क्षिपणि
kṣipaṇiस्त्री · fem.In 3 kośas: 5 synonym verses.
क्षेपणिः स्यात् क्षेपणी च क्षिपणिः क्षिपणी तथा ।अभ्री स्यादब्भ्रिरभिश्च तयाब्भ्री च समा इमाः ॥ ७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
genderस्त्रीfem.
नौकादण्डः क्षेपणी स्त्री क्षेपणिः क्षिपणिः स्त्रियाम् ।क्षिपण्यपि तथैवस्यादरित्रे केनिपातनम् ॥ ६२ ॥
अनुष्टुप्
genderस्त्रीfem.
अम्भोरथेऽसौ प्लव आलु चान्तिमेद्रोणिर्द्रुणिः काष्ठकृताम्बुवाहिनी ।स्यात्क्षेपणिः स्त्री क्षिपणिश्च मङ्गिनी-दण्डोऽथ मङ्गस्तरिमस्तकोऽस्त्रियाम् ॥ ७१ ॥
इन्द्रवंशा
genderस्त्रीfem.
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
क्षिपणिर्धारणी तूर्णा तिलपर्णी च सारणी ।वारुणी काकिणी वाणी वणीः शिखरिणी तथा ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.