कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अस्र

asraक्ली · neut.

In 18 kośas: 34 synonym verses, 8 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.307 · p. 16
वैवर्ण्यं कालिकाथाश्रु बाष्पो नेत्राम्बु रोदनम् ।अस्रमस्रु प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥ ३०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.365 · p. 27
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.118 · p. 39
वातायनो गवाक्षश्च जालकोऽथान्नकोष्टकः ॥ १०१२ ॥कुसूलोऽश्रिस्तु कोणोऽणिः कोटिः पाल्यस्र इत्यपि ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.117 · p. 5
देहे सिनं प्रजनुकश्चतुःशाखं षडङ्गकम् ॥ ११६ ॥व्याधिस्थानं च देहैकदेशे गात्रं कचे पुनः ।वृजिनो वेल्लिताग्रोऽस्रो धम्मिल्ले मौलिजूटकौ ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.111
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.93
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.632 · p. 72
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.150 · p. 37
नेत्रार्थादम्बुपर्यायं बाष्पास्रावश्रु रोदनम् ।नालोतम स्त्रियामक्ष्णोरूर्ध्वं ये रोमपद्धती ॥ १५० ॥
अनुष्टुप्
genderक्लीneut.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.224 · p. 45
स्यादस्रं रुधिरं शोणं वर्मजं लोहलोहिते ।कीलालं क्षतजं विस्रमसृक् चर्मसमुद्भवम् ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.325 · p. 125
यष्टिः शस्त्राणि षट्त्रिंशदमून्यायोधजीविनाम् ।घाण्टिको घण्टिकः कोणः स्यादश्रोऽस्रश्च पुंस्यमी ॥ ३२५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.112 · p. 429
अस्रं चास्त्र्यस्रुबाष्पाश्रूण्यथ स्यात्प्रलयः पुमान् ।नष्टचेतस्त्वमथ च स्त्रियां चिन्ता तु चिन्तिया ॥ ११२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 221
अस्रो हलो वेल्लिताग्रस्तीर्थवाप(क)श्च कुन्तलः ।शिरोरुहः शिरसिजः कचो वालस्तु न स्त्रियाम् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.31 · p. 222
रुधिरे रक्त - कीलाल - तेजोज - रसजानि च ।आत्मजं देहजं तिग्ममस्रं लोहितमस्त्रियाम् ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 265
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderक्लीneut.
पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् ।घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री ।येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.278 · p. 135
आग्नेयं लोहितं विस्रं वाशिष्ठं प्राणदं समम् ।आसुरं क्षतजं चास्रमसृग्मांसकरं हि तत् ॥ २७८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.12 · p. 212
इने मित्रो नरे नीलो मणौ भेकेश्वरे पुमान् ।अस्रः कोणे पुमान् कोशश्चषकार्थे नरो मतः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.156 · p. 45
गोधिः स्त्रियां ललाटे स्यात्कूर्चं भ्रूमध्यदेशके ।शिखण्डके काकपक्षो नेत्राम्बावस्रमस्रु च ॥ १५६ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.371 · p. 72
पालिरश्रिश्चरः कोशोऽप्यस्रं चापि प्रकीर्तितम् ।संनद्धसैन्ये सर्वौघः स च सर्वाभिसारकः ॥ ३७१ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.63 · p. 40
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.120 · p. 46
वर्तुलं मण्डलं वृत्तं निस्तलं वलयाकृतिः ।अस्रं कोटिरणिः कोणं प्रान्तं पर्यन्तमन्तवत् ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.452 · p. 57
अस्रमस्रु च नेत्राम्बु बाष्पो लोतस्तथाऽश्रु वै ।मूर्च्छा तु प्रलयश्चैवासात्विकाऽचेष्टिताऽखित्वा ॥ ४५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 खि (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1001 · p. 154
अस्रमसृक् च वाशिष्ठं प्राणदं क्षतजं तथा ।विस्त्रं रसभवं शोध्यं मांसकारि च शोणितम् ॥ १००१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.207 · p. 282
अणिः कोटी तथाऽस्रश्च नामानि कथितानि हि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.252 · p. 99
