कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · कान्ताः (2/2)

मामकं स्यात् त्रिषु स्वीये भवेत् पुंसि च मातुले ।मातृका जननी धात्री देवी भेदगृहाक्षरे ॥
7.1.121 · p. 184
अनुष्टुप्
मालिका तु नदीभेदे पुष्पमालात्मजासु च ।मालिकः पक्षिमल्ले स्यात् मालाकारे च रञ्जके ॥
7.1.122 · p. 184
अनुष्टुप्
मेचकस्तिमिरे श्यामे श्यामवर्णयुतेऽपि च ।मयूरचन्द्रके धूमे मेघे शोभाञ्जनेऽपि च ॥
7.1.123 · p. 184
अनुष्टुप्
मोचकं शिग्रू कदली विरागिमोक्षकेषु च ॥
7.1.124 · p. 184
मोदकोऽस्त्री खाद्यभेदे हर्षके वाच्यलिङ्गकः ।यमकं यमके शब्दालङ्कारे ना तु संयमे ॥
7.1.125 · p. 184
अनुष्टुप्
यजको यज्ञिकोऽपि स्यात् तथा राजगजेऽपि च ।याज्ञिको दर्भभेदे स्यात् याजके यज्ञकर्तरि ॥
7.1.126 · p. 184
अनुष्टुप्
युतकं चलनाग्रे तु यौतुके संशये युगे ।नारीवस्त्राञ्चले युक्ते स्यात् मैत्रीकरणेऽपि च ॥
7.1.127 · p. 184
अनुष्टुप्
यूथिका पुष्पभेदे स्यादम्लानेऽपि च योषिति ।रसिका च रसालेक्षुरसयोः सरसेऽन्यवत् ॥
7.1.128 · p. 184
अनुष्टुप्
रक्तकोऽम्लानबन्धूकरक्तांशुकविनोदिषु ।याजिका स्यात्तु केदारे लेखायां सर्षपान्तरे ॥
7.1.129 · p. 184
अनुष्टुप्
यात्रकं पञ्चरात्रे स्यात् वेश्या वेश्याब्दवासिनि ।रुचको मातुलुङ्गे स्यात् निष्के दन्ते कपोतके ॥
7.1.130 · p. 184
अनुष्टुप्
न द्वयोः सर्जिकाक्षारे माल्यमङ्गल्यवस्तुनोः ।सौवर्चलेऽश्वाभरणे तथास्वाद्यरसादिषु ॥
7.1.131 · p. 184
अनुष्टुप्
रुण्डिका युद्धभूमौ स्याद् द्वारपिण्ड्यां विभूतिषु ।रूपकं स्यादलङ्कारभेदे नाटकधूर्तयोः ॥
7.1.132 · p. 184
अनुष्टुप्
रेणुकापि हरेणौ स्याद् जमदग्निस्त्रियामपि ।लम्पाको लम्पटो देशे लिम्पाको जम्बिरे खरे ॥
7.1.133 · p. 184
अनुष्टुप्
लासकस्तु मयूरे स्यात् लम्पटे लास्यकारिणि ।लोचको नेत्रतारायां मांसपिण्डे च कज्जले ॥
7.1.134 · p. 184
अनुष्टुप्
स्त्रीणां ललाटाभरणे मूर्व्यां भ्रूश्लथकर्मणि ।निर्मोके कर्णपूटे च कदलीनीलवस्त्रयोः ॥
7.1.135 · p. 185
अनुष्टुप्
वसुकं वौमके ना तु शिवमल्ल्यर्कपर्णयोः ।कर्णिका काञ्चनोत्कर्षे वर्णको मण्डले पुमान् ॥
7.1.136 · p. 185
अनुष्टुप्
द्वयोर्नील्यादिषु क्लीबे चन्दने च विलेपने ।वर्तको ना खुरेऽश्वस्य विहङ्गे वर्तिका द्वयोः ॥
7.1.137 · p. 185
अनुष्टुप्
वञ्चको जम्बुके धूर्ते गृहवभ्रौ खलेऽपि च ।व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेष्वपि ॥व्यलीकानागरे पुंसि वह्लीकं वाह्लिकं तथा ।धीरे हिङ्गुनि देशाश्वभेदयोः पुंसि च द्वयम् ॥
7.1.138 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष्य (wrong syllable)
बार्धकं बृद्धवृन्दे स्यात् बृद्धानां भावकर्मणोः ।वार्षिकं त्रायमानायां तथा वर्षाभवे त्रिषु ॥
7.1.139 · p. 185
अनुष्टुप्
बालको वलयेऽस्त्री तु त्रिषु स्यादङ्गुरीयके ।वितर्कः स्यात् पुमानूहे संशये ज्ञानसूचके ॥
7.1.140 · p. 185
अनुष्टुप्
