कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · धान्ताः

इति दान्ताः

एकधाः ।

धः स्याद्विरिञ्चौ वदने तु बन्धेवान्ते मतौ धीर्धुरपीह केतौ ।धूरश्वमातर्यपि चित्रके चधूर्ते तु लिङ्गं भजते परस्य ।
6.20.1 · p. 239
इन्द्रवज्राtwo metres in one verse

द्विधाः ।

स्यान्माधवे मासि नरीह राधःस्त्रियां तु विद्युद्भभिदोश्च गोप्याम् ।भूम्यामलक्यां च दुरालभायांस्याच्चित्रयन्त्रोऽपि धनुर्धराणाम् ॥ ५१ ॥
6.20.51 · p. 239
इन्द्रवज्राtwo metres in one verse
स्थाधे ? तु गाधं क्लिशि चाभिलाषेव्याधस्तु धृष्टे मृगयौ च पुंसि ।मेधः क्रतौ स्यान्मतिनाम्नि मेधामेधिः स्त्रियां किं च खलस्य काष्ठे ॥ ५२ ॥
6.20.52 · p. 239
इन्द्रवज्रा
बुधः कवौ ज्ञातरि रौहिणेयेमिद्धं तथालस्यकनिद्रयोः स्यात् ।न्यासे च वित्तस्य परत्र नद्धःसंसारिणि स्यादपि बद्धमात्रे ॥ ५३ ॥
6.20.53 · p. 239
उपजातिः
ना देवयोनौ तपसा समृद्धेनित्ये प्रसिद्धे फलिते च सिद्धः ।पुंस्यातपेऽथ त्रिषु दीप्त इद्धंसमृद्धसंपन्नगतं च ऋद्धम् ॥ ५४ ॥
6.20.54 · p. 239
उपजातिः
वृद्धं शिलाजे परवत्तु जीर्णेरूढे तथा सूरिणि संप्रदिष्टम् ।स्याद्वेधिते विद्धमिदं सदृक्त्वेबुद्धस्तु पुंसि प्रथितो जिनार्थः ॥ ५५ ॥
6.20.55 · p. 239
इन्द्रवज्रा
धीरे च सौम्ये बुधिते पराभो-ऽथार्धं समेंऽशे शकले तु पुंसि ।अन्धं तमस्यप्सु विदृक्षु भेद्येबन्धस्तु चेतोरुजि बन्धने च ॥ ५६ ॥
6.20.56 · p. 240
इन्द्रवज्रा
आमोदलेलीतकलेशगर्व-संबन्धहिंसास्वपि पुंसि गन्धः ।स्कन्धः प्र[8a]काण्डव्रजबाहुमूल-भूपालकायप्रधनांशकेषु ॥ ५७ ॥
6.20.57 · p. 240
इन्द्रवज्राmetre not read in every line
भवेत्समीहास्वपि वृत्तभेदेप्लुष्टे तु दग्धं रवियुग्दिशि स्त्री ।दिग्धं विषाक्ते विशिखे प्रलिप्तेक्षीरे तु दुग्धं त्रिषु पूरिते च ॥ ५८ ॥
6.20.58 · p. 240
उपजातिः
प्रत्याशायां बन्धके चित्तरोगेपुंस्याधिः स्यादप्यधिष्ठानके च ।रोगे बाष्पे व्याधिरुक्तो विधिस्तुकाले दैवे ब्रह्मणि स्याद्विधाने ॥ ५९ ॥
6.20.59 · p. 240
शालिनी
अवस्थान्तरप्राप्तदुग्धे दधि स्या-च्छ्रियो वासवृक्षे तथावासवाचि ।समाध्यन्तरे बोधिरश्वत्थवृक्षेसमुद्रे पुनः स्यात्सरस्यां तथाब्धिः ॥ ६० ॥
6.20.60 · p. 240
भुजङ्गप्रयातम्
भेदे स्यान्नरि संधिः सुरङ्गिकायां च भग्नसंश्लेषे ।वृद्धिस्त्वृद्धौ प्रमदे कलान्तरे वर्धने च स्त्री ॥ ६१ ॥
6.20.61 · p. 240
आर्या
दोग्धा तु गोपालकवत्सगोर्थो-पजीविषूक्तोऽथ विधा गजान्ने ।ऋद्धौ प्रकारेऽपि च वेतने स्त्रीगोधा निहाकाहकयोः स्त्रियां स्यात् ॥ ६२ ॥
6.20.62 · p. 240
उपजातिः
बाधा निषेधेऽपि च दुःख उक्तासुधा तु मूर्वाविकसास्नुहीषु ।विलेपवस्तुन्यमृतेऽथ संधास्थितौ च संवि[8b]द्यथ लालसायाम् ।श्रद्धातिभक्तौ क्रमतस्तु वृद्धौस्पर्धापि संघर्षणसाम्ययोः स्यात् ।मुग्धोऽन्यवत्सुन्दरमूढयोः स्या-द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥
6.20.64 · p. 241
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 5 वि (wrong syllable)
कर्पूररात्रिंचरयोरथो नासिन्धुर्नदेऽब्धौ वमथौ च देशे ।नद्यां स्त्रियां स्यात्सरिदम्बुराश्यो-स्त्वसौ द्वयोरित्यपि नाममाला ॥ ६५ ॥
6.20.65 · p. 241
उपजातिः
मधुर्वसन्ते दनुजे च चैत्रेमधूकवृक्षे च पुमानशोके ।स्त्रियां न नीरे मदिरासु दुग्धेक्षौद्रे तथा पुष्परसे प्रदिष्टः ॥ ६६ ॥
6.20.66 · p. 241
उपजातिः
साधुर्भवेद्वार्धुषिके मनोज्ञेस्यात्सज्जने पुंसि तु बन्धुजीवे ।स्याद्बान्धवे भ्रातरि चापि बन्धु-र्वधूर्नवोढागृहिणीस्नुषासु ॥ ६७ ॥
6.20.67 · p. 241
उपजातिः
स्पृक्काशठीसारिविकाङ्गनासुशृधुः पुमान्स्याद्धियि चापि पायौ ।
6.20.18 · p. 241
उपजातिः

