कोटि
koṭiस्त्री · fem.In 21 kośas: 36 synonym verses, 10 as a nānārtha head word, 5 as a meaning of another word.
यथोत्तरं दशगुणं भवेदेको दशामुतः ।शतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥ ८७३ ॥अर्बुदमब्जं खर्वं च निखर्वं च महाम्बुजम् ।शङ्कुर्वार्धिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्बु (wrong syllable); pāda 3, syllable 5 र (wrong syllable)
genderस्त्रीfem.
वातायनो गवाक्षश्च जालकोऽथान्नकोष्टकः ॥ १०१२ ॥कुसूलोऽश्रिस्तु कोणोऽणिः कोटिः पाल्यस्र इत्यपि ।
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९३ ॥
अनुष्टुप्
genderस्त्रीfem.
अणिरश्रिस्तथा कोटिरश्रः कोणश्च कथ्यते ।कश्मलं मलिनं म्लानं मलीमसमुदाहृतम् ॥ ७२७ ॥
अनुष्टुप्
genderस्त्रीfem.
पालिः पाली अश्रिरश्री अश्रः कोटिश्च कोट्यपि ।घण्टिका घाटिकश्च स्यान्मागधो मगधः समौ ॥ २१७ ॥
अनुष्टुप्
genderस्त्रीfem.
द्रुणासेष्वासगुणतः पुं क्लीबे स्त्रव्यधं पुनः ।प्रतिकायः पुमानस्याग्रगते कोटिरित्यपि ॥ २६२ ॥
अनुष्टुप्
genderस्त्रीfem.
पालिरस्त्री कोटिरेता दीर्घान्ताः स्युः स्त्रियामिमाः ।कुलाग्रका तु चिरिका फलपत्राग्रके हुलम् ॥ ३१६ ॥
अनुष्टुप्
genderस्त्रीfem.
यथोत्तरं दशगुणमेकं दशशतं पुनः ।सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदम् ॥ ४९७ ॥
अनुष्टुप्
genderस्त्रीfem.
सहस्रमयुतं लक्षा स्त्रियां क्लीबे क्वचिन्मतम् ।स्त्रियां क्लीबे तु नियुतं कोटी कोटिरुभे स्त्रियौ ॥ ५०० ॥
अनुष्टुप्
genderस्त्रीfem.
कोटिः कलापिनी गङ्गी रक्तदन्ता च वारुणी ।हासानन्ता च कूष्माण्डी मानस्तोका किरात्यपि ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
छेदिर्नान्दी शुक्तिशुक्ती कविर्नाडिः किखिर्द्युतिः ।अतिः सादिर्वटिः कोटिर्विष्टिर्गृष्टिर्दरिर्युजिः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
शरासनं धनुश्चाप-कोदण्डाः स्युर्न योषिति ।दृढधन्वा दृढेष्वासोऽथाह्वये शतधन्ववत् ॥भवेच्छतधनुश्चायं भेद्यलिङ्गा अमी मताः ।कोटिरस्यार्तिरटनी मध्यभागस्तु लस्तकः ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री कोटिरर्बुदं त्वस्त्री स्यादब्जं खर्वमन्तिमे ।निखर्वं च महापद्मं शङ्कुर्द्वंद्वेऽथ वारिधिः ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
बल्वजादयः शब्दाः पुंसि भवन्ति । बहुत्वं चैषां सदैव । इमे बल्वजाः शष्पाः । इमे लाजा भ्रष्टधान्यानि । असवः प्राणाः । एते शब्दाः नपुंसके भवन्ति । इदं स्थलमरण्यप्रदेशः । शाद्वलं हरिततृणम् । शिबिरं शकटस्थानम् । पृतनाशब्दः स्त्रियां भवति । इयं पृतना सेना ।ईर्ष्या रुचिः स्फुलिङ्गाः शय्या निःश्रेणी कोटिः कुटी वाणी ।पेशी वरूथिनी च स्त्रियां कुथा नाडिका कन्था ॥ ६१ ॥
metre not recognised
genderस्त्रीfem.
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपोऽरिशवोऽस्त्रियाम् ।शवयानं कटः कोटिश्चिता चित्या चिति स्त्रियाम् ॥ २०४ ॥
अनुष्टुप्
genderस्त्रीfem.
कार्मुकं धन्व चापं च धर्म कोदण्डकं धनुः ।शिलीमुखादेरसनं तत्कोटिमटनीं विदुः ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
गवाक्षजालकौ तुल्यौ वातायनमपीक्ष्यते ।[23] द्वार्द्वारं च प्रतीहारः कोणोऽणिः कोटिरित्यपि ॥ २९० ॥
अनुष्टुप्
genderस्त्रीfem.
खलिः कीलिशुण्ठ्यौ छविः काकलिश्चकिकिः कुक्कुटिर्वापिधूल्यौ तुटिस्तु ।द्युतिर्वेदिनान्द्यौ तटिः कोटिकम्बीकिखिस्ताडिजाती वटिः पिण्डिवीथ्यौ ॥ ६० ॥
भुजङ्गप्रयातम्
genderस्त्रीfem.