विपाकः पचनस्वेदकर्मादि विसदृक् फले ।विवेकः स्यात् पृथग्भावे जलद्रोण्यां विचारणे ॥
7.1.141 · p. 185
अनुष्टुप्
वृश्चिको राशिभेदे स्याद् द्रूणे कीटौषधीभिदोः ।वृषाङ्कः साधुशिवयोः भल्लातकमहल्लयोः ॥
7.1.142 · p. 185
अनुष्टुप्
वैजिकः कारणे शिग्रूतैले सद्योऽङ्करे पुमान् ।शलाका मदने शल्ये शारिका शल्लकीभिदोः ॥
7.1.143 · p. 185
अनुष्टुप्
छत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः ।शङ्खकः स्यात् शिरोरोगे शङ्खेऽस्त्रीवलयेऽपि च ॥
7.1.144 · p. 185
अनुष्टुप्
शम्बूको गजकुम्भान्ते जलजन्तुविशेषके ।सलज्जे दैत्यभेदे च घोङ्गेऽपि शूद्रतापसे ॥
7.1.145 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
शार्ककः शर्करापिण्डे दुग्धफेणे च पुंस्ययम् ।शिशुको बालकोलूपी शिशुमारे पुमानसौ ॥
7.1.146 · p. 185
अनुष्टुप्
शीतकः स्यात् शीतकाले दीर्घसूत्रिणि सुस्थिते ।सस्यको मेलको खड्गे सम्पर्धे(?) मणिभेदके ॥
7.1.147 · p. 185
अनुष्टुप्
सम्पाकः तर्कके धृष्टे त्रिषु ना चतुरङ्गुले ।स्यमीका नीलिकायाञ्च पुमान् वल्मीकवृक्षयोः ॥
7.1.148 · p. 185
अनुष्टुप्
स्वस्तिकः स्यात् चतुष्के तु मङ्गलद्रव्यगेहयोः ।मरकोऽस्त्री सीधु शीधुपानेक्षु शीधुपात्रके ।अच्छिन्नपान्थपंक्तौ च त्रिषु स्यात् गतिशीलके ॥
7.1.149 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्षु (wrong syllable)
सायकस्तु शरे शङ्खे सायिका च क्रमस्थितौ ।स्थासको ना तु चार्चिक्ये फेनादिबुद्बुदेऽपि च ॥
7.1.150 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
सूचकः पिशुने काके बिडाले बोधके शुनि ।सीवनद्रव्यभेदे च वृद्धे सिद्धपिशाचयोः ॥
7.1.151 · p. 186
अनुष्टुप्
सूतकः पारदेऽस्त्री स्यादुत्पत्तावपि न द्वयोः ।सृदाकुः पुंसि वज्रेऽग्नौ समीरे प्रतिसूर्यके ।सेवको वाच्यवद्भृत्ये भवेत् पुंसि प्रसेवके ॥
7.1.152 · p. 186
अनुष्टुप्
सेचकः पुंसि जलदे सेककर्तरि वाच्यवत् ।सैनिकोऽपि च सेनायाः रक्षके समवेतके ॥
7.1.153 · p. 186
अनुष्टुप्
हारकः कितवे गद्ये चौरविज्ञानभेदयोः ।हड्डुको ना तु दात्यूहे वाद्यभेदे च दण्डके ॥
7.1.154 · p. 186
अनुष्टुप्
हेककः स्यान्महाकालगणवृद्धविशेषयोः ।
7.1.155 · p. 186
अनुष्टुप्metre not read in every line
पद्मकेशरभेकालिष्वलिवकः पुमान् (पिके) ॥
7.1.156 · p. 186
अनुष्टुप्metre not read in every line
कुरुण्टके चोन्त्यकाङ्गे(?) मङ्गलेऽङ्गारकोऽपि च ।इक्षुकाण्डे पलाशद्रुकोरकेऽङ्गारके भवेत् ॥
7.1.157 · p. 186
अनुष्टुप्
प्रीत्युत्कण्ठा तमोमोहग्रन्थिष्वाकल्पको मतः ।वायुव्याधौ व्याधनिन्दाकरेष्वाक्षेपको भवेत् ॥
7.1.158 · p. 186
अनुष्टुप्
शूकरे मूषिके चौरे भवेदाखनिकः पुमान् ।हेलोत्कण्ठातरङ्गेषु भवेदुत्कलिका स्त्रियाम् ॥
7.1.159 · p. 186
अनुष्टुप्
शठे वाक्श्रुतिहीने स्यादेडमूकोऽन्यलिङ्गकः ।कविवल्ले च पर्णासे मण्डूके च कारत्वकः(?) ॥
7.1.160 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 का (wrong syllable)
