गर्हित
garhitaवि · adj.In 7 kośas: 3 synonym verses, 11 as a meaning of another word.
द्वयहीनं त्वप्रधानमुपसर्जनमित्यपि ।निकृष्ट-प्रतिकृष्टापकृष्ट-याप्यावमाधमाः ॥रेप-रेफ-कुपूयार्व-कपूयावद्य-गर्हिताः ।गर्ह्य-कुत्सित-खेटापसद-चेल-ब्रुवाणकाः ॥ ७० ॥
अनुष्टुप्
genderविadj.
रेफकाण्डौ गर्हितः स्यात् प्रतिकृष्टः प्रकृष्टकः ।मलीमसः कच्चरः स्यात् मलिनौ मलदूषितः ॥
अनुष्टुप्
genderविadj.
आक्रुष्टो गर्हितो हेयोऽवगीतश्च निन्दितः ।अभिभूतस्त्ववज्ञात आत्तगन्धोऽवमानितः ॥ १५८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
गर्हित as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् जन्यमहद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु । Amarakośa 3.3.154
- धरणिकोश चेलशीलं स्वभावं सद्वृत्तं चालः स्यात्कम्पनं छदिः । चलः कम्पश्चला लक्ष्मीश्चेलं गर्हितव[89]स्त्रयोः ॥ Dharaṇikośa 27.1.2
- कोषकल्पतरु चेलचेलं तु वस्त्रे त्रिषु गर्हिते स्या- द्भेलः प्लवे स्याच्च मुनिप्रभेदे । त्रस्ते परस्मिन्नपि बुद्धिहीने को[66b]लोऽङ्कपालावपि भेलके ना ॥ ६५ ॥ Koṣakalpataru 6.28.65
- नानार्थार्णवसंक्षेप अधमअभ्यग्रोऽभिमुखे नव्ये समीपेऽप्यधमः पुनः । न्यूनेऽपि गर्हितेऽधीरः पुनर्भीरौ च चञ्चले ॥ २ ॥ Nānārthārṇavasaṃkṣepa 3.4.2
- नानार्थार्णवसंक्षेप जघन्यह्रीबेरेऽथ जघन्यस्त्रिः पाश्चात्ये गर्हिते तथा । जघनं (त्वे?स्थे) नपि त्वेतद्विज्ञेयं रक्तचन्दने ॥ ७८४ ॥ Nānārthārṇavasaṃkṣepa 4.784
- नानार्थार्णवसंक्षेप अवगीतनिर्वादे क्ली त्रिषु पुनर्मुहुर्दृष्टेऽपि गर्हिते । अवलग्नं तनोर्मध्ये न स्त्री सक्ते पुनस्त्रिषु ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 6.18
- शब्दरत्नावली अवगीतअथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु । अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् ॥ अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् । अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च ॥ अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् । अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः ॥ अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् । अत्याहितं गुरुभये जीवानपेक्षिकर्मसु ॥ अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु । अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥ Śabdaratnāvalī 7.16.153
- शब्दरत्नावली जघन्यजघन्यं मेहने क्लीबं चरमे गर्हितेऽन्यवत् । जटायुर्ना पक्षिभेदे गुग्गुलौ च कनीपसि ॥ Śabdaratnāvalī 7.26.41
- वैजयन्ती चेलचेलं वासोऽक्षमं काम्यं गर्हितं बर्हिचन्द्रकः । चुम्रो नाशे विषण्णे च चोक्षो गीतमनोज्ञयोः ॥ ३१ ॥ Vaijayantī 6.5.31
- वैजयन्ती अधमअधमौ गर्हितन्यूनावभीकौ निर्भयाभिकौ । प्रत्यक्षेऽधिकृतेऽध्यक्षमखिलं गर्ह्यकृत्स्नयोः ॥ १ ॥ Vaijayantī 7.4.1
- वैजयन्ती अवगीतसुखाब्ध्यर्का अव्यथिषा अव्यथिष्यौ निशाक्षिती । अवगीतं मुहुर्दृष्टे निर्वादे गर्हितेऽपि च ॥ १ ॥ Vaijayantī 8.5.1