कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वेणी

veṇīस्त्री · fem.

In 18 kośas: 31 synonym verses, 5 as a nānārtha head word, 9 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.23 · p. 42
प्रवाहः पुनरोघः स्याद्वेणी धारा रयश्च सः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1280 · p. 49
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.105
वेणी खरा गरी देवताडो जीमूत इत्यपि ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.173
वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.530 · p. 60
केशाः शिरसिजमूर्धजकचचिकुरशिरोरुहाः स्मृता वालाः ।तद्बन्धविशेषाः स्युर्वेणी धम्मिल्लकुन्तलकवर्यः ॥ ५३० ॥
गीतिः
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.669 · p. 76
ओघः प्रवाहो वेणी च धारा स्रोतो रयः स्मृतः ।सम्भेदः सङ्गमो नद्योः संवेद्यश्च निगद्यते ॥ ६६९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.137 · p. 35
कर्वर्यथ स्त्रियां वेणिर्वेणी च विशदे कचे ।शीर्षण्यश्च शिरस्यश्च प्रलोभ्योऽपि त्रयस्त्रिषु ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.474 · p. 185
पुच्छपर्यायमांसार्थः स्याद्देशान्तरसंभवे ।कुररी स्याज्जालकिनी मेषी वेण्यविलारुजा ॥ ४७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्जा (wrong syllable)
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.114 · p. 356
जलोका जालिका वेणी जलालोका जलाटनी ।जलौकसः स्त्रियां भूम्नि सैवोक्ता जलजन्तुका ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.24 · p. 101
झरा झरिर्झरी स्त्रीत्वे प्रवाहो वाहसो रयः ।ओघो धारा-वेणि-वेण्यः पूरो*वर्धनं प्लवः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (syllables merged)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.53 · p. 171
देवदाली जालिनी च वेणी लोमशपत्रिका ।कर्कोटी च विषघ्नी च मूषिका विषहापि च ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.58 · p. 286
जालकिन्यविला वेणी कुररी चरुजापि सा ।पृष्ठशृङ्गो वनाजः स्यादैडिकः शिशुवाहकः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.320 · p. 173
देवताडे देवदाली वृत्तकोशो गरागरी ।जीमूतकस्तालकश्च वेण्याखुविषघातिनी ॥ ३२० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.366 · p. 49
स्वतोऽम्भःसरणं स्रोतः प्र[28]वाहौ तावुभौ समौ ।वेणी धारा रयोऽथ स्यादुत्ताराख्या विशेषतः ॥ ३६६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.80 · p. 6
आननं वदनं वक्त्रं मुखमास्यं रदालयम् ।काकपक्षं शिखा वेणिर्वेणी कुन्तलशृङ्खला ॥ ८० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.25 · p. 22
केशात्कलापरचनापाशभारचया अपि ।कवरी वेणिका वेणी धम्मिल्ला गुम्फिताः कचाः ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.634 · p. 139
वेणी वेणिः प्रवेणिश्च प्रवेणी ग्रन्थितालकः ।
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1898 · p. 310
ओघो धारा रयो वेणी पुनः प्रवाह उच्यते ॥ १८९८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.114 · p. 373
मेषी स्यात् कुररी वेणी जालकिनी रुजाऽविला ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.92 · p. 42
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.135 · p. 67
देवताडस्तु जीमूतः खरी वेणी खरीखरा ।श्रीहस्तिनी तु भूरुण्डी चेनीति समाह्वये ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.328 · p. 104
वेणिर्वेणी प्रवेणिः स्यात् प्रवेणी केशवेणीषु ॥
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.25 · p. 309
निरूवी स्यादयोन्यादौ स्त्रियां वेणिवेणिवत् ॥
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.35 · p. 310
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.106 · p. 226
वेणिर्वेणीवक्त्रं वक्त्रं पुटभेदेऽम्बुनिर्गमे ।परिवाह-परीवाहौ नाल-नादौ प्रनालिका ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.588 · p. 76
नारायणी बहुसुताभीरुरिन्दीवरी वरी ।वेणी खरा गरी देवताली जीमूत इत्यपि ॥ ५८८ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1091 · p. 135
पाशः पक्षश्च हस्तश्च प्रशंसावाचकास्त्रयः ।केशबन्धविशेषे स्युर्वेणीधम्मिल्लमुख्यकाः ॥ १०९१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्तम्बे गुच्छ इति प्रोक्तो वेणी नद्यां प्रकीर्तिता ।अब्धिस्तटाके कथितस्त्रिका स्याद्दीर्घिका मता ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.86 · p. 52
अग्निमन्थे हविर्मन्थोऽप्यरणिः पावको वशा ।गणिकार्यप्यथो देवताडे वेणी खरागरी ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.65 · p. 70
मेषी तु कुररी वेणी जालकिन्यविला रुजा ।खररासभचक्रीवद्वाहबालेयगर्दभाः ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.112
सेतौ च वरणो वेणी नदीभेदे कचोच्चये ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.2 · p. 50
शाणः ? कम्बललोम्नि स्याच्छाणी प्रावरणान्तरम् ।वेणी स्यात्पयसां मध्ये बन्धमेदे शिरोरुहाम् ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.17 · p. 208
वृष्णिर्ना यादवे मेषे त्रिषु पाषण्डचण्डयोः ।वेणीकेशबन्धने स्यान्नदीभिद्देवताभिदोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1998 · p. 243
वेणी तु देवताली स्यात् केशबन्धोऽम्बुसंततिः ।वर्णो विप्रादिशुक्लाद्योर्व्रते गीतिक्रमे कुथे ॥ १९९८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.36 · p. 222
वृत्तिर्ग्रन्थाजीवयोश्च वेलाब्धिजलवर्धने ।काले सीम्नि च वेणी तु केशबन्धे जलस्रुतौ ॥ ३६ ॥
अनुष्टुप्

