All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · धकारादयः
[अथ] धकारादयो यथा ।
धाम गेहे प्रभावे च स्थाने तेजसि विश्रुतम् ।धुनी नद्यां समुद्रेऽथ धेनो धेनुः करिस्त्रियाम् ॥ २५१ ॥
5.17.251 · p. 194
अनुष्टुप्
गवि ध्वाङ्क्षस्तु काके स्याद्बकयाचकयोरपि ।धातुः क्रियादिरूप्यादिमहाभूतेषु तद्गुणे ॥ २५२ ॥
5.17.252 · p. 194
अनुष्टुप्
धारा जलादिपाते स्यात्खड्गाङ्गेऽर्वगतावपि ।धरः कूर्मे गिरौ तूले धरा मेदभुवोर्मता ॥ २५३ ॥
5.17.253 · p. 194
अनुष्टुप्
धिष्ण्यं रश्मौ गृहे स्थाने वह्नौ नक्षत्रशुक्रयोः ।धात्री क्षोण्यामलक्योश्च धातक्यामुपमातरि ॥ २५४ ॥
5.17.254 · p. 194
अनुष्टुप्
धृतिः सुखेऽध्वरे धैर्ये संतोषे धारणेऽपि च ।कोदण्डस्थलयोर्धन्व धन्वा स्यान्मरुमण्डले ॥ २५५ ॥
5.17.255 · p. 194
अनुष्टुप्
धन्वी धनुर्धरे छेके ध्रुवः कीलकशर्वयोः ।धवः प्रिये तरौ भीरौ धीदा कन्यामनीषयोः ॥ २५६ ॥
5.17.256 · p. 194
अनुष्टुप्
धैनुकं करणे स्त्रीणां धेनूनां निवहेऽपि च ।धिषणस्तु सुराचार्ये धरणो रविशेषयोः ॥ २५७ ॥
5.17.257 · p. 194
अनुष्टुप्
धूसरो धूमले वर्णे शकटाङ्गे च गर्दभे ।धाराटो निर्दये त्वश्वे चातके निन्दके तथा ॥ २५८ ॥
5.17.258 · p. 195
अनुष्टुप्