कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

कान्ताः · कच

अश्मन्तकः पुमानम्ललोणिकायुग्मपत्रयोः ।अङ्गारिका दीर्घपत्रकाण्डे किंशुककोरके ॥ ५४ ॥
1.4.54 · p. 6
अनुष्टुप्
कुरण्टको पुमानेकैषिका पाठासुषेणयोः ।कठिल्लकस्तु पर्णासे वर्षाभ्यां कारवेल्लके ॥ ५५ ॥
1.4.55 · p. 6
अनुष्टुप्
कर्कोटिका मनोज्ञायां बिल्वे कर्कोटकः पुमान् ।कालीयकं कठिन्यां न स्री हरिचन्दने क्लीबम् ॥ ५६ ॥
1.4.56 · p. 6
अनुष्टुप्metre not read in every line
काष्ठीलिका तु योषिति वनजायां वनजरम्भायाम् ।मतः कुरबकोऽम्लानझिण्टीषष्टिकभित्सु च ॥ ५७ ॥
1.4.57 · p. 6
अनुष्टुप्metre not read in every line
कुरण्टकः कुन्दपीता म्लानझिण्टीकपीतने ।कोशातकी पटोल्यां च घोषकक्ष्वेडवेधयोः ॥ ५८ ॥
1.4.58 · p. 6
अनुष्टुप्
गवेधुकं गैरिके च तृणधान्ये गवेधुकः ।गवेधुका तु गोधूमे बलायां च बलाभिदि ॥ ५९ ॥
1.4.59 · p. 6
अनुष्टुप्
गाङ्गेरुकी तु कालायां क्लीबं तु मृगलिण्डके ।गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥ ६० ॥
1.4.60 · p. 6
अनुष्टुप्
तिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे ।त्रिवस्तुकं गोक्षुरके त्रिफलायां कटुत्रिके ॥ ६१ ॥
1.4.61 · p. 6
अनुष्टुप्
त्रिगन्धे तिन्तिडीकं तु न ना वृक्षाम्लचिञ्चयोः ।दलाटकः स्वयंजाततिले च करिकेसरे ॥ ६२ ॥
1.4.62 · p. 6
अनुष्टुप्
शिरीषे गैरिके कुन्दे ना फणिज्जे तु योषिति ।पिण्डीतको मरुबके तगरे मदनद्रुमे ॥ ६३ ॥
1.4.63 · p. 7
अनुष्टुप्
पुण्डरीकं सिताम्भोजे बालुकाख्यविषान्तरे ।सहकारफले ना तु दमने शालिभिद्यपि ॥ ६४ ॥
1.4.64 · p. 7
अनुष्टुप्
भण्डीरिका लोहितायां तण्डुलीयकभिद्यपि ।भिरिण्टिका पयस्याभित्काकणन्त्योश्च योषिति ॥ ६५ ॥
1.4.65 · p. 7
अनुष्टुप्
मरुबकः पुष्पभेदे करघाटफणिज्जयोः ।मयूरकः शैखरिके शिखिग्रीवेऽपि दीपके ॥ ६६ ॥
1.4.66 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ब (wrong syllable)
मधूलकोऽजातमद्ये दीर्घपत्रे मधूलिका ।निःशूकदीर्घगोधूमाम्भोजामधुरसासु च ॥ ६७ ॥
1.4.67 · p. 7
अनुष्टुप्
मुरङ्गिका काकनासादेवश्रेणीसुभञ्जने ।मृणालकं वीरतरे पद्मनाले वितुन्नकम् ॥ ६८ ॥
1.4.68 · p. 7
अनुष्टुप्
कुस्तुम्बरी भद्रमुस्तविष्बक्पर्णीमयूरके ।विषाणिका मेषशृङ्गीकाकोलीकर्कटाह्वये ॥ ६९ ॥
1.4.69 · p. 7
अनुष्टुप्
वृषे तु ना शीतपाकी बलारक्तिकयोः स्त्रियाम् ।सोमवल्कः कटुफले कदरे घृतपूरके ॥ ७० ॥
1.4.70 · p. 7
अनुष्टुप्
सौगन्धिकं तु रुचके कल्हारे सूपधूपने ।देवजग्धे पद्मरागे क्लीबे लेलीतके पुमान् ॥ ७१ ॥
1.4.71 · p. 7
अनुष्टुप्