काकिणी
kākiṇīस्त्री · fem.In 6 kośas: 6 synonym verses, 3 as a nānārtha head word.
कलशी दशभिर्मुण्डः परीमाणमिदं स्मृतम् ।काकिणिः काकिणी तुल्ये काकिनिः काकिनी समे ॥ ५२८ ॥
अनुष्टुप्
genderस्त्रीfem.
वराटिका वटी [70b] सोऽल्पः काकिणी ताश्च विंशतिः ।दुर्नामा दीर्घकोशी स्यात्पङ्कशुक्तिः सितालिका ।चिकिटः स्यान्महाशल्क इम्बिका जलवृश्चिकः ॥ २ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
क्षिपणिर्धारणी तूर्णा तिलपर्णी च सारणी ।वारुणी काकिणी वाणी वणीः शिखरिणी तथा ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
विट्शब्दो यदा अवर्णस्तदा स्त्रियां भवन्ति । यथा इयं विट् विष्ठा । अवर्ण इति किम् । अयं विट् वैश्यस्तृतीयो वर्णः । सास्नादय स्त्रियां भवन्ति । सास्ना गलकम्बलः । वीथी गृहावयवः । नीवी मूलबन्धनम् । भेरी वाद्यविशेषः । मञ्जूषा पेटा पुस्तकादीनाम् । गण्डूषा हस्तजलम् । मूषा सुवर्णधमनिका । परिषत्सभा । गुहा पर्वतस्य ।तृष्णा कृपा पताका रथ्या कृषिश्च काकिणी चैव ।एते स्त्रियां भवन्ति प्रतिशीरा धारा च नेमिश्च ॥ ६७ ॥
metre not recognised
genderस्त्रीfem.
दशभाराः आचितः स्याद् भारः शाकट आचितः ।पणस्य तूर्यभागः स्यात् काकनी काकिनीति च ।काकणी काकणिर्वोड्री काकनिः काकिणीत्यपि ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता ।काकनी काकिणी, क्रोशद्वये गव्यूतिरुच्यते ॥ ३२८ ॥
अनुष्टुप्
genderस्त्रीfem.
सारिणी लघुनदीप्रसारिणी-वाचिका दशमुखस्य मन्त्रिणि ।पुंगतोऽतिसरणेऽथ काकिणीमानदण्डपणतुर्यभागयोः ॥ ४३ ॥
रथोद्धता
कृष्णलैकककपर्दयोस्तथातोयमानभिदि च प्रकीर्तिता ।रोहिणी तु कटुकागलामय-रक्तधेनुषु च सोमवल्कके ॥ ४४ ॥
रथोद्धता
doubtful