मञ्जरी
mañjarīस्त्री · fem.In 13 kośas: 15 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।अङ्कूरश्चाङ्कुरः प्रोक्तो वृन्तं प्रसवबन्धनम् ॥ १८५ ॥
अनुष्टुप्
genderस्त्रीfem.
वल्लरी वल्लरिश्च स्यात् वल्लरं चात्र युज्यते ।मञ्जरीमञ्जरिमञ्जिमञ्जरं च प्रकीर्तितम् ॥ ९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderस्त्रीfem.
स्यादथच्छदनं छादमस्त्रियां बर्हमित्यथ ।चमरिर्मञ्जरीवाना मञ्जी मञ्जिश्च मञ्जरिः ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
मङ्गलद्रुर्मञ्जरी च शिलीष्टो भृङ्गवल्लभः ।मनोभिनन्दनः पुष्पोत्सवश्चामरपुष्पकः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
अराजिः फल्गुवाटी च सफला मञ्जरी च सा ।भवेद्धनफलश्चित्रभेषजा फलभारिका ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
मोदकी जिङ्गिणी झिल्ली मञ्जरी गुडमञ्जरी ।जातसारा पर्वतीया झिङ्गिणी स्मरमञ्जरी ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
सस्यस्य मञ्जरी चाथ काण्डोऽस्त्री सस्यनाडिका ।नाली नालं निफलस्तु पलालोऽस्त्री पलश्च सः ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderस्त्रीfem.
एते नपुंसके भवन्ति । इदं मण्डलं सूर्यस्य । केशरं किञ्जल्कः । भाण्डमुपकरणद्रव्यम् । उत्तरीयं प्रावरणम् । सोपानं खण्डखण्डिका । कल्मषं पापं अघं पापं च । प्रशब्दादेरन्तरं शब्दं नपुंसके विद्धि । इदं प्रान्तमत एवानुपसर्गस्तु पुंस्येवान्तशब्दः । कुटुम्बपुलिनशब्दाभ्यां सह नपुंसके । इदं कुटुम्बं गोत्रवर्गः । इदं पुलिनं द्वीपम् ।स्थालीसभाजरानां स्त्रीत्वं स्थल्याश्च वीच्याश्च ।छविकट्योर्मञ्जर्यावल्याश्चैवं विजानीयात् ॥ ७९ ॥
metre not recognised
genderस्त्रीfem.
विदुलो मञ्जरी नम्रः परिव्याधो निकुञ्जकः ।वरुणे गन्धवृक्षः स्यात्तिक्तशाकः कुमारकः ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीfem.
मसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् ।पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि ॥मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने ।मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु ॥मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने ।मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि ॥मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः ।मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 ल्ली (wrong syllable)
genderस्त्रीfem.
कोटारे निक्कुटः प्रोक्तो निष्कहो, वल्लरौ पुनः ।वल्लरी मञ्जरी मञ्जा मञ्जरिश्चापि पर्णके ॥ १३० ॥
अनुष्टुप्
genderस्त्रीfem.
मुकुलोऽस्त्री कुड्मलोऽस्त्री वल्लरी मञ्जरी स्त्रियौ ।गुलुच्छगुच्छस्तबकाः पुष्पं तु कुसुमं सुमम् ॥ ४५० ॥
अनुष्टुप्
genderस्त्रीfem.
अमी समाः स्युः पर्णासकुठेरककठिञ्जराः ।शुक्लेऽस्मिन् मञ्जरी तीक्ष्णतीक्ष्णगन्धार्जकाः समाः ॥ ६१० ॥
अनुष्टुप्
genderस्त्रीfem.
गुच्छो गुलुच्छः स्तबको मञ्ज्यां मंजरिवल्लरी ।प्रसवः पिप्पलं सस्यं फलं वृन्तं तु बन्धनम् ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
सितेऽस्मिन् मञ्जरी तीक्ष्णस्तीक्ष्णगन्धोऽर्जकोऽत्र तु ।सुगन्धौ श्वेतसुरसा भारती तुलसी शिवा ॥ ११९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुन्दरी वृक्षभेदेऽपि मञ्जरी तिलकेऽपि च ।पवित्रं स्यात्कुशे पूते कलत्रं श्रोणिभार्ययोः ॥
अनुष्टुप्
meaningsतिलक
छन्दोभेदे मञ्जरी स्थूलमुक्ता-वल्लर्योः स्याच्छ्रामदाख्ये च वृक्षे ।वासोभेदे मर्मरी पीतदारौशुष्कानां तु स्याद्दलानां ध्वनौ ना ॥ ८५ ॥
शालिनी
मञ्जरी as a meaning in nānārtha verses
- धरणिकोश चमरीचमरं चामरे प्रोक्तं चमर्यौ मञ्जरीमृगौ । वसिरं सामुद्रलवणं वसिरः करिपिप्पली ॥ Dharaṇikośa 26.2.32
- धरणिकोश वल्लरीवल्लरं निर्जलस्थाने वनक्षेत्रे च वल्लरम् । वल्लरं गहने कुञ्जे मञ्जर्यां वल्लरी स्मृता ॥ Dharaṇikośa 26.3.38
- कोषकल्पतरु चमरनागे च रागे दहरस्तु नाखौ स्वल्पे तथा भ्रातरि बालके च । स्याच्चामराभश्चमरो द्विलिङ्गो मृगप्रभेदेऽपि च मञ्जरीषु ॥ ३ ॥ Koṣakalpataru 6.27.3
- कोषकल्पतरु वल्लरमञ्जरीवाचकस्तु स्त्रियां सम्मतो मन्थरः सूचके कोशमन्थानयोः । स्यात्कुसुम्भे * * वाच्यलिङ्गः पृथौ तादृशः सम्मतो वक्रमन्दाह्वये ॥ २८ ॥ Koṣakalpataru 6.27.28
- नानार्थार्णवसंक्षेप वल्लरिवर्तनिस्तु भवेद्वृत्तौ मार्गे स्यात् तक्रपिण्डके । स्याद्वल्लरिस्तु मञ्जर्यां लतायां च धनञ्जयः ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 3.1.82
- शब्दरत्नावली चमरीस्त्रियां वीणाक्षुद्रघण्ट्योर्भेदे स्वरान्तरे त्रिषु । चमरी मृगमञ्जर्योश्चमरेञ्चामरेऽपि च ॥ Śabdaratnāvalī 7.27.72
- तन्त्राभिधान ठठः शून्यं मञ्जरी बीजं पाणिनी लाङ्गली क्षयः । वनजो नन्दनो जिह्वा सुमञ्जुघूर्णनं सुधा ॥ ९२ ॥ Tantrābhidhāna 2.29.92