महादेवः जटाजूटे वराटे च कपर्दकः ।नागभेदे बिल्वतरौ भवेत् कर्कटकोऽपि च ॥
7.1.161 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बि (wrong syllable)
कलिङ्गे ग्रामचटके कलविङ्को भवेत् पुमान् ।स्यात् कनिष्ठाङ्गुलिनेत्रतारकयोः कनीनिका ॥
7.1.162 · p. 186
अनुष्टुप्metre not read in every line
परमर्मज्ञशिष्ये ना शठे कापाटिकस्त्रिषु ।काकरूको दम्भनग्नस्त्रीजित्पेचकभीरुषु ॥
7.1.163 · p. 186
अनुष्टुप्
निःशेषु चाम्लानझिण्टीभिदोः कुरवको भवेत् ।पीतपुष्पाम्लानझिण्ठीद्रुमयोस्तु कुरुण्ठकः ॥
7.1.164 · p. 186
अनुष्टुप्
मयूरे ताम्रचूडे च कृकवाकुरुदाहृतः ।पटोल्ल्यां घोषके स्त्री स्यात् कचे कोषातकः पुमान् ॥
7.1.165 · p. 186
अनुष्टुप्
अदूरप्रेरिताक्षे च दाम्भिके कुटिको भवेत् ।कुलीनो सारमेये च पुंसि कौणेयको मतः ॥
7.1.166 · p. 186
अनुष्टुप्
ग्रामणीभङ्गिनाराचेषूपधाने खरालिकः ।पाठनिश्चयशूण्याङ्के नृत्ये गुणनिका भवेत् ॥
7.1.167 · p. 186
अनुष्टुप्
स्थपुटे गोखुरे गोक्षुरके गोकण्ठको भवेत् ।काकोले पत्रके पीतमणौ गोमेदकं भवेत् ॥
7.1.168 · p. 187
अनुष्टुप्
बलिरोपेक्षिपङ्कस्थगोषु गोकुलिको भवेत् ।वाद्यदण्डक्षुद्रघण्ठिकयोर्घर्घरिका मता ॥
7.1.169 · p. 187
अनुष्टुप्
महाकाले च सीमन्ते शाके चर्चारीको द्विधा ।किन्नरायामुमौषध्यां भवेत् चण्डालिका स्त्रियाम् ॥
7.1.170 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 री (wrong syllable)
चाटुकारचक्रगण्डुदृग्गोचरनियन्तृषु ।भवेत् चातुरकः पुंसि दक्षभाजनयोस्त्रिषु ॥
7.1.171 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
बहुच्छिद्रे जर्जरीकं वाच्यलिङ्गं जरातुरे ।वन्दागुडुचीजीवाख्यशाके जीवन्तिका भवेत् ॥
7.1.172 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ची (wrong syllable)
त्रिषु दीर्घायुः कृशयोश्चन्द्रे जैवातृकः पुमान् ।बहित्रे तर्तरीकं स्यात् पारगे त्रिषु कीर्त्यते ॥
7.1.173 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 युः (wrong syllable)
तिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे ।कटुत्रिके गोक्षुरके त्रिफलायां त्रिवर्णकम् ॥
7.1.174 · p. 187
अनुष्टुप्
स्वयं जाते तिले पृश्न्यां गैरिके नागकेशरे ।महत्तरे च फेसो च खातके च दलाटकः ॥
7.1.175 · p. 187
अनुष्टुप्
राक्षसे स भुजङ्गे च दन्दशूकः समीरितः ।धीवरे करमे दासीपुत्रे दासेरको मतः ॥
7.1.176 · p. 187
अनुष्टुप्
कर्णधारे पोतवाहे नियन्तरि नियामकः ।स्वैरे समीरणे विष्ठाक्षये निश्चारको भवेत् ॥
7.1.177 · p. 187
अनुष्टुप्
निपुने क्षपणे हीने निर्ग्रन्थिक उदाहृतः ।शिखण्डे भुजगे बाणे प्रचलाकः समीरितः ॥
7.1.178 · p. 187
अनुष्टुप्
चामरे विस्तरे क्लीबं सर्गे पुंसि प्रकीर्णकः ।स्याद्वस्त्रपुत्रिका पीतिभिदोः पाञ्चालिका स्त्रियाम् ॥
7.1.179 · p. 187
अनुष्टुप्
वक्षोजवृन्त-सीव्यादिसूत्रे पिप्पलको मतः ।नगरे मदनाख्ये तु द्रुमे पिण्डीतको भवेत् ॥
