कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विकृत

vikṛtaवि · adj.

In 17 kośas: 29 synonym verses, 10 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.459 · p. 21
आमयाव्यपटुर्ग्लानो ग्लास्नुर्विकृत आतुरः ।व्याधितोऽभ्यमितोऽभ्यान्तो दर्द्रुरोगी तु दर्द्रुणः ॥ ४५९ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.26
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.58
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ।आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥
अनुष्टुप्
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्थोपदेशः Bālaprabodhikā 4.67 · p. 71
प्रणादस्त्वनुरागोत्थः विकृतश्चक्रनिस्वने ।नदीध्वानेरव… युद्धध्वानेऽप्यसूरकः ।क्रन्दनं गुञ्जनं चाथ मार्जारा मुरजध्वनौ ॥ ६७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.129 · p. 77
बीभत्सो विकृतं चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं च भीषणम् ॥ १२९ ॥
अनुष्टुप्
genderविadj.
मृगतृष्णा मृगतृषा मृगतृट् मृगतृष्णिका ।विकृतं वैकृतं च स्यात् तच्च वैकृत्यमुच्यते ॥ २६३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.357 · p. 60
दैवाज्जातस्तत्र दन्तभेदाख्या विविधा गदाः ।अथ रुग्णोऽमितो म्लानो व्याधितो विकृतो पटुः ॥ ३५७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.52 · p. 220
समावथो विप्रलब्धो वञ्चितो विकृतोऽपि च ।ग्रामेयकस्तु ग्रामीणो ग्राम्यो ग्रामचरोप्यथ ॥ ५२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.104 · p. 428
बीभत्समपि बीभत्सु विकृतं वैकृतं पुनः ।वैकृत्यं भासुरं चोग्रमेतान्यष्टादश त्रिषु ॥ १०४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.135 · p. 89
न पुंसि वीर्यं शौण्डीर्यमवज्ञा चातिशक्तिता ।बीभत्सो विकृतः पुंसि वैकृतस्त्रिष्वथार्त्तनम् ॥ १३५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.174 · p. 94
विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।चकितं हसितं केलिरित्यष्टादश शीलजाः ॥ १७४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.188 · p. 95
मादो मदो विकारो यो यौवनाद्यवलेपजः ।वक्तव्यकालेऽप्यवचो लीलया विकृतं भवेत् ॥ १८८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.75 · p. 313
उपदंशो गुह्यरोगोऽथावमन्थः कफास्रजः ।अन्तर्मुखी सूचिमुखीत्याद्या योनिगदाः पृथक् ।ग्लान-ग्लास्नू त्वामयावी विकृतो व्याधितोऽपटुः ।आतुरोऽभ्यमितोऽभ्यान्तो रुग्ण * * * * * * ॥ ७५ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.29 · p. 32
प्रतियत्नो गुणाधानं विकृतं वैकृतं त्रिषु ।उपस्कृतं भेद्यलिङ्गं प्रतियत्ने च वैकृते ॥विधा स्त्री भिद्भिदा भेदः प्रकारोऽथ परिक्रमः ।विहारोऽपि परीसर्प-परिसर्पगमास्त्रयः ॥ २९ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.122 · p. 117
आतुरो विकृतो ग्लास्नुग्लानौ व्याधित आमयी ।दर्द्रुणो दर्द्रुरोगी स्यात्कच्छुरः पामनः समौ ॥ १२२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.165 · p. 23
करुणायां तु कारुण्यमनुक्रोशो दयापि च ।स्याद्बीभत्से तु विकृतं हास्ये हासो हसोऽपि च ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.124 · p. 41
ग्लौ(ग्ला?)स्नुश्चाभ्यमितो रोगी विकृतोऽपटुरित्यपि ।पामनः कच्छुरश्चैव चर्चिकारोगसंगते ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.661 · p. 112
वञ्चिते विप्रलब्धः स्याद्विकृतो निकृते पुमान् ।प्रतिबद्धे प्रतिहतो हता विहत इत्यपि ॥ ६६१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.702 · p. 96
आतुरो रोगितो ग्लानो व्याधितोऽभ्यमितोऽपटुः ।विकृत आमयावी स्यादभ्यान्तो ग्लास्नुरेव च ॥ ७०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.462 · p. 32
त्रिषु बीभत्सं विकृतं वैकृत्यं वैकृतं तथा ।रौद्रमुग्रमपि ख्यातं हासो हास्यं तथा हसः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सं (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.242 · p. 99
व्याधितो विकृतोऽभ्यान्तोऽभ्यमितः पटुरातुरः ।आमयावी व्याधियुक्तजने स्यादिति सप्तकम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.115 · p. 186
द्रगडो द्रकटश्चापि, झल्लर्यां झर्झरी स्मृता ।झलरी, बीभस्तरसे, विकृतं वैकृतं तथा ॥ ११५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.971 · p. 121
दशामूनि त्रिषूमे तु बीभत्सविकृते त्रिषु ।साध्वसं तु भयं त्रासो दरो भीर्भीतिरित्यपि ॥ ९७१ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1098 · p. 136
कच्छूः स्त्रियामथो पादवल्मीकः स्याद्विपादिका ।मन्दाभ्यान्ताभ्यमितव्याधितविकृतातुरापटुग्लानाः ॥ १०९८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1637 · p. 197
जिह्ममजिह्मप्रगुणावृजुरथ विकृतं करालविप्रकृते ।भ्राजितभासितशोभितराजितविद्योतितं दीप्तम् ॥ १६३७ ॥
आर्या
genderविadj.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 64 · p. 535
विकृतो वैकृतः ॥ ६४ ॥
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.78 · p. 142
बीभत्सो विकृतश्चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं भयंकरम् ॥ ७८ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.95 · p. 143
विकृतं तूचितस्यापि लज्जादिभिरभाषणम् ।मोट्टायितं वल्लभस्य चिन्ता कुट्टमितं पुनः ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.144 · p. 185
निदानज्ञस्तु दोषज्ञ आयुर्वेदी तु शास्त्रवित् ।आतुरोऽभ्यमितोऽभ्यान्तो विकृतो व्याधितोऽपटुः ॥ १४४ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.46 · p. 74
विकृतं स्यात्तु बीभत्सेऽसंस्कृते व्याधिमत्यपि ।हृषितः प्रणते प्रीते वर्मिते हृष्टरोमणि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.93 · p. 217
नीचेऽप्यथ विकृतं स्यादसंस्कृते रोगितेऽश्लीले ।संस्कृतमग्र्ये कृतके लक्षणयुक्तेऽप्यलंकृते पक्वे ॥ ९३ ॥
उद्गीतिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.51 · p. 45
विदितं सश्रुते ज्ञाते विधुतं त्वपि कम्पिते ।त्यक्ते च विकृतं तु स्याद् दूरूपे व्याधितेऽपि च ॥ ५१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.52 · p. 45
तथा विकारापन्ने च बीभत्सेऽथ विविक्तवाक् ।निर्जने च पृथग्भूते शुद्धे चापि विचारिते ॥ ५२ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1718 · p. 197
पलायिते विलीने च विकृतं तु नपुंसकम् ।वैजयन्त्यां तु पुंस्याह बीभत्साख्ये रसे त्रि तु ॥ १७१८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1719 · p. 197
तद्वत्यर्थे पक्षिकृतविकारापन्नयोरपि ।तथा वीतकृतेऽपि स्याद् रोगिदूरूपयोरपि ॥ १७१९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1720 · p. 197
नानाविधक्रिये चाथ क्लीबं नानाविधे कृते ।विकृतौ चोचितस्यापि लज्जादिभिरभाषणे ॥ १७२० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1721 · p. 197
स्त्रीणां भावप्रभेदेऽथ विभ्रमः संशये पुमान् ।शृङ्गारचेष्टाभेदे च द्राग्विपर्यासरूपके ॥ १७२१ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.185 · p. 154
अभ्युद्गते विकसिते चेष्टिते च विजृम्भितम् ।विकृतौ रोगिबीभत्सौ वित्तं ख्याते धनेऽपि च ॥ १८५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 7.4.25 · p. 256
विकृतौ रोगिदूरूपौ विशदो धवले शुचौ ।वल्लभौ दयिताध्यक्षौ वरिष्ठोऽतिवरेऽत्युरौ ॥ २५ ॥
अनुष्टुप्