स्वल्पतोमरभेदे तु कुन्तं प्रास इतीरितः ।शस्त्रस्य धारायां प्रोक्तम(मा?)रं कोटिर्मुरोऽपि च ॥ ३७० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रत्यञ्चा सिञ्जिनी मौर्वी ज्या जीवा चापडोरकः ।चापाग्रमटिनी कोटिर्गोधा ज्याघातवारणम् ॥ २२३ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्तुलं मण्डलं वृत्तं निस्तलं वलयाकृतिः ।अस्रं कोटिरणिः कोणं प्रान्तं पर्यन्तमन्तवत् ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
लक्षश्च नियुतञ्च प्रयुतं कोटिरित्यपि ।सर्वं दशगुणं पूर्वात् ज्ञायते गण्यते जनैः ॥ १४५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
कोणोऽश्री कोटि रश्रिश्च पाली पालिरणी पुनः ॥ १७४० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
माला लङ्काबिका कोटिः कोटी लङ्काविका लती ।अनिर्माल्या च निर्माल्या वर्षा लङ्कोपिकेत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
अटन्यटनिरस्याग्रद्वये कोटिश्च कोट्यपि ।ज्याघातवारणे गोधेस्त्रियौ क्लीबे तले अपि ॥
अनुष्टुप्
genderस्त्रीfem.
कोणः स्त्रियां पालिरत्रीः कोटिरस्रन्तु न स्त्रियाम् ।अश्रिरश्रः पालिका च केचिदेवं प्रचक्षत ॥
अनुष्टुप्
genderस्त्रीfem.
अयुनं प्रयुतं कोटिरर्वुदो वृन्द इत्यपि ।अथ खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः ।अन्त्यो मध्यः परार्धञ्च संख्या निगदिताः क्रमात् ॥
अनुष्टुप्
genderस्त्रीfem.
शुकबर्हं बर्हिः पुष्पं पुष्पं स्पृकौषधौ पुनः ।कोटीवर्षा कोटिवर्षा कोटिर्माला मरुद्युता ॥ २२८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 र्हं (syllables merged)
genderस्त्रीfem.
एकः पङ्क्तिर्दश शतं सहस्रमयुतं तथा ।नियुतं प्रयुतं कोटिरर्बुदं न्यर्बुदाब्जके ॥ १२६१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्वधितिः शस्त्रधारीयां तिस्रः पाल्यश्रिकोटयः ।तद्दण्डलग्नशल्ये तु खेटकः क्षीणयः क्षुरः ॥ १३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
तुटितृटिकटित्रोटिकुटिकोटिकरोटयः ।गौल्यालिकुहलीपालीमधूलीधूलिकेलयः ॥ २३०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तृ (wrong syllable)
genderस्त्रीfem.
कोणाश्रौ नर्यणिर्न क्ली स्त्रियोऽश्रिस्रक्तिकोटयः ।सम्मार्जनी शोधनी तन्मलेऽवकरसंकरौ ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
समुद्रो मध्यमन्तं च परार्धं च यथाक्रमम् ।परं परार्धाद्द्विगुणमथ स्त्री कोटिरर्बुदे ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
व्योम चांतश्च सर्वश्च समुद्राद्यास्तु वा त्रिषु ।अन्ये त्वाहुः शतं कोटिः शंकुर्बृन्दं महागणः ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोटिः प्रकर्षे धनुरग्रके चकोणे च संख्याभिदि संप्रदिष्टा ।त्रोटिस्तु चञ्च्वाम[271b]पि सोमवल्केपुमांस्तु मत्स्याण्डजभेदयोः स्यात् ॥ २२ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 पु (wrong syllable)
चापाग्रे चाग्रमात्रेऽश्रौ प्रकर्षे शकले तथा ।सङ्ख्याविशेषे लक्षाणां शते क्षोणी पुनर्भुवि ॥ २७ ॥
अनुष्टुप्
doubtful
समये च क्रियाकारे किलिञ्जशरयोः कटः ।कोटिः सङ्ख्याऽपि करटो वाद्यभाण्डविप्रयोः ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
meaningsसङ्ख्या
कोटि as a meaning in nānārtha verses
- कोषकल्पतरु शिखरस्यात्सारमेयेऽश्वतरे तुरङ्ग- सेनाहकेऽन्यत्र भृशं खरे च । शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रे स्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥ Koṣakalpataru 6.27.91
- कोषकल्पतरु अङ्कपालीगन्धोलिकायामपि भद्रकाली राढ्यौषधे भूधरकन्यकायाम् । स्यादङ्कपाली किल धात्रिकायां कोट्यां तथा स्यात्परिरम्भणेऽपि ॥ ८४ ॥ Koṣakalpataru 6.28.84
- नानार्थार्णवसंक्षेप अश्रिअप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः । अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.1.5
- शब्दरत्नावली अङ्कपालीअक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् । अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् ॥ भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् । उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च ॥ एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् । भवेत्कलकलः कोलाहले सर्जरसेऽपि च ॥ भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥ Śabdaratnāvalī 7.28.104
- त्रिकाण्डशेष शिखरश्रीलक्ष्मीवेशसम्पत्सु भारतीशोभयोरपि । शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ ३७५ ॥ Trikāṇḍaśeṣa 3.3.375