शुनक
śunakaपुं · masc.In 11 kośas: 12 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥शुनको भषकः श्वा स्यादलर्कस्तु स रोगितः ।
अनुष्टुप्
genderपुंmasc.
कौलेयकः सारमेयो भषणः श्वा च कुर्कुरः ।शुनको मृगदंशश्च बुधैः शालावृको मतः ॥ २८१ ॥
अनुष्टुप्
genderपुंmasc.
महावेगो दधिमुखः शाखामृगवलीमुखौ ।श्वा सारमेयः शुनको भषको मृगदंशकः ॥ ३१५ ॥
अनुष्टुप्
genderपुंmasc.
व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ।कौलेयकः सारमेयः शुनको रात्रिजागरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
वान्ताशी दीर्घसुरतः शयालुररतत्रपः ।कुर्कुरः शुनकोऽपि स्याद्भषोपि च शुनिः शुनः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
आच्छोदनं कुक्कुरस्तु कुकुरः कूकुरः शुनः ।शुनिश्च शुनकः श्वानश्चास्थिभुग्भुग्नवालधिः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
मेषी जालकिनी चैव रुजा च कुररी समा ।कुर्कुरः सारमेयोऽस्थिभुक्कौलेयः पुनः शुनः ? ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
कुक्कुरः श्वानभषकशुनकामृगदंशकः ।कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥
अनुष्टुप्
genderपुंmasc.
कुर्क्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः ।शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः ॥ ३१६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नः (wrong syllable); pāda 3, syllable 7 भ (wrong syllable)
genderपुंmasc.
शैवगवबादरायणवभ्रुभरद्वाजमन्त्रणानूपाः ।शुङ्गशुनकौ सवेदा इत्याद्या गोत्रहेतवो मुनयः ॥ २०७ ॥
गीतिः
genderपुंmasc.
शुनकः सारमेयः श्वा कौलेयो रतिकीलकः ।कुक्कुरो मण्डली योगादलर्कः सरमा शुनी ॥ ७४८ ॥
अनुष्टुप्
genderपुंmasc.
करभाः स्युः शृंखलका दारवैः पादबन्धनैः ।श्वा सारमेयः शुनको भषणो मृगदंशकः ॥ ६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृं (wrong syllable)
genderपुंmasc.
शुनक as a meaning in nānārtha verses
- कोषकल्पतरु कौलेयककौलेयकः कुलाग्र्ये शुनके क्लीबं प[258b]रीवादे । दिग्गजभेदे पुंसि तु परवत्स्वङ्गे च सुप्रतीकः स्यात् ॥ ४३ ॥ Koṣakalpataru 6.1.43
- नानार्थार्णवसंक्षेप सारमेयश्ववृकक्रोष्टुषु ज्ञेयः सारमेयः पुनर्द्वयोः । शुनके मूषिकायां च समासादीनि पूर्ववत् ॥ ६५९ ॥ Nānārthārṇavasaṃkṣepa 6.659
- शब्दरत्नाकर वृषविश्वं जगति सर्वस्मिन् त्रिषु शुण्ठ्यामसौ न ना । मूषिके शुनके श्रेष्ठे वृषभे सुकृते वृषः ॥ २००२ ॥ Śabdaratnākara 4.1.2002