कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

स्वरादिकाण्डः · स्वर्गवर्गप्रकाशः (5/5)

पुमान् उपाधिर्विज्ञेयो धर्मचिन्ता तु या भवेत् ।आधिः पुंसि समाख्यातो मानसी या व्यथा भवेत् ॥
2.1.481 · p. 34
अनुष्टुप्
आध्या चिन्ता स्मृतिर्ध्यानमाध्यानमपि चिन्तिते ।उत्कण्ठा स्यादुत्कलिका उत्साहोऽध्यवसायवत् ॥
2.1.482 · p. 34
अनुष्टुप्
प्रभावोत्साहमन्त्रैस्तु युक्ते स वीर्यमुच्यते ।शुटीरता तु शौटीर्यं शुटीर्यमपि दृश्यते ॥
2.1.483 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
2.1.484 · p. 34
अनुष्टुप्
अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा ।हिंसा फले चतुष्कं स्यात् शाठ्यपर्याय ईरितः ॥
2.1.485 · p. 34
अनुष्टुप्
पूर्वं कपटपर्यायः फले वञ्चनमात्रके ।उभयोरेकपर्याय इति केचित् प्रचक्षते ॥
2.1.486 · p. 34
अनुष्टुप्
कर्तव्याकरणं यत्र समर्थस्य क्वचिद्भवेत् ।उच्यते हि द्वयं तत्र प्रमादोऽनवधानता ॥
2.1.487 · p. 34
अनुष्टुप्
कौतुकं कुतूकं चित्रं कौतूहलः कुतूहलम् ।अथ विभ्रम-विव्वोक-विलासाललितं तथा ॥
2.1.488 · p. 34
अनुष्टुप्metre not read in every line
हेलालीलादयः स्त्रीणां क्रियाशृङ्गारभावजाः ।अत्रैव हावा विज्ञेया इति भावविदो विदुः ॥
2.1.489 · p. 34
अनुष्टुप्
हूयन्ते रागिनो यत्र हाव इत्यभिधीयते ।परिहासः परीहासः क्रीडः केलिमुखो द्रवः ॥
2.1.490 · p. 34
अनुष्टुप्
क्रीडा लीला देवना च केलिर्ना नर्म देवनम् ।तथापदेशो व्याजश्च लक्ष्यं लक्षं निमीलिका ॥
2.1.491 · p. 34
अनुष्टुप्
भङ्गी भङ्गिः स्तकं (?) च व्याजपर्याय ईरितः ।पूर्वको व्याजपर्यायः परद्रोहफलः स्मृतः ॥
2.1.492 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आत्मगोपनमात्रे तु पर्यायोऽयं निगद्यते ॥
2.1.493 · p. 34
अथ खेला कूर्दनं स्यात् क्रीडा कुर्दनमित्यपि ।खेलापर्याय इत्येष खेला साधारणो मतः ॥
2.1.494 · p. 34
अनुष्टुप्
पूर्वस्तु क्रीडापर्यायः स्त्रीपुंसोः क्रीडने स्मृतः ।घर्मो स्वेदो निदाघः स्यात् स प्रसवनमित्यपि ॥
2.1.495 · p. 34
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 डा (wrong syllable); pāda 4, syllable 2 प्र (wrong syllable)
अथ द्वयन्तु मूर्छायां प्रलयो नष्टचेष्टता ।अवहित्था वहित्थञ्च स्यादाकारगुप्तिरेव च ॥
2.1.496 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शृङ्गारादिकचिह्नानां लज्जाप्रच्छादने त्रयम् ।अत्यन्तवेगे विज्ञेयौ समौ संवेगसम्भ्रमौ ॥
2.1.497 · p. 35
अनुष्टुप्
सोत्प्रास आच्छुरितकं अवच्छुरितकं तथा ।अट्टहासो महाहासो हासः प्रहास इत्यपि ॥
2.1.498 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
ईषद्धासे स्मितं मध्यहासे विहसितं मतम् ।अथ रोमाञ्चपुलकौ रोमोद्भेदस्त्वगङ्कुरः ॥
2.1.499 · p. 35
अनुष्टुप्
त्वक्पुष्पं पुलकूपाङ्कौ कण्टको रोमहर्षणम् ।क्रन्दनं रुदितं क्रुष्टं क्रन्दितं रोदनञ्च तत् ॥
2.1.500 · p. 35
अनुष्टुप्
हर्म जृम्भं जृम्भनं स्यात् जृम्भो जृम्भा च जृम्भिका ।अङ्गीकृतानामर्थानां यत्रासम्पादनं भवेत् ॥
2.1.501 · p. 35
अनुष्टुप्
विप्रलम्भो विसंवादस्तस्मिन् उक्तो मनीषिभिः ।रिङ्गणं रिङ्खणञ्चैव स्खलितं स्खलनं तथा ।स्वधर्माद्विच्युतौ सद्भिरुक्तमेतच्चतुष्टयम् ॥
2.1.502 · p. 35
अनुष्टुप्
निद्रा सुप्तिश्च संवेशः स्वापः शयनमित्यपि ।स्वप्नः स्वपनमित्येष निद्रापर्याय ईरितः ॥
2.1.503 · p. 35
अनुष्टुप्
तन्द्री तन्द्रा प्रमीला च तन्द्रिका च प्रमीलनम् ।श्रमादिजनितालस्ये पञ्चकं परिकीर्तितम् ॥
2.1.504 · p. 35
अनुष्टुप्
भ्रूकुटिः भ्रूकुटी चैव भृकुटिः भृकुटी स्त्रियः ।भ्रूकुटीत्यादयोऽपि स्युः पर्यायभ्रूविभङ्गके ॥
2.1.505 · p. 35
अनुष्टुप्
सरोषवभ्रुदृष्ट्यान्तु स्याददृष्टिरदृष्टिका ।स्त्रियां प्रकृतिसंसिद्धी स्वभावो भाव एव च ॥
2.1.506 · p. 35
अनुष्टुप्
स्यात् स्वरूपं निसर्गश्च पर्यायोऽयं स्वभावके ।कम्पनं कम्पितं कम्पो वेपनं वेपथुः पुमान् ॥
2.1.507 · p. 35
अनुष्टुप्
उत्सवः क्षण उद्धर्षो मह उद्धव उद्धयः ।उत्सवे बालकादीनां पर्यायः परिकीर्तितः ॥
2.1.508 · p. 35
अनुष्टुप्
वैदग्ध्यमपि वैदग्धी भङ्गिस्त्विभनिमीलिका ।चमत्कारस्तमरयः (?) प्रौढिः (च) कियदेतिका ॥
2.1.509 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वदोषग्राहको म्रक्षो वागसङ्गोऽपि स स्मृतः ।स्वयं कृतानि पापानि चित्ते संस्थाप्य कथ्यते ॥काप्यकारः स विज्ञेयस्तथा काप्यकरोऽपि च ।संसारः स्यात् संसरणं भवश्च संसृतिः स्त्रियाम् ॥
2.1.510 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)