7.1.180 · p. 187
अनुष्टुप्
गन्धमृगेक्षपणके कीले पुष्यलको पुमान् ।पुंसि व्याघ्रदिङ्मतङ्गजेन्द्रकोषकारान्तरेषु च ॥
7.1.181 · p. 187
metre not recognised
भेषजावज(?) सितच्छत्रे पुण्डरीकं नपुंसकम् ।बद्धपात्रे च पटहे पूर्णालकमुदीरितम् ॥
7.1.182 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चपेटे ना मार्दवेऽस्त्री फर्फरीकं निगद्यते ।गिरौ मेघे दैत्यभेदे नागभेदे वलाहकः ॥
7.1.183 · p. 187
अनुष्टुप्
रज्ज्वां कपर्दके पद्मवीजकोषे वराटकः ।वातावर्जितशाखायां वलाकायां वकेरुकाः ॥
7.1.184 · p. 187
अनुष्टुप्
वर्तुले गजवेद्याञ्च तथा यौवनकण्टके ।विशाले भयसम्पन्ने कृपणे च वरण्डकः ॥
7.1.185 · p. 188
अनुष्टुप्
वणिजि स्याद्वडवाग्नौ धूर्ते वाणिजिकः पुमान् ।पुंसि देवे मनोज्ञे नु श्रेष्टे वृन्दारकस्त्रिषु ॥
7.1.186 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
गिरिकेऽलकभेदे च भृङ्गे भ्रमरको मतः ।तापसे नाट्यवाग्भेदे नृपे भट्टारको मनः ॥
7.1.187 · p. 188
अनुष्टुप्
भयङ्करव्याघ्रराहुरसभित्सु भयानकः ।स्त्रीजिते मृगभेदे च भवेद्भार्याटिकः पुमान् ॥
7.1.188 · p. 188
अनुष्टुप्
शल्ये फले [तथा] पुष्पभेदे मरुवकः स्मृतः ।आतर्पणे चित्ररागे स्यात् मण्डोदकोऽस्त्रियाम् ॥
7.1.189 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चि (syllables merged)
दर्पणे कुष्ठभेदे च बिम्बे मण्डलकं स्मृतम् ।लूतायां मत्स्यभेदे च दैत्ये मर्कटको मनः ॥
7.1.190 · p. 188
अनुष्टुप्
अथ तुत्थाञ्जने क्लीबं अपामार्गे मयूरकः ।शिशौ कुपुरुषे हारभेदे माणवकः पुमान् ॥
7.1.191 · p. 188
अनुष्टुप्
मिष्टाशिन्यतिथिद्वेषिण्यपि मृत्तेरुको भवेत् ।दिनेष्टमङ्गले सख्ये स्नाते रातर्दिकं द्विधा ॥
7.1.192 · p. 188
अनुष्टुप्
शिला शीकरशीरेषु राधवङ्कुर्भवेत् पुमान् ।प्रभुभावदर्शिनि स्यात् तथा च श्लेषनान्तरे ॥
7.1.193 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
कार्याक्षमे च पुरुषे लालटिक इति स्मृतः ।अथान्यहस्तलेखे च तथा च लेखहारके ॥
7.1.194 · p. 188
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 ल (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
स्वहस्तलेखकेऽपि स्यादसौ लेखनिको मतः ।काकनीडे नदीभेदे वर्तरूको जलावटे ॥
7.1.195 · p. 188
अनुष्टुप्
हेरम्बगरुडे विघ्ने जिने पूज्ये विनायकः ।मयूरकेऽप्यज्झटायां धन्याके च वितुन्नकम् ॥
7.1.196 · p. 188
अनुष्टुप्
त्रिषु तत्कारकेऽस्त्री तु तिलके स्याद्विशेषकम् ।परनिन्दाकरे चाटुवटौ पुंसि विदूषकः ॥
7.1.197 · p. 188
अनुष्टुप्
क्षणिको मर्कटे चाम्बतन्त्रे वैनाशिको मतः ।शूद्राद्वैथ्यासुते वाणिजके वैदेहको भवेत् ॥
7.1.198 · p. 188
अनुष्टुप्
खेड्डताले पुमान् बोधकरे वैतालिकस्त्रिषु ।वृद्धे मुनौ राजभेदे शतानीक उदीरितः ॥
7.1.199 · p. 188
अनुष्टुप्
कुक्कुरे वानरे फेरौ मृगे शालावृको मतः ।अट्टालिकायां विवरे स्यात् शिलाटकमस्त्रियाम् ॥
