मिसि
misiस्त्री · fem.In 10 kośas: 12 synonym verses, 6 as a nānārtha head word, 9 as a meaning of another word.
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ॥ १०५ ॥समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला ।तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥
अनुष्टुप्
genderस्त्रीfem.
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ।अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी ॥ १५२ ॥तस्यां कटम्भरा राजबला भद्रबलेत्यपि ।
अनुष्टुप्
genderस्त्रीfem.
अम्लपत्री रसाम्ला स्यादथ स्युः क्षुपजातयः ।अहिच्छत्रा मिसिर्योषा शताह्वा पोतिकाशिका ॥ ४४८ ॥
अनुष्टुप्
genderस्त्रीfem.
तालपर्णी तु मेथीका मिसिर्मधुरिका च सा ।मिश्रेयाश्वबला पीतबीजा शीतशिवापि सा ॥ ८६ ॥
अनुष्टुप्
genderस्त्रीfem.
दीप्यो यवानिकाथान्यश्छोहरः पारसीयकः ।शतपुष्पा घोषवती शताह्वा कारवी मिसिः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घो (wrong syllable)
genderस्त्रीfem.
तेजोवती तेजनी च तेजोह्वा वल्कलेति च ।मिस्रेयायां तालपर्णी छत्रा शीतशिवो मिसिः ॥ २७८ ॥
अनुष्टुप्
genderस्त्रीfem.
शतपुष्पायां तु घोषा शताह्वा माधवी मिसिः ।अतिच्छत्रा छत्रपुष्प्यवाक्पुष्पा कारवी सहा ॥ ३३६ ॥
अनुष्टुप्
genderस्त्रीfem.
सोफका सितिपुष्पाची अहिच्छिन्ना शिका मिसिः ।नालपत्री तालपर्णी मिश्रे या च मिसिस्तथा ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोकिलाक्ष इक्षुगन्धा काण्डेक्षुरिक्षुरः क्षुरः ।मधुरा स्यान्मधुरिका मधुरी च मिसिर्मिसी ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शताह्वा कारवी छत्रा मिशिः स्याच्च मिसिर्मिशी ॥
genderस्त्रीfem.
मिशिर्मिशी मिसि-मिस्यौ मधुरा तु मधूरिका ।सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः ॥ २२१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable); pāda 4, syllable 3 मि (wrong syllable)
genderस्त्रीfem.
मांसिगन्धद्रव्येषु मिषी मिसिश्च जटिला जटा ।जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः ॥ २३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
मृत्सा शुभायां मृदि वासिकायांहिंसा वधे चौर्यविधौ प्रदिष्टा ।शंसा तु वाञ्छावचसोर्मिसिस्तुमांस्यां तु दीप्ये शतपुष्पिकायाम् ॥ ८४ ॥
इन्द्रवज्रा
छत्रोषधे स्त्री त्विह बुद्धिशक्त्या-युधे च कासूर्विकलोक्तिषु स्यात् ।प्रसूर्जनन्यामपि वामिकायांतथा कदल्यामपि वीरुदर्थे ॥ ८५ ॥
उपजातिः
meaningsछत्रौषध
doubtful
मिसि as a meaning in nānārtha verses
- कोषकल्पतरु छत्रस्त्रियां तु वीणागुणदेहयोः स्या- त्तथा शिरायां च गुडूचिकायाम् । छत्रं त्रयेऽप्यातपवारणे स्या- न्मिस्यां शिलीन्ध्रेऽपि च धान्यके स्त्री ॥ ३८ ॥ Koṣakalpataru 6.27.38
- कोषकल्पतरु कारवीस्यूते च वीणावयवे प्रसेवः स्यात्कुम्भदास्यां वडवा तुरङ्ग्याम् । भेदेऽङ्गनानामपि विप्रनार्यां स्यात्कारवी मेचकजीरमिस्योः ॥ ३१ ॥ Koṣakalpataru 6.29.31
- नानार्थार्णवसंक्षेप छत्रापुंस्यप्येके छत्रमुष्णवारणे स्त्री तु भेषजे । मिसिसंज्ञे द्रोणिकाख्यस्तम्बे कुस्तुम्बुरुण्यपि ॥ ४४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.443
- शिवकोष मङ्गल्यामङ्गल्यो ग्रन्थिलाश्वत्थमसूरारिष्टवार्षिके । स्त्रियां तु शम्यधःपुष्पीमिसिधीरप्रियङ्गुषु ॥ ३५७ ॥ Śivakoṣa 21.2.357
- शिवकोष चात्राक्लीबं सुक्ते तिन्तिडीके चोरो निश्चरशङ्खयोः । चात्रा मिसावतिछत्रे कुस्तुम्बुरुशिलीन्ध्रयोः ॥ ३७८ ॥ Śivakoṣa 22.2.378
- शिवकोष शीतशिवमधुयष्ट्यां वारिभवो नखे शङ्खे च शैवले । शीतशिवं शैलेये सिन्धुतिमिस्यां तु शीतशिवः ॥ ५१० ॥ Śivakoṣa 24.3.510
- शिवकोष घोषाकाक्षी तुवरिकागृष्ट्योः घोषः कोशातकीभिदि । घोषा मिस्यां च कर्कोट्यां तुषो धान्यत्वगक्षयोः ॥ ५१७ ॥ Śivakoṣa 26.1.517
- शब्दरत्नावली शालेयलौहित्यं लोहितत्वे स्यात्क्लीबं पुंसि नदान्तरे । श्वशुर्यो देवरे श्याले श्यालीनन्दिकयोः स्त्रियाम् ॥ शाण्डिल्योऽग्निमुनिभिदोः श्रीफले च भवेत्पुमान् । शालेयः स्यान्मिसौ पुंसि त्रिषु शाल्योद्भवोचिते ॥ Śabdaratnāvalī 7.26.48
- शब्दरत्नावली जटिलाजटिलस्तु जटायुक्ते मिस्यान्तु जटिला स्त्रियाम् । जाङ्गलं त्रिषु निर्वारिदेशे स्यात्पिशिते स्त्रियाम् ॥ Śabdaratnāvalī 7.28.65