कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पौरुषेय

pauruṣeyaवि · adj.

In 7 kośas: 3 synonym verses, 6 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 201
मानुष्यकं स्याच्चरमे नृवृन्देस्त्रियां तु चञ्चा तृणपूरुषः स्यात् ।चञ्चा स्त्रियामेव हि तत्सदृक्षेस्यात्पौरुषेयस्त्रिषु तत्कृतादौ ॥ २ ॥
उपजातिः
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.104 · p. 38
तृतीयाप्रकृतिः शब्दः पुमान्षण्डे प्रकीर्तितः ।जरायां विस्रसा प्रोक्ता पौरुषेये (सुतायां स्त्री?) सुते पुमान् ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1032 · p. 129
पौरुषं पौरुषेयं च पुरुषाणां कदम्बके ।मानुष्यकं मनुष्याणामथ स्त्री वनिता वधूः ॥ १०३२ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास यश्लोकः Dharaṇikośa 25.3.24 · p. 161
पौरुषेयपदं विद्यात्पुंसो वधविकारयोः ।पुरुषेण कृते कार्ये पुरुषाणां कदम्बके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.85 · p. 300
स्याद्रौहिणेयो बुधवत्सकाम-पालेष्वथ स्यात्पुरुषाधिकारे ।पुंसां समूहे च वधे कृतेऽपिस्यात्पौरुषेयं च पदान्तरेऽपि ॥ ८५ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.415 · p. 62
ना मेघे कोकिले तु द्वे पौरुषेयं पुनस्त्रिषु ।पुरुषेण कृते तस्य विकारे च वधेऽथ नप् ॥ ४१५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.416 · p. 62
वृन्दे पौरोहितं तु त्रि सम्बन्धिनि पुरोधसः ।अथर्ववेदे तु क्लीबं द्वयोस्तु स्यात् फलाशनः ॥ ४१६ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.57 · p. 263
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश अभिधेयवल्लिङ्गाध्यायः Vaijayantī 8.4.10 · p. 275
पौरुषेयं वधे पुंसो बृन्दे कार्यविकारयोः ।ब्रह्मबन्धुरधिक्षेप्ये निर्देश्ये ब्राह्मणाधमे ॥ १० ॥
अनुष्टुप्