कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुर्कुर

kurkuraपुं · masc.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1280 · p. 49
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.281 · p. 34
कौलेयकः सारमेयो भषणः श्वा च कुर्कुरः ।शुनको मृगदंशश्च बुधैः शालावृको मतः ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.39 · p. 206
वान्ताशी दीर्घसुरतः शयालुररतत्रपः ।कुर्कुरः शुनकोऽपि स्याद्भषोपि च शुनिः शुनः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.183 · p. 74
मेषी जालकिनी चैव रुजा च कुररी समा ।कुर्कुरः सारमेयोऽस्थिभुक्कौलेयः पुनः शुनः ? ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.593 · p. 102
सारमेयः कुर्कुरश्च कौलेयश्च कडङ्गकः ।मृगयाचतुरे विश्वकद्रुर्बम्भण इत्यपि ॥ ५९३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.33 · p. 155
कुर्कुरो दीर्घसुरतः श्वणो ग्राम्यमृगोऽपि च ।वक्रपुच्छः शयालुः स्यात् शवकाम्यः तरत्रपः(?) ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.316 · p. 244
कुर्क्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः ।शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः ॥ ३१६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नः (wrong syllable); pāda 3, syllable 7 भ (wrong syllable)
genderपुंmasc.doubtful