कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्राणनाथ

prāṇanāthaपुं · masc.

In 5 kośas: 3 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.123 · p. 34
व्युप्तकेशस्त्रिष्वथ स्याद्भर्ता वरयिता वरः ।धर्मकीलो रतगुरुः प्राणनाथः पतिः प्रियः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.187 · p. 95
पतिः कान्तः प्राणनाथो भरुर्भर्त्ता धवः प्रियः ।हृदयेशो जीवितेशो जामाता च सुखोत्सवः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.10 · p. 50
भर्ता भरुर्नर्मकीलः प्राणनाथः सुखोत्सवः ।हृदयेशो रतगुरुर्जारः पापपतिः समौ ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.91 · p. 14
पादावर्तः पुनः पादस्यावर्तेऽप्यरघट्टके ।प्राणनाथस्तु विज्ञेयो धर्मराजे तथा प्रिये ॥ ९१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.16 · p. 278
नीचे व्रीहाविन्द्रनीले प्राणनाथो यमे प्रिये ।पुण्डरीकं सितच्छत्रे कुष्ठभेदे सितांबुजे ॥ १६ ॥
अनुष्टुप्

प्राणनाथ as a meaning in nānārtha verses

  • शब्दरत्नावली जीवितेशजीवितेशः प्राणनाथे यमे विधुविवस्वतोः । नागपाशः स्त्रीकरणे दुर्बुद्धौ वरुणायुधि ॥ पञ्चदशी पौर्णमास्यां अमावस्यातिथावपि । प्रतिष्कशः पुरोगे स्याद्वार्ताहरसहाययोः ॥ परिवेशः सूर्यपार्श्वमण्डले परिवेष्टने । पादपाशी खुतुक्कायां शृङ्खलायामपि स्त्रियाम् ॥ पुरोडाशो हविर्भेदे पिष्टके हुतशेषके । भूमिस्पृक्मानुषे वैश्ये चौरभेदेऽन्धखञ्जयोः ॥ Śabdaratnāvalī 7.30.30