कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पयस्या

payasyāस्त्री · fem.

In 8 kośas: 6 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.831 · p. 34
क्षीरशरः पयस्या च तन्मस्तुनि तु वाजिनम् ॥ ८३१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.87 · p. 78
क्षीरं शरः पयस्या स्यान्मस्तुन्यपि तु वाजिनम् ।इष्टं तुकार्त्तवं कर्म वापीकूपादिपूर्तकम् ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.559 · p. 312
विवल्लिका रक्तदला शुण्डी तु हस्तिशुण्डिका ।धूसर्यथ पयस्या तु क्षीरिणी जलकामुका ॥ ५५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.58 · p. 237
व्रीहीणां तु पुरोडाशो भवेद्व्रीहिमयो हि सः ।अद्ग[100b]स्तृप्रः पुरोडाशो कपालेष्वष्टसु ह्यसौ ।संस्कृतोऽष्टाकपालोऽथ तप्तक्षीरगतं दधि ।स्यादामिक्षा क्षीरसरः पयस्या मस्तु वाजिनम् ॥ ५८ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1385 · p. 219
हविस्तथैव सान्नाय्यं बलिदानं हि कथ्यते ।क्षीरशरः पयस्या च शृतोष्णक्षीरमं दधि ॥ १३८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.98 · p. 91
अन्नादि कृतमामिक्षा दध्नोष्णं संयुतं पयः ।पयस्या च क्षीरशरस्तन्मस्तुनि तु वाजिनम् ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.84 · p. 299
त्रये रहस्यं किल गोपनीयेनद्यां स्त्रियां चाथ भवेत्पयस्या ।काकोलिकायामपि दुग्धिकायांपयोहिते वाच्यसमानलिङ्गा ॥ ८४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1078 · p. 141
पयस्या तु स्त्रियां विद्यादामिक्षायां तथौषधौ ।काकोलीनामनि त्रिस्तु दध्याज्यादौ पयोभवे ॥ १०७८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1079 · p. 141
पयोहिते पयः साधावित्याहुः शब्दवित्तमाः ।खजूरे तु परूषो ना क्लीबलिङ्गं तु तत्फले ॥ १०७९ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र यत्रिः Śivakoṣa 21.2.356 · p. 33
पयस्या दुग्धिकावीराकाञ्चनक्षीरिणीषु च ।मलया त्रिवृताभेदे मलयः श्वेतचन्दने ॥ ३५६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.45 · p. 261
पयस्यं वाच्यलिङ्गं स्यात्पयोजाते पयोहिते ।दुग्धिका क्षीरिका कोलीस्वर्णक्षीरीष्वपि स्त्रियाम् ।पारुष्यो ना गुरौ क्लीबं दुर्वाक्यपरुषत्वयोः ॥
अनुष्टुप्