कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विश्वकद्रु

viśvakadruपुं · masc.

In 13 kośas: 12 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.99 · p. 49
विश्वकद्रुस्तु कुशलो मृगव्ये सरमा शुनी ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.22
श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.282 · p. 34
मृगव्ये कुशलः श्वा च विश्वकद्रुरिति स्मृतः ।अलर्को रोगितो ज्ञेयः शुनकी सरमोच्यते ॥ २८२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.42 · p. 206
श्वा श्वानो मङ्गलो वक्रपुच्छो भलुह इत्यपि ।विश्वकद्रुस्तु मृगयापर्यायकुशलार्थकः ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.54 · p. 299
उन्मत्तोऽसावलर्कः स्याद्विश्वकद्रुर्मृगव्यवित् ।सरमा तु शुनी प्रोक्ता शुनारोऽस्त्री शुनीपयः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.185 · p. 75
अलर्को रोगवान् श्वानो मृगव्ये कुशलो मतः ।विश्वकद्रुः पुना रोगी शुनी तु सरमा मता ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.593 · p. 102
सारमेयः कुर्कुरश्च कौलेयश्च कडङ्गकः ।मृगयाचतुरे विश्वकद्रुर्बम्भण इत्यपि ॥ ५९३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2312 · p. 374
अलर्कोः रोगितः श्वानः कथ्यते कोविदैः किल ।मृगव्ये कुशलः श्वानो विश्वकद्रुश्च मन्यते ॥ २३१२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.34 · p. 155
औषधादियोगितः श्वा स्यादलकोऽप्यलर्ककः ।मृगयाकुशलः श्वा तु विश्वकद्रुः पुमानयम् ।कुक्कुरी सरमा श्वाना सारमेयी शुनी भषी ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.317 · p. 244
इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ ।विश्वकद्रुर्विश्वकद्रूः, शुनकी शुनका शुनी ॥ ३१७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मह (syllable split)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.749 · p. 95
शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः ।अर्जुन्यघ्न्या रोहिणी सौरभेयीमाहेय्युस्रा शृङ्गिणी गौश्च माता ।गव्या गोत्रा गोगणे वत्सधेन्वो-र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.39 · p. 139
आखेटश्च वराधिश्च वागुरा मृगबन्धिनी ।श्वा विश्वकद्रुर्मृगयादक्षोऽलर्कस्तु योगितः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.26 · p. 334
ग्राहे समुद्रारुरिहापि सेतो-र्बन्धे तथा पुंसि तिमिङ्गलेऽपि ।स्याद्विश्वकद्रुर्मृगयाप्रकीर्णेशुनि ध्वनौ तादृश एव धूर्ते ॥ २६ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.144 · p. 276
वातपुत्रो महाधूर्त्ते भीमसेने हनूमति ।विश्वम्भरो हरौ शक्ते पृथिव्यामपि च स्त्रियाम् ॥विश्वकद्रुः खले ध्वाने खेटकुक्कुरयोरपि ।विभावरी तु वक्रस्त्री कुट्टानी यामिनीषु च ॥विवादवस्त्रमुण्ड्याञ्च मौखर्यनिरतस्त्रियाम् ।शतपुत्रो मयूरे स्याद्धार्वाघाटे तु सारसे ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.373 · p. 222
विकारो विकृतौ रोगे विश्वकद्रू श्वभित्खलौ ।बेरोऽङ्गे कुङ्कुमे बेरं वठरः शठमन्दयोः ॥ ३७३ ॥
अनुष्टुप्