रुधिरासृक् पलङ्कारमस्रं क्षतजरोहितम् ।लोहितं शोनितञ्चेति रक्तं रङ्गकमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.317 · p. 103
दैवदीपो दर्शनञ्च दृशिर्दृशी … ।अश्रू चास्रञ्च नेत्राम्वु रोदनं वाष्पमस्रू च ॥
metre not recognised
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.352 · p. 134
कोणः स्त्रियां पालिरत्रीः कोटिरस्रन्तु न स्त्रियाम् ।अश्रिरश्रः पालिका च केचिदेवं प्रचक्षत ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.120 · p. 187
शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः ।बाष्पेऽश्वस्रू अस्रमश्रं, चित् तान्ता चेतना मतौ ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.52 · p. 222
अधिरोहिण्यां निःश्रेणिः निर्विसर्गाऽविसर्गयुक् ।निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः ॥ ५२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ण्यां (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.1013 · p. 126
प्रास्त्रमस्रं पुमान् बाष्पः स्यादथान्यस्य वतुस्नः ।अन्यथाकरणं माया स्वत एवासतः पुरा ॥ १०१३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1113 · p. 137
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.87 · p. 143
क्रन्दितं रुदितं क्रुष्टं लोतोऽश्रु नयनोदकम् ।अस्रु रोदनमास्त्रं च क्रीडा खेला च कूर्दनम् ॥ ८७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.105 · p. 181
रुधिरं लोहितं रक्तमस्रं क्षतजमासुरम् ।रोक्यं शोध्यं मांसकरं रसतेजो रसोद्भवम् ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.313
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि ।
अनुष्टुप्
meaningsकच
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.57 · p. 310
स्नुह्यां तु वज्रापि गुडूचिकायांस्नुह्यन्तरेऽपि प्रथिता * वज्री ।शुल्बे तु ताम्रं परगाम्यरुणे स्या-दस्रस्तु कोणेऽपि कचेऽथ रक्ते ॥ ५७ ॥
metre not recognisednearly इन्द्रवज्रा
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.59 · p. 311
षण्ढे तथा चाश्रुणि दस्र आद्येखरेऽश्विनोर्वासरहिंस्रयोस्तु ।घस्रोऽथ वाश्रोऽह्नि खरे पिके चचतुष्पथेऽन्त्ये सदने तथैव ।स्त्री प्रस्नुतायां गवि शब्दवत्या-मुस्रो वृषे स्यात्किरणे च पुंसि ॥ ५९ ॥
उपजातिःtwo metres in one verse
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.46 · p. 46
आपाण्डुतिक्ते मधुनि वैराग्ये त्वर्दमामनत् ।शण्डे पुंसि तु गत्यादावस्रं तु रुधिराश्रुणोः ॥ ४६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.47 · p. 47
क्ली ना तु केशे यत् त्वेतदजयेन प्रमादिना ।अस्रः कोण इति प्रोक्तं तन्नादृत्यं मनीषिभिः ॥ ४७ ॥
अनुष्टुप्
meaningsकेश
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास अकारादयः Paramānandīyanāmamālā 5.1.10 · p. 162
अस्रः कोणे तथा केशेऽथाश्रं रक्ताश्रुणोर्मतम् ।अर्थः कार्ये धने वस्त्वभिप्रायविषयेषु च ॥ १० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रद्विः Śivakoṣa 22.2.370 · p. 34
अस्रस्तु वालके क्लीबं कुङ्कुमेऽभ्रं तु मुस्तके ॥ ३७० ॥
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.327 · p. 205
नाकेऽतिगन्धद्रव्ये च स्यादऽस्रं रुधिराश्रुणोः ।प्रस्तावेऽवसरो वर्षे चौष्ठे नीचेऽपि चाधरः ॥ ३२७ ॥
अनुष्टुप्

अस्र as a meaning in nānārtha verses

  • कोषकल्पतरु कोणकाष्ठाद्यै रचितासु नौषु च गवां घासादिभोज्यस्थितौ मोणः शुष्कफले करण्ड उदितः स्यान्मक्षिकादावपि । कण्ठाल्यां तु भवेत्स्त्रियामथ भवेद्गौणी च*त्रन्तरे भेद्ये स्या[279a]द्गुणयोगिकेऽथ रविजे वाद्यान्तरेऽस्रौ पुमान् ॥ ६ ॥ Koṣakalpataru 6.15.6
  • कोषकल्पतरु पालिधमिल्लचूडामुकुटेषु मौलि- र्द्वयोरशोके तु नृलिङ्ग उक्तः । शालिः पु[68b]मान्स्यात्कलमे च गन्ध- मार्जारके योषिति पालिरस्रौ ॥ ८९ ॥ Koṣakalpataru 6.28.89
  • शब्दरत्नावली वाष्पलेपः स्याद्भोजने लिप्तौ वयाच्छिद्रे च मेदसि । वाष्पो ना स्रेऽप्युष्मयुते शष्पं ह्रासे तृणेऽपि च ॥ Śabdaratnāvalī 7.21.12