All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
यान्ताः · यत्रिः
अभया तु हरीतक्यामभयं समगन्धिके ।कलोड्यं पद्मबीजेन्दीवरवेणुफलेषु च ॥ ३५१ ॥
21.2.351 · p. 32
अनुष्टुप्
कैडर्यः कट्फले द्रेष्काकरञ्जमदनद्रुमे ।गन्धाढ्या तु सटीगन्धमादनीजलकुब्जके ॥ ३५२ ॥
21.2.352 · p. 32
अनुष्टुप्
गाङ्गेयी पुंसि वा मुस्ते क्लीबं स्वर्णकसेरुणोः ।चक्षुष्यः कतके पुण्डरीयके च रसाञ्जने ॥ ३५३ ॥
21.2.353 · p. 32
अनुष्टुप्
अस्त्री स्त्री वनकुलत्थे चाम्पेयो नागकेसरे ।किञ्जत्के चम्पके पुंसि सुवर्णे पुन्नपुंसकम् ॥ ३५४ ॥
21.2.354 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
नादेयी नीरवानीरे भूजम्बूनागरङ्गयोः ।जवायामम्बुपिपल्यां जयन्त्या सैन्धवेऽद्वयोः ॥ ३५५ ॥
21.2.355 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)
पयस्या दुग्धिकावीराकाञ्चनक्षीरिणीषु च ।मलया त्रिवृताभेदे मलयः श्वेतचन्दने ॥ ३५६ ॥
21.2.356 · p. 33
अनुष्टुप्
मङ्गल्यो ग्रन्थिलाश्वत्थमसूरारिष्टवार्षिके ।स्त्रियां तु शम्यधःपुष्पीमिसिधीरप्रियङ्गुषु ॥ ३५७ ॥
21.2.357 · p. 33
अनुष्टुप्
रोचनाजीवनीमल्लिगन्धिकालागुरुण्यपि ।विशल्याग्निशिखादन्तीगुडूचीत्रिवृतासु च ॥ ३५८ ॥
21.2.358 · p. 33
अनुष्टुप्
शङ्खाख्या तु वचाकम्बुमालिन्योर्दध्नि न द्वयोः ।शालेयं न द्वयोस्तालपर्ण्यां चाणक्यमूलके ॥ ३५९ ॥
21.2.359 · p. 33
अनुष्टुप्
शैलेयं गिरिमृत्तालपर्णीशैलजसिन्धुजे ।स्त्रीप्रियः सहकारस्य फले शोभाञ्जनद्रुमे ॥ ३६० ॥
21.2.360 · p. 33
अनुष्टुप्