विकृत as a meaning in nānārtha verses

  • कोषकल्पतरु निकृतस्याद्वर्मितेऽपि दंशितमथ सुकृतं स्याच्छुभे पुण्ये । परवत्सुविहित उक्तं प्रतारिते निकृतं विकृते ॥ ९२ ॥ Koṣakalpataru 6.16.92
  • कोषकल्पतरु विजातसूतायां तु भवेत्स्त्रियां च विकृतेऽन्याभं विजातं कृते खण्डे रुग्भिदि वालुकासु सिकता देशेऽस्त्रियां शार्करे । ध्वाने चाङ्गविलेपनेऽथ परवत्त्वामोदिते वासितं स्त्रीभ्योः स्त्री पिशितं पुनश्च पलले मांस्यां स्त्रियां सम्मतम् ॥ २८ ॥ Koṣakalpataru 6.16.28
  • कोषकल्पतरु बीभत्सक्रूरेऽन्यवत्स्याद्विकृतेऽथ विद्वान् प्राज्ञे बुधे चात्मविदि त्रिलिङ्गः । भूयांस्तु भूयिष्ठगतो विशेष्य- लिङ्गोऽव्ययं स्यात्पुनरर्थकेऽसौ ॥ ९७ ॥ Koṣakalpataru 6.31.97
  • नानार्थार्णवसंक्षेप करालकरालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च । कडारवर्णयुक्ते च कराली तु स्त्रियामियम् ॥ ३५२ ॥ Nānārthārṇavasaṃkṣepa 4.352
  • त्रिकाण्डशेष विकटलाटोंऽशुके च देशे च व्युष्टं कल्ये त्रिषूषिते । पथि वास्तुनि वाटः स्याद्विकटं विकृतं बृहद् ॥ १०२ ॥ Trikāṇḍaśeṣa 3.3.102
  • वैजयन्ती करालकरालो दन्तुरे तुंगे विशाले विकृतेऽपि च । कर्कशः प्रखरस्पर्शे निर्दये साहसिन्यपि ॥ ८ ॥ Vaijayantī 7.4.8
  • वैजयन्ती बीभत्सबीभत्सौ क्रूरविकृतौ बहलौ सान्द्रपुष्कलौ । बन्धुरौ नम्रसुन्दरौ भंगुरौ वक्रनश्वरौ ॥ २१ ॥ Vaijayantī 7.4.21