कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पामन

pāmanaवि · adj.

In 11 kośas: 10 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.149 · p. 21
पामनः कच्छुरस्तुल्यौ सातिसारोऽतिसारकी ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.58
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ।आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.53 · p. 311
पामनः पामरः पामायुतः कच्छुर इत्यपि ।दद्रुणो दद्रुरोगी स्यात्पामनाद्या विशेष्यवत् ॥ ५३ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.122 · p. 117
आतुरो विकृतो ग्लास्नुग्लानौ व्याधित आमयी ।दर्द्रुणो दर्द्रुरोगी स्यात्कच्छुरः पामनः समौ ॥ १२२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.124 · p. 41
ग्लौ(ग्ला?)स्नुश्चाभ्यमितो रोगी विकृतोऽपटुरित्यपि ।पामनः कच्छुरश्चैव चर्चिकारोगसंगते ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.703 · p. 96
दर्द्रुरोगी तु दर्द्रुणो दद्रुरोगी च दद्रुणः ।पामनः पामरश्चापि कच्छुरश्चर्मरोगवान् ॥ ७०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्द्रु (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.243 · p. 99
विचर्चिका रोगयुक्ते पामनः कर्बुरोऽपि च ।दद्रुणो दर्द्रुणोऽपि स्याद् दर्द्रुरो दर्द्रुरोगिणे ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.82 · p. 195
तुण्डिभस्तुन्दिलोऽभ्यान्ताऽभ्यमितौ ग्लान-ग्लास्नुकौ ।व्याधिते, कच्छुरे तु स्यात्पामनः पामरस्तथा ॥ ८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1105 · p. 136
मूर्च्छालो मूर्च्छितो मूर्तो मिर्मिरस्तब्धलोचनः ।किलासी सिध्मलः पामरोगी पामनकच्छुरौ ॥ ११०५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.145 · p. 185
आमयावी समौ ग्लास्नुग्लानौ पामनकच्छुरौ ।वातार्शोदद्रुमन्तः स्युर्वातलार्शसदद्रुणाः ॥ १४५ ॥
अनुष्टुप्
genderविadj.

पामन as a meaning in nānārtha verses