उरण
uraṇaपुं · masc.In 13 kośas: 12 synonym verses, 3 as a meaning of another word.
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
युवाजपुंवर्करपुंअविपुंमेषपुंऊर्णायुपुंहुडपुंउरणपुंउरभ्रपुंमेण्ढकपुंवृष्णिपुंएडकपुंरोमशपुंहुडुपुंसंफालपुंशृङ्गिणपुंभेडपुंमेषीस्त्रीकुररीस्त्रीरुजास्त्रीजालकिनीस्त्रीअविलास्त्रीवेणीस्त्रीएडिक्कपुंशिशुवाहकपुंपृष्ठशृङ्गपुंवनाजपुंसोढक्लीदूसक्लीमरीसक्लीकुक्कुरपुंअस्थिभुज्पुंभषणपुंसारमेयपुंकौलेयकपुंशुनपुंशुनिपुंश्वानपुंगृहमृगपुंकुर्कुरपुंरात्रिजागरपुंरसनालिह्पुंरतपरपुंकीलशायिन्पुंव्रणान्दुकपुंशालावृकपुंमृगदंशपुंश्वन्पुंअलर्कपुं
genderपुंmasc.
मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः ।अविसोढमविमरीसं स्यादविदूसं च दुग्धमवेः ॥ २७९ ॥
आर्याmetre not read in every line
genderपुंmasc.
मेषो रभ्रोरणोर्णायुर्मेढो वृष्णिर्हुडुर्हरः ।उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
वेगवान्सृमरोऽथ स्यादुरणो रूपकोप्यथ ।वरपोतः श्रेष्ठशावोऽप्यथ स्यात् कृतमालकः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
अविर्हुडुरजो वृष्णिरुरणोर[137b]भ्र-रोमशाः ।मेषोऽस्त्री भेड-संफाल-शृङ्गिणो अविको धनुः ॥ ५७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
एडकोऽप्युरणो मीथ उरभ्रो रोमजोऽप्यविः ।खररासभचक्रीवद्वाहवाहकगर्दभाः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
छागे तु स्तबको वस्तः छा(छ?)गः छागलकोऽपि च ।उरभ्र उरणो मेषो मेढ्रो वृष्टि(ष्णि?)श्च एडके ॥ ५०९ ॥
अनुष्टुप्
genderपुंmasc.
उरभ्रो मेण्ढको मेष एडकोऽविहुडोरणाः ।अजस्तु छगलश्छागश्छगो बस्तः स्तभः पशुः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
उरभ्र उरणो वृष्णिः ऊर्णायुश्च हुडो हुडुः ।एडको रोमशो भेडोऽविश्च नामानि सन्ति वै ॥ २३०४ ॥
अनुष्टुप्
genderपुंmasc.
स्तभ-स्तुभौ, युवाजे तु बर्करो बर्करी तथा ।बर्करम् मेषे तु हुडुर्हुडोऽप्युरण ऊरणः ॥ ३१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षे (wrong syllable)
genderपुंmasc.
मेषे शृंगिणसंफालवृष्णिपेत्वहुलुह्रदाः ।एडकोऽप्युरणो मीढ उरभ्रो रोमशोऽप्यविः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
उरण as a meaning in nānārtha verses
- कोषकल्पतरु मेषमेषोऽस्त्रियां स्यादुरणे च राशि- भेदे तथा भेषजभेदकेऽपि । शेषस्तु संकर्षणकेऽप्यनन्ते वधे पुमान्स्यादथ न स्त्रियां स्यात् ॥ ३८ ॥ Koṣakalpataru 6.30.38
- नानार्थार्णवसंक्षेप वर्वरीकउरणे केशसंस्थानभेदे क्ली त्रि तु कश्चन । ब्रूते वचनकारेऽथ पुमान् वरयिता धवे ॥ ५४७ ॥ Nānārthārṇavasaṃkṣepa 6.547
- त्रिकाण्डशेष मेषपक्षौ मासार्द्धपार्श्वौ च महिषी राजपत्न्यपि । मूर्खे माने फले माषो मेषौ राश्यन्तरोरणौ ॥ ४४० ॥ Trikāṇḍaśeṣa 3.3.440