त्रिधाः ।

देवे च विज्ञे विबुधोऽथ पर्या-हारे च भारेऽध्वनि वीवधः स्यात् ॥ ६८ ॥
6.20.68 · p. 241
उपजातिः
पुमांस्तथा स्याद्विवधोऽथ देशेशैले कठोरे निषधो नृपे च ।संबाध उक्तो भगसंकटार्थेस्याद्दुर्विधो दुर्गतधूर्तयोश्च ॥ ६९ ॥
6.20.69 · p. 242
उपजातिः
स्यात्सं[9a]रोधो रोधने क्षेपणे चरोधे नाशे ज्ञैर्निरोधः प्रदिष्टः ।उत्सेधः स्यादुच्छ्रये स्त्री न कायेविश्रब्धश्चानुद्भटे चापि शान्ते ॥ ७० ॥
6.20.70 · p. 242
शालिनीmetre not read in every line
विश्वस्तेऽथ स्याद्वटे व्यामशम्यो-र्न्यग्रोधो ना मोहनाख्यौषधौ स्त्री ॥ ७१ ॥
6.20.71 · p. 242
शालिनी
अस्थाघे स्यात्त्रिष्वगाधो बिलेनविख्याते स्याद्भूषिते च प्रसिद्धः ।संनद्धः स्याद्वर्मयुक्ते विशाले-ऽथानद्धं स्याद्वाद्यभेदे च बद्धे ॥ ७१ ॥
6.20.71 · p. 242
शालिनी
कुटिलपराहतयोराविद्धो[सौ]वाच्यवद्गदितः ।केतुग्रहे च जठरे रक्षोभेदे कबन्धो ना ॥ ७२ ॥
6.20.72 · p. 242
metre not recognised
क्लीबं सलिले न स्त्री शिरसा हीने शरीरे स्यात् ।आबन्धो दृढबन्धे प्रेमणि च स्यादलंकारे ॥ ७३ ॥
6.20.73 · p. 242
metre not recognised
हरिवालुके सुगन्धिर्विशेष्यवत्त्विष्टगन्धे स्यात् ।सुबहुकुटुम्ब उपाधिर्धर्मविचारे विशेष ईशे च ॥ ७४ ॥
6.20.74 · p. 242
उद्गीतिःmetre not read in every line
उपधिर्व्याजे चक्रे परिधिर्नाग्न्यालुपं(?)परितः ।क्षेप्या यज्ञतरूणां शाखा या बाहुमात्री स्यात् ॥ ७५ ॥
6.20.75 · p. 242
metre not recognised
उपसूर्यकेऽपि तद्वत्स्यादथ काले बिले सीम्नि ।अवधानेऽप्यवधिर्ना ध्या[9b]ने नियमे च नीवाके ॥ ७६ ॥
6.20.76 · p. 242
metre not recognised
तद्वत्समर्थने स्यात्समाधिरथ संनिधानेऽपि ।संनिधिरिन्द्रियविषये प्रणिधिर्याच्ञा[च]रार्थो ना ॥ ७७ ॥
6.20.77 · p. 242
metre not recognised
ना विटपे शाखायां प्रकृतौ सिद्धौ च संसिद्धिः ।वन्दिनि मागध उक्तः सितजीरे क्षत्रियापुत्रे ॥ ७८ ॥
6.20.78 · p. 243
metre not recognised
वैश्यात्स्त्रियां तु यूथीपिप्पल्योस्तद्भवेत्परवत् ॥
6.20.31 · p. 243

