कुर्दन
kurdanaक्ली · neut.In 6 kośas: 6 synonym verses.
अश्रुरोदनमात्रं च क्रीडा खेला च कुर्दनम् ।ध्रुवः केलिः परीहासः क्रीडा लीला च नर्म च ॥ १३४ ॥
अनुष्टुप्
genderक्लीneut.
कूर्दनं कुर्दनं च स्याज्जृम्भो जृम्भापि जृम्भिका ।विङ्कणं विङ्खणं तुल्ये भङ्गिर्भङ्गी उभे समे ॥ २६५ ॥
अनुष्टुप्
genderक्लीneut.
व्याजापदेशौ लक्षं षण् भङ्गिर्भङ्गी निमीलिका ।पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
कुर्दनं चावहित्था स्यादाकाराच्छादने मता ।स्यादाच्छुरितकं हासे रुदिते कृ(क्रु?)ष्टमिष्यते ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
अथ खेला कूर्दनं स्यात् क्रीडा कुर्दनमित्यपि ।खेलापर्याय इत्येष खेला साधारणो मतः ॥
अनुष्टुप्
genderक्लीneut.
पत्नीकनिष्ठभगिन्यां श्याली शाली च, खेलने ।परिहासः परीहासः कुर्दनं कूर्दनं समौ ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
genderक्लीneut.