कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उरभ्र

urabhraपुं · masc.

In 14 kośas: 13 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1280 · p. 49
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.76
मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.279 · p. 34
अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः ।अविसोढमविमरीसं स्यादविदूसं च दुग्धमवेः ॥ २७९ ॥
आर्याmetre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.473 · p. 185
मेषो रभ्रोरणोर्णायुर्मेढो वृष्णिर्हुडुर्हरः ।उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.57 · p. 286
अविर्हुडुरजो वृष्णिरुरणोर[137b]भ्र-रोमशाः ।मेषोऽस्त्री भेड-संफाल-शृङ्गिणो अविको धनुः ॥ ५७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.97 · p. 20
एडकोऽप्युरणो मीथ उरभ्रो रोमजोऽप्यविः ।खररासभचक्रीवद्वाहवाहकगर्दभाः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.182 · p. 74
ऊर्णायुरुरभ्रश्च[श्चापि?] वृष्णिरेडकरोमशौ ।मेण्ढकः शृङ्गिणो भेडो हुडुः संफाल इत्यपि ॥ १८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.509 · p. 91
छागे तु स्तबको वस्तः छा(छ?)गः छागलकोऽपि च ।उरभ्र उरणो मेषो मेढ्रो वृष्टि(ष्णि?)श्च एडके ॥ ५०९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.165 · p. 18
उरभ्रो मेण्ढको मेष एडकोऽविहुडोरणाः ।अजस्तु छगलश्छागश्छगो बस्तः स्तभः पशुः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2304 · p. 373
उरभ्र उरणो वृष्णिः ऊर्णायुश्च हुडो हुडुः ।एडको रोमशो भेडोऽविश्च नामानि सन्ति वै ॥ २३०४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.148 · p. 147
लम्बकर्णश्च मेनादो वुक्कोऽल्पायुः शिवाप्रियः ।मेषो रोमश ऊर्णायुरुरभ्रो भेड-भेडकौ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.778 · p. 99
ऊर्णायुरुरणकैलकमेढ्रोरभ्राविवृष्णिमेषाश्च ।अविसोढमविमरीसं स्यादविद्सं च यद्दुग्धमवेः ॥ ७७८ ॥
metre not recognised
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.64 · p. 70
मेषे शृंगिणसंफालवृष्णिपेत्वहुलुह्रदाः ।एडकोऽप्युरणो मीढ उरभ्रो रोमशोऽप्यविः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.

उरभ्र as a meaning in nānārtha verses