कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अगाध

agādhaवि · adj.

In 13 kośas: 21 synonym verses, 5 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1070 · p. 42
अस्थाथास्थागमस्ताघमगाधं चातलस्पृशि ॥ १०७० ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य नरककाण्डः Abhidhānacintāmaṇi 5.1364 · p. 52
गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः ॥ १३६४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.15
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १५ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.624 · p. 71
निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
गीतिः
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.649 · p. 74
अतलस्पर्शमगाधं गम्भीरं स्याद्गभीरमस्थागम् ।नावा तार्यं नाव्यं द्राग्भृतकं तत्क्षणोद्धृतं तोयम् ॥ ६४९ ॥
गीतिः
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.26 · p. 346
स्थाघमस्थाघं चागाधं मस्तारं त्रिष्वमूनि च ।तद्वस्तुन्यप्यथोत्तानमगाधार्थविपर्यये ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घं (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.56 · p. 467
कपर्दगदयोस्तद्वदगदस्य गदस्य च ।वुद्वुदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.12 · p. 99
भवेदुदकिलश्चाथ पयसी देशनामनि ।अतलस्पृशि रन्ध्रे स्यादगाधं चाप्यगाधकम् ॥ १२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.5 · p. 302
शुषिरं सुषिरं चास्त्री पुंस्यगाधो वपा-शुषी ।द्वयोर्गर्ता दरस्त्रय्यामवटो युजि भूबिले ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.17 · p. 96
जनपद-कुन्द-कपर्दाबुद्बुदयुक्ता अगाध-गन्धौ च ।स्कन्धो मन्थाः पन्थादेवन उक्तश्च तत्तु[222b]ल्यः ॥ १७ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.347 · p. 47
अम्भो घनरसः पुंसि वाः क्लीबे रत्नमुच्यते ।अगाधमतलस्पृक् चास्थागमस्ताघमेव च ॥ ३४७ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.254 · p. 83
रोकं बिलं निर्व्यथनं तथा निम्नं वपान्तरे ।श्वभ्रागाधावटा गर्तः पातालाख्येऽयमुच्यते ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.19 · p. 213
अलक्तकुन्तौ पृषताः कपर्दोगदागदौ बुद्बुदपोतगन्धाः ।अगाधपिष्टातसुदर्शनाश्चशम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥
उपजातिः
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.40 · p. 127
स्वच्छे त्वगाधमच्छश्च कलुषे पङ्किलाविलः(लौ?) ।मधुरे पानकं शैत्यं क्षारे पुलकनिन्दिते ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.44 · p. 128
अतीतनौके चागाधा त्रिष्वेते परिकीर्तिताः ।स्वल्पतर्यां तु संचारी द्रोणी काष्ठाम्बुवाहिनी ॥ ४४ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.291 · p. 20
द्वीपोऽन्तरीपं तोयोत्थं शादो जंवीनकर्द्दमौ ।अगाधमतलस्पर्शं गभीरं निम्नकान्तरे ॥ २९१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1861 · p. 304
अस्ताघमतलस्पृक् चाऽस्थाघमऽस्थागमित्यपि ।अगाधमपि तन्नाम यत् तलं न जनः स्पृशेत् ॥ १८६१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि नारकविभागः Suśīlanāmamālā 6.2480 · p. 401
गर्तो वटोऽवटिः श्वभ्रं दरोऽगाधश्च खातकम् ।एतन्नामानि गर्तस्य मन्यन्ते हि महीतले ॥ २४८० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.64 · p. 41
गभीरविपरीते स्याद् उत्तानायति कीर्तितम् ।अगाधमतलस्पर्शमस्थाघास्थागमित्यपि ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.2 · p. 148
अगाधो भुवनं रोकं रन्ध्रं निर्व्यथनं बिलम् ।कुहरं सुषिरं छिद्रं श्वभ्रोऽस्त्र्यक्ली सुषिर्वपा ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.19 · p. 155
कर्णधारस्तु निर्यामो नावारोहास्तु नाविकाः ।अगाधमतलस्पर्शमस्थानञ्च गभीरकम् ॥ १९ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास धार्धश्लोकः Dharaṇikośa 18.2.14 · p. 102
समाधिर्ध्याननीवाकनियमेषु समर्थने ।अगाधमतलस्पर्शमगाधं विवरं विदुः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.71 · p. 242
अस्थाघे स्यात्त्रिष्वगाधो बिलेनविख्याते स्याद्भूषिते च प्रसिद्धः ।संनद्धः स्याद्वर्मयुक्ते विशाले-ऽथानद्धं स्याद्वाद्यभेदे च बद्धे ॥ ७१ ॥
शालिनी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.90 · p. 54
जनन्यामपि शब्दज्ञः पुनर्ब्रूते धनञ्जयः ।स्त्रीमात्रे चाप्यथागाधमतलस्पर्शवारिणि ॥ ९० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.91 · p. 54
त्रिः क्ली तु विवरेऽहार्यः पुनर्ना धरणीधरे ।अहर्तव्ये पुनस्त्रिः स्यादभ्यासो गुणने पुमान् ॥ ९१ ॥
अनुष्टुप्
meaningsविवर
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.23 · p. 232
अगाधमतलस्पर्शो त्रिषु छिद्रे तु न द्वयोः ।आविद्धः कुटिले मूर्खे वाच्यलिङ्गः पराहते ॥
अनुष्टुप्

अगाध as a meaning in nānārtha verses