व्याज
vyājaपुं · masc.In 16 kośas: 16 synonym verses, 5 as a nānārtha head word, 31 as a meaning of another word.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderपुंmasc.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ।
अनुष्टुप्
genderपुंmasc.
कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् ।मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥
अनुष्टुप्
genderपुंmasc.
हासिक्यं तु हसो हासो हसनं हस्यघर्घरे ।व्याजो मिषं छलं छद्म निभं च कपटं लविः ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
व्याजापदेशौ लक्षं षण् भङ्गिर्भङ्गी निमीलिका ।पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधीदम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् ।* * * * * * * * * * * * *छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
व्यपदेशो निभं व्याजः पदं व्यतिकरश्छलम् ।छद्म वृत्तान्तमुत्प्रेक्षा शब्दमन्यं च निर्णयेत् ॥ १३८ ॥
अनुष्टुप्
genderपुंmasc.
दम्भः कूटं मिषं व्याजो लक्षं छद्मछले अपि ।कैतवं चोपधिश्चैवं व्यपदेशनिभौ समौ ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
कैतवं कपटं दम्भः कूटं छद्मोपविश्छलम् ।व्यपदेशो मिषं व्याजं निभं लक्ष्यं छलं च तत् ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
उपाधिरुपधिश्छद्म व्याजो व्यपदेशो निभम् ।उपधा चेति मन्तव्याः कपटस्यैव वाचकाः ॥ ५६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दे (wrong syllable)
genderपुंmasc.
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
क्रीडा लीला देवना च केलिर्ना नर्म देवनम् ।तथापदेशो व्याजश्च लक्ष्यं लक्षं निमीलिका ॥
अनुष्टुप्
genderपुंmasc.
अपदेशोपधिव्याजदम्भाः कपटमस्त्रियाम् ।छलं लक्षं पदं छद्म कैतवं कृतकं मिषम् ॥ १०१७ ॥
अनुष्टुप्
genderपुंmasc.
व्याजो मिषं छलं छद्म निभं च कपटोऽस्त्रियाम् ।दंभो दंडाजिनं कूटं दौन्दुभिश्छन्दनोपधा ॥ १९५ ॥
अनुष्टुप्
genderपुंmasc.
व्याज as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् लक्षव्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ । Amarakośa 3.3.436
- धरणिकोश उपधिउपधिं व्याजमिच्छन्ति रथस्यावयवे तथा । परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ Dharaṇikośa 18.2.12
- धरणिकोश निभभूः पृथिव्यां स्थानमात्रे निभो व्याजसदृक्षयोः । प्रभुर्नित्ये प्रभुः शब्दे स्वभूर्गोविन्दवेधसोः ॥ Dharaṇikośa 23.1.1
- धरणिकोश अपदेशप्रतिस्पर्शः सहाये स्याद्वार्ताहारपुरोगयोः । अपदेशं विदुर्लक्षे निमित्तव्याजयोरपि ॥ Dharaṇikośa 29.2.16
- धरणिकोश मिषमिषं व्याजो मिषं स्पर्धा शोषः शोषणयक्ष्मयोः । किल्बिषा मदिरा द्रोहे कलुषं पापमाविलम् ॥ Dharaṇikośa 30.1.2
- कोषकल्पतरु व्यप-दिश्व्यपात्परो दिशिर्व्याजे नाम्नि प्रत्याङ्परः पुनः । निराकृतौ समोऽभ्यासे वाचिकेऽथ नितो दिशिः ॥ ५५ ॥ Koṣakalpataru 3.5.55
- कोषकल्पतरु अप-दिश्अपाद्व्याजे कैतवे च प्रभाषे तूद ईरितः । अत्याङोऽतेरन्यधर्मप्राप्तावाङश्चाज्ञापने मतः ॥ ५७ ॥ Koṣakalpataru 3.5.57
- कोषकल्पतरु प्रत्याकरोतिप्रत्याङो व्याजधिक्कृत्योरनोः साम्ये प्रतेः पुनः । प्रतिविधौ प्रतिसमः क्रमन्यासेऽवतोऽस्तुतौ ॥ ६० ॥ Koṣakalpataru 3.5.60
- कोषकल्पतरु नाडीपीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा- व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता । रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरे बन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे । वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता- Koṣakalpataru 6.12.15
- कोषकल्पतरु पदशुक्रेभदानैणमदेषु मद्ये मनोविकारेऽपि पुमान्मदः स्यात् । स्त्री क्षेत्रिवस्तुन्यथ शब्दवाक्य- व्याजोद्यमत्राणपदार्थपत्सुः ॥ १९ ॥ Koṣakalpataru 6.19.19
