कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जामातृ

jāmātṛपुं · masc.

In 15 kośas: 14 synonym verses, 6 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.518 · p. 23
जन्यास्तु तस्य सुहृदो विवाहः पाणिपीडनम् ॥ ५१७ ॥पाणिग्रहणमुद्वाह उपाद्यामयमावपि ।दारकर्म परिणयो जामाता दुहितुः पतिः ॥ ५१८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.32
स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.505 · p. 58
दुहिता तनया पुत्री जामाता दुहितुः पतिः ।दौहित्रस्तत्सुतो नप्ता स च पौत्रश्च कथ्यते ॥ ५०५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 52 · p. 5
तिलकः स्यात्कृष्णतिले जामाता शुक्लवर्णके ।स्वयं जाता तु जामाता बाहुजेत्यभिधीयते ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्कृ (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.68 · p. 27
भावुकः श्वशुरो ज्येष्ठो जामाता जन्य इत्यपि ।पुत्र्यर्थेभ्यः पतिरथ दुहित्रर्थात्सुतार्थकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.124 · p. 34
रमोभरुश्च यामाता जामाता रमणो धवः ।कान्तः सुखोत्सवश्चापि हृदयेशोऽथ जारके ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 210
श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनस्तु कनीयसि ।रागारो देवरो देवा जामाता दुहितुः पतिः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.185 · p. 124
दारकर्म तथा पाणिग्रहणं परिणयोऽपि च ।पुत्रिकायाः पतिः प्रोक्तो जामाता पुंसलिङ्गकः ॥ १८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 ग्रह (syllable split)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.59 · p. 5
मातुलेयो मातुलभूर्जामाता तनयापतिः ।पितृष्वसा पित्रनुजा तत्पुत्रः पितृस्वसृजः ॥ ५९ ॥
metre not recognised
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.819 · p. 119
जामाता जगति ख्यातः पुत्रीपतिः स मन्यते ॥ ८१९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.183 · p. 95
यामातापि च जामाता स्यात्तथा कन्यकापतिः ।पितामहः पितृपिता तत्पिता प्रपितामहः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.187 · p. 95
पतिः कान्तः प्राणनाथो भरुर्भर्त्ता धवः प्रियः ।हृदयेशो जीवितेशो जामाता च सुखोत्सवः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1125 · p. 139
स्वस्त्रीयो भागिनेयः स्याद् दौहित्रो दुहितुः सुतः ।जामाता दुहितुर्भर्ता मातुर्भ्राता तु मातुलः ॥ ११२५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.38 · p. 176
पतिर्ननान्दुः कौतूलो नशिको भगिनीपतिः ।जारस्तु स्यादुपपतिर्जामाता दुहितुः पतिः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.27 · p. 222
जामाता दुहितुर्धवे प्रियतमेऽर्कावर्तरोगेऽथ वि-धाता वेधसि मन्मथेऽथ नरपादेष्ट्रोर्विनेता भवेत् ।तार्क्ष्याम्बापिटिकाभिदोश्च विनतारुग्णे नते शिक्षितेत्रय्यां स्यादथ पञ्चता च निधने स्यात्पञ्चभावे तथा ॥ २७ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.89 · p. 18
जागृविस्त्वग्निनृपयोर्जामाता त्वात्मजापतौ ।तथा श्वेततिले चापि सूर्यावर्ते च कश्चन ॥ ८९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.103 · p. 220
जामाता दुहितुः पत्यौ सूर्यावर्चे च भर्तरि ।जीमूतः पर्वते मेघे देवताडे महत्यपि ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2094 · p. 254
जीमूतो जलदे शैले जम्बूकः क्रोष्टुपाशिनोः ।जामाता तु श्वेततिले जम्बालौ पङ्कशैवलौ ॥ २०९४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.157 · p. 145
सूर्यावर्तेऽपि जामाता ना वाते पिष्टपे जगत् ।जातिश्छन्दसि मालत्यां चुल्ल्यां जातीफले कुले ॥ १५७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.26 · p. 241
जंबुकौ क्रोष्टुवरुणौ जंबालौ पंकशैवलौ ।श्वेतस्तिलोऽपि जामाता जीमूतौ मेघपर्वतौ ॥ २६ ॥
अनुष्टुप्

जामातृ as a meaning in nānārtha verses