विडङ्ग
viḍaṅgaपुंक्ली · m. n.In 11 kośas: 10 synonym verses, 2 as a nānārtha head word, 18 as a meaning of another word.
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ॥ १०५ ॥समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वातारिस्तण्डुली चापि सैवोक्ता मृगगामिनी ।तण्डुलीया विडङ्गापि त्रिष्वथोग्रा तु मङ्गला ॥ ३५५ ॥
अनुष्टुप्
genderविadj.
मानिनीपुष्पमप्यत्र ताप्यं स्त्री तु न माक्षिकः ।कदम्बश्चक्रनामा च तारारिरजनाम[16a]कः ।नदीभवश्च तापीयः कामारिर्विटमाक्षिकः ।आवर्तश्चाम्बुधातुश्च शुक्लोऽसौ तारमाक्षिकः ।कङ्कुष्ठं काक(ल)कुष्ठं च विडङ्गं रङ्गनायकम् ॥ ४२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
पालिन्दी खरशाकं च शैलभित्त्वश्मभेदकः ।शिलोद्भेदोऽश्मरीभेदी विडङ्गा तु त्रिलिङ्गका ॥ ५९ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
हरीतकविभीतकामलकवच्च भल्लातका-ढकौ पिटक-तारकौ करक ईरितोऽब्दोपले ।स्फुलिङ्गस[दृ]शं विडङ्गमथ किंच केदारका-र्थकश्च वलजो वटः पटपुटौ[235b]तटः पेटवत् ॥ ८६ ॥
पृथ्वीmetre not read in every line
genderपुंस्त्रीक्लीm. f. n.
कङ्कुष्ठे स्यात् काककुष्ठः पुलकः काकपालकः ।रेचनः शोधनो ह्रासो विडङ्गो रङ्गदायकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
उग्रगन्धा वचा प्रोक्ता जटिलोग्रा च लोमशा ।जन्तुहन्त्री वि[36]डङ्गः स्यात्कुटजो गिरिमल्लिका ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
तटपुटवटवाटाः कुण्डपेटौ कपाटःकटशकटविडङ्गास्तारकस्तूणनीडौ ।पटपिटकविषाणा आढको मण्डलस्तुकुवलपिठरछत्राः कङ्कतः कन्दलोऽपि ॥ १७६ ॥
मालिनीmetre not read in every linenearly मालिनी: pāda 2, syllable 6 र (wrong syllable)
genderविadj.
वज्रो वज्रद्रुमो वज्रा सिहुन्तश्च गुडा गुहा ।अस्त्री विडङ्गं वेणुश्च तण्डुलाश्चित्रतण्डुलाः ॥
अनुष्टुप्
genderपुंक्लीm. n.
चव्यं चव्याऽप्यथ तण्डुलायां तु तण्डुलः ।तन्तुलोऽपि विडङ्गं च विलङ्गं गन्धमूलिका ॥ २३७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
विडङ्ग as a meaning in nānārtha verses
- धरणिकोश भस्मकभस्मके व्याधिविडङ्गे गैरिकं धातुरुक्मयोः । वाहिकौ ढक्कगोवाहौ तक्षकस्त्वष्टृनागयोः ॥ Dharaṇikośa 1.1.10
- धरणिकोश रुचकरुचकः सर्जिकाक्षारे विडङ्गे मातुलङ्गके । दन्ते ग्रीवाविभूषायामश्वाभरणमाल्ययोः ॥ Dharaṇikośa 1.3.22
- कोषकल्पतरु रसायनरसायनं व्याधिजिदौषधे स्या- द्विषे विडङ्गे नरि पक्षिराजे । सुदर्शनः पुंसि मुरारिचक्रे क्लीबे तु शक्रस्य पुरे प्रदिष्टः ॥ २६ ॥ Koṣakalpataru 6.21.26
