All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · पान्ताः
इति तान्तादिवर्गः ।
एकपाः ।
द्विपाः ।
द्रूपं नाणकनाटकादिकसिताद्येषु स्वभावेऽपि च ।ग्रन्थावर्तन-पद्ययोः पशुरवे मूर्तौ स्वभावे मृगेसौदर्येऽप्यथ रौद्रनिन्दितगते रेपो भवेद्वाच्यगम् ॥ १ ॥
6.22.1 · p. 271
शार्दूलविक्रीडितम्
रोपो रोपणबाणयोरथ भवेत्सूपः पुमान्व्यञ्जनेतत्कारे स्पृशि तु क्षुपे छुप इति स्याद्वायुवेण्योश्च यः ।कूपोऽन्धौ गुणवृक्षके च विवरे मृन्मानके कूपकेतापः स्यात्पचते तथातितपने नद्यन्तरे च स्त्रियाम् ॥ २ ॥
6.22.2 · p. 271
शार्दूलविक्रीडितम्
आक्रोशे शपथे च शाप उदितः स्वापस्तु निद्राज्ञता-स्पर्शाज्ञत्व उदीरितस्त्रपु पुनः स्यात्सीसके रङ्गके ।नीपो धूलिकदम्बरायधरयो(?)नीलेऽप्यशोके तथागोष्ठग्रामगणाधिकारिणि नृपे गोपो भवेद्बल्लवे ।गोपी तु गोपाल[26a]नितम्बिनी स्या-त्स्यात्सारिकायामपि रक्षिकायाम् ।क्षेपो विलम्बेऽपि च निन्दने नाहेलामदप्रेरणलङ्घनार्थाः ॥ ४ ॥
6.22.4 · p. 271
शार्दूलविक्रीडितम्two metres in one verse
लेपः सुधालेपन-भोजनेषुतल्पस्तु न स्त्री शयनीयवाची ।प्राकारदारेषु नपुंसकेऽथ ।स्तूपोऽपि चैत्ये भुव उच्छ्रये च ॥ ५ ॥
6.22.5 · p. 271
इन्द्रवज्रा
कल्पस्तु शास्त्रे प्रलये च युक्तेविधेर्दिने पुष्पवतोः पपीः स्यात् ।कस्तूरिकायां तु तथाभिमानेदर्पोऽथ कोपे च हठे च खष्पः ॥ ६ ॥
6.22.6 · p. 271
उपजातिः
बाष्पोऽस्त्रियामूष्मणि नेत्रतोयेचुपो लये मन्दगतौ पराभः ।स्त्रियां न बाले यवसेऽस्ति शष्पंपुंसि त्विदं स्यात्प्रतिभावहानौ ॥ ७ ॥
6.22.7 · p. 272
उपजातिः
स्रुवेऽपि शिल्पं कृतिकौशले चव्यासे कृपो द्रोणजमातुले च ।स्त्रियां दयायां कुलटाह्रियोस्तुत्रपा वपा मेदसि गर्त्तके च ॥ ८ ॥
6.22.8 · p. 272
उपजातिः
त्रिपाः ।
अर्केऽनले स्यादुषपोऽथ मान-भेदे मुनौ ना कुटपस्तथैव ।स्यान्निष्कुटेऽथो कुतपः स्त्रियां नदिनाष्टमांशे च[26b]कुशे च वाद्ये ।स्यात्कम्बलेऽजस्य पुमांस्तु सूर्येस्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री ।वीरुद्गतो ना तु मृदौ तृणे स्या-च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री ।विटाधिपे ना विटपोऽस्त्रियां तुस्कन्धोर्ध्वशाखासु तरोस्ततौ च ।स्यात्पल्लवे चाथ निशाचरे नास्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु ।स्यात्पादपीठे च तरौ च पुंसिस्त्री पादुकायां महिषे त्वनूपोऽम्बुप्रायदेशे तु विशेष्यलिङ्गः ।स्यात्पूतिगन्धे कुणपः शवेऽस्त्रीन स्त्री तथावाप इहालवाले ॥ १३ ॥
6.22.13 · p. 272
इन्द्रवज्राtwo metres in one versenearly इन्द्रवज्रा: pāda 2, syllable 1 दि (wrong syllable)
स्याद्भाण्डपाके क्षिपि चाथ भर्त्सेचाक्षेप आकर्षणवाचकश्च ।काव्यस्य चालंकृतिभिद्यथ वेषक्लृप्त्यो-र्नृलिङ्ग आकल्प इति प्रदिष्टः ॥
6.22.10 · p. 273
इन्द्रवज्राmetre not read in every line
भ्रान्तौ च पक्षे च विकल्पमाहु-र्मल्लस्य बन्धान्तरके तु कूर्मे ।स्यात्कच्छपः स्त्री तु डुलौ च वीणा-भेदे तथा स्यात्पिटिकान्तरेऽपि ।कलाप उक्तो हरिभूषणे नातूणीरसंघातकवत्सरेषु ॥ १६ ॥
6.22.16 · p. 273
इन्द्रवज्राtwo metres in one verse
चतुष्पाः ।
बुधे मनोज्ञेऽप्यभिरूप उ[27a]क्तःस्यात्प्राप्तरूपश्च तथाथ विष्णौ ।शंभौ च गर्भे कृकलासके च* कोषवीणा( ? )बहुरूपमाहुः ॥ १७ ॥
6.22.17 · p. 273
metre not recognised
कृत्रिमधूपे सरल-द्रवके वृकधूप आम्नातः ।परिवापो जलनिलयेपर्युप्तौ स्यात्परिच्छदे तद्वत् ॥ १८ ॥
6.22.18 · p. 273
metre not recognised
उपतापस्तूत्तापेगदे त्वरायां च निर्दिष्टः ।अवलेपो नरि गर्वेदुष्टौ लिप्तौ च संप्रोक्तः ॥ १९ ॥
6.22.19 · p. 273
metre not recognised
स्याद्विप्रलापोऽपि विरुद्धवाकेऽपार्थोदिते ना तु वृषाकपिः स्यात् ।हरे हरौ च ज्वलनेऽथ कम्पेभये परीकम्पमुशन्ति सन्तः ॥ २० ॥
6.22.20 · p. 273
उपजातिः
अपह्नवे प्रेम्णि तथापलापोऽथो हेमपुष्पं च जपाप्रसूने ।स्याच्चम्पके तद्वदुशन्त्यशोकेऽथो मेघपुष्पं जलमुस्तकाभ्रे ॥ २१ ॥
6.22.21 · p. 274
उपजातिः
ज्ञैर्बीजपुष्पमुक्तं मरुबकपुष्पे तथा दमने ।पुंनागनागकेसरचम्पकसंज्ञं तु नागपुष्पं स्यात् ॥ २२ ॥
6.22.22 · p. 274
उद्गीतिः
कमलाशोकजपासु प्रकीर्तितः पिण्डपुष्पश्च ।चुण्ट्यां च पुष्करिण्यां जलकूपीं चक्षते चतुराः ॥ २३ ॥
6.22.23 · p. 274
metre not recognised
पञ्चपाः
पञ्चपाः ।