निन्दित
ninditaवि · adj.In 7 kośas: 2 synonym verses, 10 as a meaning of another word.
स्वच्छे त्वगाधमच्छश्च कलुषे पङ्किलाविलः(लौ?) ।मधुरे पानकं शैत्यं क्षारे पुलकनिन्दिते ॥ ४० ॥
अनुष्टुप्
genderविadj.
आक्रुष्टो गर्हितो हेयोऽवगीतश्च निन्दितः ।अभिभूतस्त्ववज्ञात आत्तगन्धोऽवमानितः ॥ १५८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
निन्दित as a meaning in nānārtha verses
- धरणिकोश अपध्वस्तअधिक्षिप्तः प्रणिहिते भर्त्सिते च प्रयुज्यते । अपध्वस्तः परित्यक्ते निन्दिते चावचूर्णिते ॥ Dharaṇikośa 15.2.73
- कोषकल्पतरु दुष्ठुशम्बट् वित्तेऽथ सुष्ठु स्यात्पूजात्यर्थप्रशंसने । अपष्ठु निन्द्येऽभव्ये च दुष्ठु निन्दित-निन्दयोः ॥ ८६ ॥ Koṣakalpataru 5.1.86
- कोषकल्पतरु अवध्वस्तपुरस्कृतं शत्रुगृहीत ऊरी- कृतेऽर्चितेऽग्रे च कृतेऽन्यवत्स्यात् । स्यान्निन्दितत्यक्तविचूर्णितेषु त्रयेऽप्यवध्वस्तमथानले स्यात् । उत्पातके च ग्रहभेदके च ना धूमकेतुः कथितः प्रवीणैः ॥ ६६ ॥ Koṣakalpataru 6.17.66
- कोषकल्पतरु रेपद्रूपं नाणकनाटकादिकसिताद्येषु स्वभावेऽपि च । ग्रन्थावर्तन-पद्ययोः पशुरवे मूर्तौ स्वभावे मृगे सौदर्येऽप्यथ रौद्रनिन्दितगते रेपो भवेद्वाच्यगम् ॥ १ ॥ Koṣakalpataru 6.22.1
- नानार्थार्णवसंक्षेप अपध्वस्तअपध्वस्तं धिक्कृते स्यादुज्झितेऽप्यवचूर्णिते । केचित् तु निन्दिते प्राहुर्धिक्कृतार्थमशासतः ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 6.8
- परमानन्दीयनाममाला अवध्वस्तअपदेशो निमित्ते च दम्मे लक्ष्ये निगद्यते । अवध्वस्तं परित्यक्ते निन्दिते चूर्णितेऽपि च ॥ ४५ ॥ Paramānandīyanāmamālā 5.1.45
- शब्दरत्नावली अपध्वस्तअपध्वस्तं निन्दिते स्यात्परित्यक्तेऽवचूर्णिते । अधिक्षिप्तः प्रणिहिते भर्त्सिते निन्दितेऽन्यवत् ॥ Śabdaratnāvalī 7.16.155
- शब्दरत्नावली रेपग्रन्थावृत्तौ नाटकादौ श्लोके चा कोरकेऽपि च । रेपः क्रूरे निन्दिते च रोपो बाणे च रोपणे ॥ Śabdaratnāvalī 7.21.11
- शब्दरत्नावली याप्ययाप्यस्त्रिषु निन्दिते स्याद् यापनीये तु वाच्यवत् ॥ Śabdaratnāvalī 7.26.27
- शब्दरत्नावली पशपांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके ॥ पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते ॥ कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः ॥ अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ Śabdaratnāvalī 7.30.9