कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भरु

bharuपुं · masc.

In 7 kośas: 8 synonym verses, 5 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.124 · p. 34
रमोभरुश्च यामाता जामाता रमणो धवः ।कान्तः सुखोत्सवश्चापि हृदयेशोऽथ जारके ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.98 · p. 390
भर्गो भर्ग्यः खण्डपर्शुर्भरुः शङ्कुर्हरिः पुनः ।शंभूः सर्वोऽपि वामः स्याद्गिरिशो नटराडपि ॥ ९८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.14 · p. 9
विष्वक्सेन-पुराणपूरुष-जगन्नाथाऽजयेन्द्रानुजो-पेन्द्राऽधोक्षज-नन्दनन्दन-हृषीकेशा[7a] भरुः केशिहृत् ।षड्बिन्दुः शतबिन्दु-मैन्ददमनौ शार्ङ्गी बलिध्वंसनश्-चक्री कौस्तुभभूषणो नरकभित् कंसान्तकः साल्वहृत् ॥ १४ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.187 · p. 95
पतिः कान्तः प्राणनाथो भरुर्भर्त्ता धवः प्रियः ।हृदयेशो जीवितेशो जामाता च सुखोत्सवः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.43 · p. 10
शम्भुर्भगाली कपिशाञ्जनश्च हीरः कटप्रूर्भरुरेरिहाणौ ।पुरारिपञ्चाननभैरवाट्टहासप्रहासाश्च खकुन्तलश्च ॥ ४३ ॥
उपजातिः
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव व्योमवर्गः Trikāṇḍaśeṣa 1.2.1 · p. 15
कुनाभिः स्याद्विहायस्तु खं भरुन्मेघवर्त्म च ।अक्षरं चाथ
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.10 · p. 50
भर्ता भरुर्नर्मकीलः प्राणनाथः सुखोत्सवः ।हृदयेशो रतगुरुर्जारः पापपतिः समौ ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.63 · p. 311
वज्रे शरे चाथ खरुर्हरे स्या-द्दर्पे च दन्ते तुरगे स्त्रियां तु ।पतिंवरायां त्रितये तु पाण्डौभरुर्हरौ पुंसि हरे च हेम्नि ॥ ६३ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.64 · p. 312
भर्त्तर्यपि स्यात्तु चरुर्नृलिङ्गोहव्यान्नतद्भाण्डगतः कुरुस्तु ।हरे च कूरे नरि राजभेदेपुंभूम्न्यसौ जङ्गलवाचकश्च ॥ ६४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.888 · p. 118
भ्रमिः स्त्री भ्रमणे धात्वोर्भ्रमतौ भ्राम्यतौ च ना ।भरुस्तु भर्तरि त्रिर्ना वर्णे भर्तृ त्रि पोष्टरि ॥ ८८८ ॥
अनुष्टुप्
meaningsवर्ण
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास भकारादयः Paramānandīyanāmamālā 5.20.333 · p. 204
भूरिस्तु पुष्कले हेम्नि भरुर्भर्मणि भर्तरि ।भीष्मो गंगासुते रुद्रे भीषणे सर्परक्षसोः ॥ ३३३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.25 · p. 266
भरुर्ना स्वर्णशिवयोर्भरौर्भावितिवेणयोः (?) ।भद्रो हस्तिजातिभेदे खञ्जने गिरिशे वृषे ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्ति (wrong syllable)