पर्णास
parṇāsaपुं · masc.In 9 kośas: 6 synonym verses, 5 as a meaning of another word.
समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः ।जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
कालमाला तु पर्णास-कठिञ्जर-कुठेरकाः ।कृष्णार्जकः सालनीयो मालुकः कृष्णमालुकः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
वैकुण्ठस्तीक्ष्णगन्धश्च द्वितीयो वटपत्रकः ।पर्णासो बिल्वगन्धश्च स तु कृष्णः करालकः ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
पर्णासस्तुलसी वृन्दा कठिञ्जर-कुठेरकौ ॥
genderपुंmasc.
अमी समाः स्युः पर्णासकुठेरककठिञ्जराः ।शुक्लेऽस्मिन् मञ्जरी तीक्ष्णतीक्ष्णगन्धार्जकाः समाः ॥ ६१० ॥
अनुष्टुप्
genderपुंmasc.
निर्गुण्ड्यामिन्द्रसुरसः सिन्दुवारश्च सिन्दुकः ।कुठेरके तु पर्णासो मालोर्जरकठिञ्जरौ ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
पर्णास as a meaning in nānārtha verses
- धरणिकोश जम्बीरकूर्परौ जानुकफणी तित्तिरौ मुनिपक्षिणौ । जम्बीरौ जन्तुपर्णासौ महेन्द्राविन्द्रपर्वतौ ॥ Dharaṇikośa 26.1.17
- शिवकोष कठिल्लककुरण्टको पुमानेकैषिका पाठासुषेणयोः । कठिल्लकस्तु पर्णासे वर्षाभ्यां कारवेल्लके ॥ ५५ ॥ Śivakoṣa 1.4.55
- शब्दरत्नावली कारत्वकशठे वाक्श्रुतिहीने स्यादेडमूकोऽन्यलिङ्गकः । कविवल्ले च पर्णासे मण्डूके च कारत्वकः(?) ॥ Śabdaratnāvalī 7.1.160
- शब्दरत्नावली विशाखविशाखः कार्त्तिकेये ना ऋक्षपर्णासयोः स्त्रियाम् । वैशाखोऽपि च मन्थाने मासमण्डलभेदयोः ॥ Śabdaratnāvalī 7.2.13
- त्रिकाण्डशेष कठिल्लकपुनर्नवाकारवेल्लपर्णासेषु कठिल्लकः । कृकवाकुर्मयूरेऽपि वंशे दैत्ये च कीचकः ॥ १६ ॥ Trikāṇḍaśeṣa 3.3.16