- नानार्थार्णवसंक्षेप वेल्लतरङ्गे वत्सरे काले व्यवस्थायामपि स्त्रियाम् । वेल्ला तु वेल्लने नृस्त्री विडङ्गे तु नपुंसकम् ॥ १२९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1295
- नानार्थार्णवसंक्षेप भस्मकअथ बाह्रवमित्येतद्धिङ्गुकुङ्कुमयोः स्मृतम् । भस्मकं तु विडङ्गे स्याद् व्याधिभेदेऽथ भण्डनम् ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 3.3.60
- नानार्थार्णवसंक्षेप अमोघापथ्याविडङ्गयोः स्त्री स्यादमोघा सफले त्रिषु । अर्शोघ्नः सूरणे पुंसि तक्रे तु स्यान्नपुंसकम् ॥ ६६ ॥ Nānārthārṇavasaṃkṣepa 4.66
- नानार्थार्णवसंक्षेप क्रिमिघ्नक्रिमिघ्नो ना विडङ्गाख्यभेषजे त्रि तु हन्तरि । अमनुष्ये क्रिमेः स्त्री तु किन्नरी पिङ्गलाह्वये ॥ ४८३ ॥ Nānārthārṇavasaṃkṣepa 4.483
- नानार्थार्णवसंक्षेप तण्डुलविडङ्गे च स्त्रियां तु स्यात् पिप्पल्यां तण्डुलाथ ना । तर्कारः पादपे तक्रे नवनीतेन संयुते ॥ ८२८ ॥ Nānārthārṇavasaṃkṣepa 4.828
- परमानन्दीयनाममाला ग्रन्थिकविडङ्गे ग्रन्थिपर्णेऽपि गण्डको विघ्नखड्गिनोः । गण्डकी तु नदीभेदे गोरङ्कुः खगनग्नयोः ॥ १६२ ॥ Paramānandīyanāmamālā 5.9.162
- शिवकोष पावकपालङ्कः शल्लकी शाकभेदयोरथ पावकः । भल्लातके विडङ्गे च वह्निमन्थे च चित्रके ॥ ३३ ॥ Śivakoṣa 1.3.33
- शिवकोष कृमिकण्टकअथेक्षुवालिका काशक्षुरके चेक्षुभिद्यपि । स्यात्कृमिकण्टकं चित्राविडङ्गोदुम्बरेषु च ॥ ७२ ॥ Śivakoṣa 1.5.72
- शिवकोष जन्तुघ्नजननी जतुकृष्णायां पिशाचीमत्स्यपित्तयोः । जन्तुघ्नं हिङ्गुचौहारविडङ्गे ना शुकप्रिये ॥ २५२ ॥ Śivakoṣa 16.1.252
- शिवकोष तण्डुलीयजीवनीया जयाजीवाकाकवीरासु ना गणे । तण्डुलीयः शाकभेदे विडङ्गे धातुमाक्षिके ॥ ३६३ ॥ Śivakoṣa 21.3.363
- शब्दरत्नावली पावकपावकोऽग्नौ विडङ्गे च भल्लातके च चित्रके । प्रियकः पीतशाले स्यात् नीपचित्रमृगालिषु ॥ Śabdaratnāvalī 7.1.101
- शब्दरत्नावली भस्मकबालुका सिकतायान्तु क्लीबं स्यादेलबालुके । भस्मकं व्याधिभेदे च विडङ्गेऽपि च काञ्चने ॥ Śabdaratnāvalī 7.1.114
- शब्दरत्नावली अमोघाअनघस्त्रिषु निष्पापमनोज्ञनिर्मलेषु च । अमोघं त्रिषु सफले स्त्रियां पय्याविडङ्गयोः ॥ Śabdaratnāvalī 7.4.7
- शब्दरत्नावली तण्डुलजाङ्गुली शूकशिम्ब्याञ्च जाङ्गलश्च कपिञ्जरे । तरला मदिरायाञ्च यवाग्वामपि च स्त्रियाम् ॥ तण्डुलो ना विडङ्गे च धान्यादिनिकरेऽपि च । तमालस्तिलके खङ्गे तापिञ्जे वरणे द्रुमे ॥ Śabdaratnāvalī 7.28.67
- त्रिकाण्डशेष तण्डुलतमालो वरुणे खड्गे तापिच्छे तिलकेऽपि च । गुवाकेऽपि च ताम्बूलं विडङ्गेऽपि च तण्डुलः ॥ ३९६ ॥ Trikāṇḍaśeṣa 3.3.396