- कोषकल्पतरु उपधिउपधिर्व्याजे चक्रे परिधिर्नाग्न्यालुपं(?)परितः । क्षेप्या यज्ञतरूणां शाखा या बाहुमात्री स्यात् ॥ ७५ ॥ Koṣakalpataru 6.20.75
- कोषकल्पतरु निभयोगे शुभं स्यात्कुशले तु षण्ढे व्याजे निभोऽस्त्री सदृशेऽन्यवच्च । दम्भस्तु कल्के नरि कैतवे च डिम्भोऽर्भके बालिशके तथैव ॥ ३९ ॥ Koṣakalpataru 6.24.39
- कोषकल्पतरु छलविशेष्यगाम्यप्रहते बिलस्तु शक्राश्वकेऽन्त्ये विवरे गुहायाम् । व्याजे द्वयोनं स्खलिते छलं स्या- द्रोमाञ्चने पुंसि पुलोऽन्यवत्तु ॥ ५४ ॥ Koṣakalpataru 6.28.54
- कोषकल्पतरु कलाशुक्रेऽन्तिमे स्त्रीरजसि स्त्रियां स्या- दंशे तथा मूलधनप्रवृद्धौ । शिल्पादिके स्याच्छशिषोडशांशे व्याजे च तर्यां कलनाकलार्थः ॥ ८४ ॥ Koṣakalpataru 6.28.84
- कोषकल्पतरु अपदेशव्याजे निमित्तेऽप्यथ जीवितेशो जीवातुजीवाधिपयोः कृतान्ते । कान्तेऽथ शंभौ हरिसारथौ च भवेद्गुडाकेश इहानले तु ॥ २७ ॥ Koṣakalpataru 6.30.27
- कोषकल्पतरु मिषस्यात्स्पर्धनव्याजगतं मिषं च लिप्सापिपासासु पुमांश्च तर्षंः । वर्षं तु न स्त्री किल वत्सरे स्या- द्वृष्टौ तथा स्याद्भरतादिखण्डे ॥ ३६ ॥ Koṣakalpataru 6.30.36
- नानार्थार्णवसंक्षेप निभआत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् । निभं तु स्यान्नपि व्याजे तत् तूत्तरपदं त्रिषु ॥ ६८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.689
- नानार्थार्णवसंक्षेप लक्षत्रिषु तूग्ररसे रुद्रसम्बन्धिन्यथ लक्षवाक् । शरव्ये क्ली नृशण्डस्तु व्याजे करुणनाम्नि तु ॥ ११२८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1128
- नानार्थार्णवसंक्षेप उपधिऔपधेयसमाख्ये च व्याजे चोपाधिवाक् पुनः । कुटुम्बव्यापृते धर्मचिन्तायां च यदप्यदः ॥ ५८ ॥ Nānārthārṇavasaṃkṣepa 3.2.58
- नानार्थार्णवसंक्षेप अपदेशअपदेशस्तु लक्षे स्यान्निमित्तव्याजयोरपि । अपवादस्तु निन्दायामाज्ञायां च द्वयोरपि ॥ २ ॥ Nānārthārṇavasaṃkṣepa 6.2
- नानार्थार्णवसंक्षेप व्यतिकरज्ञेयो व्यतिकरोऽत्राह सज्जनः शब्दवित्तमः । व्याजप्रस्तावसम्पर्काद्युक्ति(व्य ? र्व्य)तिकरध्वनिः ॥ १०८ ॥ Nānārthārṇavasaṃkṣepa 6.108
- परमानन्दीयनाममाला छिद्रछिद्रं व्याजे बिले गर्ते छन्दोऽभिप्रायतन्त्रयोः । श्रुतौ पद्येच्छयोश्चापि छाया बिम्बार्कयोषयोः ॥ १९० ॥ Paramānandīyanāmamālā 5.12.190
- शब्दरत्नावली उपधिउपधिस्तु रथाङ्गे स्यात् व्याजेऽपि च भवेत् पुमान् । कबन्धोऽस्त्री क्रियायुक्तमूर्धहीनकलेवरे ॥ Śabdaratnāvalī 7.19.26
- शब्दरत्नावली निभदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नावली अपदेशअपदेशो व्याजलक्ष्यनिमित्तसङ्कटेषु च । अपभ्रंशोऽपशब्दे स्याद्भाषाभेदे च पतने ॥ आश्रयाशः पुमानग्नौ त्रिषु चाश्रयनाशके । उपस्यर्शस्त्वाचमने स्नानस्पर्शनयोरपि ॥ Śabdaratnāvalī 7.30.28
- शब्दरत्नावली लक्षरूक्षमप्रेम्णि कठिने रक्षा जतुनि रक्षणे । लक्षं व्याजे शरव्ये च लक्षसंख्यान्तरेऽपि च ॥ Śabdaratnāvalī 7.31.13
- शब्दरत्नाकर अपदेशअनुभावोऽपदेशस्तु निमित्ते व्याजलक्षयोः । दीर्घद्वेषेऽप्यनुशयः पश्चात्तापानुबन्धयोः ॥ २१९५ ॥ Śabdaratnākara 4.1.2195
- त्रिकाण्डशेष निभदुन्दुभिर्दैत्यभेदेऽपि दम्भः कैतवकल्कयोः । दुर्लभः कर्चुरेऽकाम्ये सदृशव्याजयोर्निभः ॥ २८७ ॥ Trikāṇḍaśeṣa 3.3.287
- त्रिकाण्डशेष लक्षसङ्ख्यायान्तु न ना लक्षा क्लीबं व्याजशरव्ययोः । हरतार्क्ष्यौ विशालाक्षौ शेषो नानन्तसीरिणोः ॥ ४४१ ॥ Trikāṇḍaśeṣa 3.3.441
- वैजयन्ती लक्षराष्ट्रोऽस्त्री विषये जन्तौ लोहोऽस्त्री तैजसायसोः । लक्षं नपुं शरव्ये ना स्त्री व्याजे नियुते न ना ॥ ६९ ॥ Vaijayantī 6.5.69
- वैजयन्ती अपदेशअपभ्रंशोऽपशब्दे स्यात् भाषाभेदप्रपातयोः । अपदेशस्तु लक्षे स्यान्निमित्तव्याजयोरपि ॥ ७ ॥ Vaijayantī 8.1.7