥
अनुष्टुप्
genderक्लीneut.
तमिस्रमन्धतमसं भूछाया तामसं रजः ।क्षणः पलं घटी यामदिनमासर्तवोऽयनम् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
उच्चन्द्रस्त्वपररात्रस्त्वन्धकारं रजोबलम् ।तमिस्त्रं तिमिरं ध्वान्तं तथाऽन्धतमसं तमः ॥ १३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderक्लीneut.
दिनान्तकं वियद्भूतिरन्धकं ध्वान्तमित्यपि ।घनध्वान्तेऽन्धतमसं क्षीणेऽवतमसं भवेत् ॥
अनुष्टुप्
genderक्लीneut.
सन्तमसा-ऽवतमसे अन्धातमसमन्धतः ।तमसं चाऽन्धकारान्धे भूच्छायमनृलिङ्गकम् ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderक्लीneut.doubtful
तिमिरं तमस्तमिस्रं ध्वान्तं क्लीबेऽपि चान्धकारः स्यात् ।अवतमसमन्धतमसं संतमसं क्षयिणि भूयसि ततेऽस्मिन् ॥ २९७ ॥
गीतिः
genderक्लीneut.
परितोऽथावतमसं लघ्वन्धतमसं महत् ।छदो व्यवधिरन्तर्धिर्वरणं चापवारणम् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
अन्धतमस as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् शार्वरशार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् । Amarakośa 3.3.354
- नानार्थार्णवसंक्षेप तमिस्रकुब्जपुष्पैरण्ड इति तमिस्रा तु स्त्रियामियम् । ध्वान्तरात्रौ तथा रात्रौ स्यादन्धतमसे त्वना ॥ ८२२ ॥ Nānārthārṇavasaṃkṣepa 4.822
- नानार्थार्णवसंक्षेप शार्वरशारदी तोयपिप्पल्यामप्यथो शार्वरं नपि । स्यादन्धतमसे त्रिस्तु धातुकेऽथ त्रि शार्करः ॥ १८०६ ॥ Nānārthārṇavasaṃkṣepa 4.1806
- शब्दरत्नावली शार्वरशार्वरञ्चान्धतमसे धातुके राक्षसेऽपि च । शालारं स्यात्करिनखे सोपाने पक्षिपञ्जरे ॥ Śabdaratnāvalī 7.27.104
- वैजयन्ती तमिस्रतमिस्रा स्त्री ध्वान्तनिशि निश्यन्धतमसे न ना । तातगुः शूद्रताते ना ताताय तु हिते त्रिषु ॥ ४३ ॥ Vaijayantī 7.5.43