चतुर्धाः ।

अवरोधो नृपसदने शुद्धान्ते स्यात्तिरोधाने ॥ ७९ ॥
6.20.79 · p. 243
शुण्ठीविषयोर्लसुने महौषधं वेतसे तु स्यात् ।स्यात्कर्णिकारवृक्षेऽपि परिव्याधः समुद्दिष्टः ॥ ८० ॥
6.20.80 · p. 243
metre not recognised
आक्रान्तेऽवष्टब्धोऽवलम्बिते वातिके परवत् ।विबुधंमन्ये दृप्ते भवति समुत्थे समुन्नद्धः ॥ ८२ ॥
6.20.82 · p. 243
metre not recognised
अनिरुद्ध उषानाथे प्रणिधौ चानर्गले परवत् ।कालस्कन्धस्तिन्दुक[त]मालजीवकतरुप्रभेदेषु ॥ ८३ ॥
6.20.83 · p. 243
उद्गीतिःmetre not read in every line
अनुबन्धो दोषभवे प्रक्रान्तस्यानुवृत्तौ च ।मुख्यानुगे च बालेऽपीत्संज्ञे च प्रकृत्यादौ ॥ ८४ ॥
6.20.84 · p. 243
metre not recognised
अनुबन्धी हिक्कायां तृष्णायां चापि निर्दिष्टा ।आशा[10a]बन्धो मर्कटवासे तद्वत्समाश्वासे ॥ ८५ ॥
6.20.85 · p. 243
metre not recognised
ना ब्रह्मबन्धुरुक्तोऽधिक्षेपे विप्रनिर्देशे ।छिक्कौषधौ वचायामजमोदासूग्रगन्धा च ॥ ८६ ॥
6.20.86 · p. 243
metre not recognised
हिङ्गुनि तु तीक्ष्णगन्धं षड्ग्रन्धा राजिकार्थे स्त्री ।क्रोष्ट्र्यां काशक्षुरयोर्गोक्षुरके चेक्षुगन्धा स्यात् ॥ ८७ ॥
6.20.87 · p. 243
metre not recognised
कृकलासे तृणगोधा भवति विचित्रे तथा कोले ।ज्ञानेऽनुभवे प्राप्तावुपलब्धिः स्यात्तथा बुद्धौ ॥ ८० ॥
6.20.80 · p. 243
उपगीतिः
योजनगन्धा सीताकस्तूर्योर्गन्धकाल्यां च ॥
6.20.41 · p. 243