7.1.200 · p. 188
अनुष्टुप्
त्रासात् पलायने स्त्री तु शिलायाञ्च शृगालिका ।स्याद्वारिकण्टके तुर्यपथे शृङ्गाटकं भवेत् ॥
7.1.201 · p. 188
अनुष्टुप्
लूताजाले च दुग्धादिवे सन्तानिकापि च ।सुचुय्यां लोहयन्त्रादिभेदे सन्दंशिका मता ॥
7.1.202 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुटुन्यां युगले घ्राणे दूत्यां सञ्चारिका मता ।सङ्घाटिका च कुटुन्यां युगले जलकण्टके ॥
7.1.203 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
दिग्गजे शोभनाङ्गे च सुप्रतीको निगद्यते ।न्यस्ते क्षपणके मातृयात्रा मङ्गलसूत्रके ॥
7.1.204 · p. 189
अनुष्टुप्
पुंसि सन्देहजीवे तु भवेत् सैकतिकस्त्रिषु ।कट्फले शुभ्रखदिरे सोमवल्कः समीरितः ॥
7.1.205 · p. 189
अनुष्टुप्
क्लीबे कत्तृणकह्लारपद्मरागेषु पुंस्यपि ।गन्धके गन्धपाषाणे सौगन्धिक उदाहृतः ॥
7.1.206 · p. 189
अनुष्टुप्
शठे वाक्यश्रुतिहीनेऽप्यनेडमूक ईरितः ।हासभेदे नखाघाते स्यादाच्छुरितकं हि तत् ॥
7.1.207 · p. 189
अनुष्टुप्metre not read in every line
नृपालये तूपकर्त्र्यां पिष्टभिद्युपकारिका ।षिड्गे काव्यकरे द्वाःस्ये शुद्धान्तोद्यानपालयोः ॥
7.1.208 · p. 189
अनुष्टुप्
रङ्गाजीवे रसोत्साहे कक्षावेक्षक इत्यसौ ।फेरुभोक्तृकाककाचकुम्भेषु कटखादकः ॥
7.1.209 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्तृ (wrong syllable)
उडुम्बरविडम्बाख्यचित्राङ्गे क्रिमिकण्टकम् ।स्यात् कण्ठकारिके पुंसि क्लीबं गोजागरिकं शुभे ॥
7.1.210 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कण्ठीभेदे विद्युति स्यात् खद्योते चिलमीलिका ।मेघे शके नारिकेलफले जललतासु च ॥
7.1.211 · p. 189
अनुष्टुप्
पुमान् जलकलङ्कः(२) स्यात् काष्ठे पात्रे च कुत्रचित् ।इल्लीशे काकचीमत्स्ये जलतापिक इत्यसौ ॥
7.1.212 · p. 189
अनुष्टुप्
अथ नव्ये नवफलिते नवधृतकुसुमासु च स्त्रीषु ।नवफलिका नवकलिका द्वयमिदमुदितं स्त्रियामेव ॥
7.1.213 · p. 189
उपगीतिः
गणस्थे राजे गरुढे हस्तिये राजकुञ्जरे ।चित्रमेखलके पुंसि वागरे नागवारिकः ॥
7.1.214 · p. 189
अनुष्टुप्
कङ्गुधान्ये चीनकाख्यधान्ये च व्रीहिराजकः ।सम्मार्जनीङ्गुदीलोकयात्रासु व्यवहारिका ॥
7.1.215 · p. 189
अनुष्टुप्
वचायामपि दूर्वायां यवे च शतपर्विका ।अथ दीपे दर्पणे च कथितः शीतचम्पकः ॥
7.1.216 · p. 189
अनुष्टुप्
उत्सवे मदनेऽपि स्यात् माधव्यं सुवसन्तकः ।अथ यूय्यां हेमपुष्प्यां चम्पके हेमपुष्पकः ॥
7.1.217 · p. 189
अनुष्टुप्
शृङ्गीमत्स्ये ग्रामयुद्धे ग्राममद्गुरिका भवेत् ।अथ कामोद्दीपके स्यात् औषधे सारिकासु च ।कोकिलायाञ्च मदनशलाका परिकीर्तिता ॥
7.1.218 · p. 189
अनुष्टुप्metre not read in every line
मातुलात्मजधुस्तूरफले मातुलपुत्रकः ।श्लोकचौरे सन्धिचौरे भवेत् वर्णविलोडकः ॥
7.1.219 · p. 190
अनुष्टुप्
मतङ्गे पुंसि कामिन्यां सिन्दूरतिलकः स्त्रियाम् ।
7.1.220 · p. 190