कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उपमातृ

upamātṛस्त्री · fem.

In 11 kośas: 6 synonym verses, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.558 · p. 25
धात्री तु स्यादुपमाता वीरमाता तु वीरसूः ॥ ५५८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.507 · p. 58
धात्री स्यादुपमाता भगिनी जामिः स्वसा च विज्ञेया ।तत्पुत्रः स्वस्रीयो जामेयो भागिनेयः स्यात् ॥ ५०७ ॥
आर्या
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.49 · p. 25
प्रसवोऽपि प्रसूति स्त्री नग्निका कोटवीत्यपि ।धात्री स्यादुपमात्रर्था भर्त्तुः पत्न्यः परस्परम् ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.223 · p. 128
उपमाता तु धात्री स्यात्कृमिला तु बहुप्रसूः ।पतिपत्नीजनन्यां तु श्वश्रूरपि विभाव्यते ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.601 · p. 135
उपमाता च धात्री सा याऽन्यान् प्रापयति पयः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1126 · p. 139
मातुली मातुलान्यस्य जाया धात्र्युपमातरि ।पुत्रस्य तनयः पौत्रो नप्ता पौत्रस्य नन्दनः ॥ ११२६ ॥
अनुष्टुप्
genderस्त्रीfem.

उपमातृ as a meaning in nānārtha verses