गुडा
guḍāस्त्री · fem.In 12 kośas: 10 synonym verses, 4 as a nānārtha head word, 3 as a meaning of another word.
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ॥ १०५ ॥समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥
अनुष्टुप्
genderस्त्रीfem.
वज्री समन्तदुग्धाऽन्या स्नुहा वज्रा गुडा गुला ।स्नुहिः सिहुण्डो वज्रद्रुर्धारापूर्वा स्नुही पुवा ॥ ३२३ ॥
अनुष्टुप्
genderस्त्रीfem.
समन्तदुग्धा स्नुक् स्नुह्यः स्नुहा चैव विषाणिका ।सुधा गुडा चाथ वज्रवल्ली स्याद्धस्तिशुण्डिका ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
दन्तावलानां संनाहे गुडा स्त्रीपुंसयोर्मता ।कल्पना सज्जना चाथ कुमारा गजपालकाः ॥भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।बृंहितं गर्जितं क्लीबे गजस्यान्नं विधा स्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
एकाष्ठीलः सदापुष्पी मन्दारश्च प्रतापसः ।स्नुह्यां वज्रो महावृक्षोऽसिपत्रः स्नुक्सुधा गुडा ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
शाखोखा भिस्सटा जङ्घा भङ्गा चञ्चा खजा प्रजा ।पिच्छा कच्छा सुरङ्गा च गुञ्जा पिञ्जा कटा (जटा?) गुडा ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्नुहा स्नुहिर्व्रजश्चैवः महातरुस्तथैव च ।पुनः सिहुण्डसीहुण्ढौ स्नुक् तु स्नुही गुडा तथा ॥ २०१६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 4, syllable 3 स्नु (wrong syllable)
genderस्त्रीfem.
वज्रो वज्रद्रुमो वज्रा सिहुन्तश्च गुडा गुहा ।अस्त्री विडङ्गं वेणुश्च तण्डुलाश्चित्रतण्डुलाः ॥
अनुष्टुप्
genderस्त्रीfem.
गुडो गुडा गुडी वज्रो वज्रा वज्री सिहुण्डवत् ।सीहुण्डो पराजितायामास्फोटा स्फोतया समम् ॥ १५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderस्त्रीfem.
अपुंसि चालनी दाम वणिज्याश्मन्तिका स्थली ।शरव्यार्च्चिर्गुडा पत्री स्यात्कुथे वर्णतर्णिका ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
गुडा स्रुहीद्रुमे स्त्री स्याद् गुडिकामलयोरपि ।गोण्डः स्याद्वृद्धनामौ च नीके पामरजातिषु ॥
अनुष्टुप्
गुडा as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप काकजङ्घाकाकजङ्घा षडश्रेति प्रसिद्धस्थावरान्तरे । गुडासमाख्यवल्ल्यां च जङ्घायां करटस्य च ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 6.19
- शिवकोष अमरगुडायामस्थिसंहारेऽप्यवरं तु सुगन्धिके । कर्पासेऽप्यगुरु क्लीबं शिंशपायां च जोङ्गके ॥ ३९३ ॥ Śivakoṣa 22.3.393
- शब्दरत्नावली बिलबिलं छिद्रे गुडायाञ्च पुमानुच्चैश्रवोहये । शलो भृङ्गिक्षेत्रभिदोः शलले च विधातरि ॥ शाला वृक्षस्कन्धशाखागृहैकदेशवेश्मसु । शालः स्यान्मत्स्यभेदेऽपि नवभेदेऽपि कुत्रचित् ॥ Śabdaratnāvalī 7.28.35