कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शुनि

śuniपुं · masc.

In 10 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1280 · p. 49
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर तिर्यक्काण्डः Abhidhānacintāmaśiloñcha 4.56 · p. 4
पवित्रं गोमये छागे शुभोऽथ भषकः शुनिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.38 · p. 206
शालावृकः शुनिः श्वानः कुक्कुरो मृगदंशकः ।व्रणोर्वुको स्थिभुक्कीषो रसनालिड्रतव्रणः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.39 · p. 206
वान्ताशी दीर्घसुरतः शयालुररतत्रपः ।कुर्कुरः शुनकोऽपि स्याद्भषोपि च शुनिः शुनः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.44 · p. 207
एषां माता तु सरमा तज्जातिः स्त्री शुनिः शुनी ।भषी श्वानी कुक्कुरी च कुर्क्कुरी भषणीत्यपि ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.49 · p. 299
आच्छोदनं कुक्कुरस्तु कुकुरः कूकुरः शुनः ।शुनिश्च शुनकः श्वानश्चास्थिभुग्भुग्नवालधिः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.100 · p. 21
रतिकीलो गृहमृगः कुक्कुरः क्रोधनः शुनिः ।यक्ष इन्द्रमृगः श्वालः कपिलो मण्डलः सुनः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.592 · p. 102
लुब्धो मृगवधाजीवो लुब्धको लौभ्य एव च ।शुनके श्वा शुनिः शौनो भषको मृगदंशकः ॥ ५९२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2307 · p. 374
श्वा श्वानः सारमेयश्च स्वजातिद्विट् शुनः शुनिः ।रतशायी रसापायी रसनालिट् रतान्दुकः ॥ २३०७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.316 · p. 244
कुर्क्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः ।शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः ॥ ३१६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नः (wrong syllable); pāda 3, syllable 7 भ (wrong syllable)
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 180 · p. 540
कुक्कुरस्तु शुनिः श्वानः कपिलो मण्डलः शुनः ॥ १८० ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.69 · p. 70
दीर्घनादी गृहमृगः कुक्कुरः क्रोधनः शुनिः ।यक्ष इन्द्रमहश्चालः कपिलो मण्डलः शुनः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.