वेणी as a meaning in nānārtha verses

  • धरणिकोश प्रवेणीप्रवेणी च कुथावेण्योः करेणू हस्तिनीगजौ । ब्राह्मणी ब्रह्मयष्टिश्च ग्रामीणा नीलिकापि च ॥ Dharaṇikośa 14.1.9
  • कोषकल्पतरु देवताडऽथो वातखुडोऽस्त्री मरुत्संघे । वामे च वातरक्ते स्फोटे स्यात्पिच्छिले परवत् । वेण्यां तु देवताडो वह्नौ राहुग्रहे तद्वत् । शैंले तु चक्रवाडो [गदि]तोऽप्यन्ते तु मण्डलार्थे द्वौ ॥ ९१ ॥ Koṣakalpataru 6.12.91
  • कोषकल्पतरु प्रवेणिस्यात्पण्यवीथ्यां विपणिर्द्विलिङ्गा- पणे च पण्येऽथ भवेत्प्रवेणिः । वेण्यां कुथायां भरणं तु वृत्तौ डुगतं तु तत्स्त्री ॥ ४० ॥ Koṣakalpataru 6.15.40
  • कोषकल्पतरु छुपरोपो रोपणबाणयोरथ भवेत्सूपः पुमान्व्यञ्जने तत्कारे स्पृशि तु क्षुपे छुप इति स्याद्वायुवेण्योश्च यः । कूपोऽन्धौ गुणवृक्षके च विवरे मृन्मानके कूपके तापः स्यात्पचते तथातितपने नद्यन्तरे च स्त्रियाम् ॥ २ ॥ Koṣakalpataru 6.22.2
  • नानार्थार्णवसंक्षेप प्रवेणीप्रवेणी तु कुथायां च वेण्यां चाथ प्रतोल्यसौ । पुरस्य गोपुरे चापि रथ्यायां प्रतिपत् पुनः ॥ ५४ ॥ Nānārthārṇavasaṃkṣepa 3.1.54
  • शब्दरत्नावली रज्जुरजः परागे रेणौ च गुणभेदे तथार्त्तवे । रज्जुः स्त्रियां गुणे वैण्यां स्त्रीराजिः पंक्तिलेखयोः ॥ Śabdaratnāvalī 7.8.14
  • शब्दरत्नावली प्रवेणीआगामिवर्तमानाहर्युक्तायां रजनावपि । प्रवेणी च कुथावेण्योः पूरणं पूरपिण्डयोः ॥ Śabdaratnāvalī 7.15.48
  • शब्दरत्नावली गरागरो विषोपविषयोर्वेण्यां स्त्री करणे गरम् ॥ Śabdaratnāvalī 7.27.8
  • वैजयन्ती प्रवेणीबोधे तिथौ च प्रतिपत् प्रवृत्तिर्वृत्त्युदन्तयोः । प्रवेणी तु कुथावेण्योः प्रसूतिः पुत्रजन्मनोः ॥ १६ ॥ Vaijayantī 7.2.16