All kośas › Bālaprabodhikā
बालप्रबोधिका Bālaprabodhikā
357 verses · 2,901 words tagged · 725 marked doubtful (dashed)
त्रयोदशोपदेशः
इति नत्कीरविरचितायां बालप्रबोधिकायां द्वादशोपदेशः ।
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं तु वैटिकः ।व्रीहिः स्तम्बकरिः प्रोक्तः शालेयाः श्वेततण्डुलाः ॥ २५८ ॥
13.258 · p. 89
अनुष्टुप्
सुगन्धिः कोमलः शालिः षष्टिगस्तस्य भेदके ।प्रवरः शालिकः षष्टिः कमलस्तु कलावकः ॥ २५९ ॥
13.259 · p. 89
अनुष्टुप्
महाबुसो हायनश्च माषस्तु मलदो बली ।मुद्गस्तु प्रथनो लोह्यः पीतेऽस्मिन् वसुखण्डिकः ॥ २६० ॥
13.260 · p. 89
अनुष्टुप्
राजमुद्गे मरुष्ठः स्यात् जलकस्तुलकस्तिलः ।तिलपुष्पे वज्रपुष्पं मसूरस्तु मसूरकः ॥ २६१ ॥
13.261 · p. 89
अनुष्टुप्
सर्षपे तु कदम्बः स्यात् सिते त्वस्मिन् वरिष्ठकः ।पीतवर्णे तु सिद्धार्थो राजो … राजसर्षपः ॥ २६२ ॥
13.262 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कृष्णवर्णस्तु संवर्तो वर्तुलश्चक्र इत्यपि ।कलायः स्यात्कालपूरः पूरक: कडलोऽपि च ॥ २६३ ॥
13.263 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र (wrong syllable)
खराटे त्रिपुटः शोधो रङ्कुटे हेमरेणुका ।स्नेहपूरे तु फलकः कषणः काकचूलिका ॥ २६४ ॥
13.264 · p. 90
अनुष्टुप्
सुवर्चलास्वरण्ये च क्षमाचो माप्य इत्यपि ।खल्वे तु बलनिष्पावौ शिदीकाप्यप्रियैलिका ॥ २६५ ॥
13.265 · p. 90
अनुष्टुप्
अलसान्द्रे राजमाषो निष्पावः श्वेतशिम्बिका ।कारण्युस्रा शोधनिका स्वल्पशिम्ब्यां तु मर्कटः ॥ २६६ ॥
13.266 · p. 90
अनुष्टुप्
कृष्णवृन्ते खलकुलः ताम्रवृन्तः कुलत्थकः ।आडकी तुवरी वन्दी सौराष्ट्री करवीरिका ॥ २६७ ॥
13.267 · p. 90
अनुष्टुप्
भङ्गः स्यान्मातुला … ।महासो दीर्घशूकः स्यात्स्वरूडश्च पवित्रकः ।यवः केवलकुल्माषौ यवकं तोयपुष्पिका ॥ २६८ ॥
13.268 · p. 90
अनुष्टुप्metre not read in every line
गोधूमः शतमर्वा स्यात् हेमाभः सुमनोगुरुः ।कोद्रवः कोटदूषः स्यात् बलकः करदूषकः ॥ २६९ ॥
13.269 · p. 90
अनुष्टुप्
विरुक्षणे द्रवन्नालमदना पतकोद्रवे ।चिक्कणः कन्दगुणिकः प्रियङ्गुः पीततण्डुलः ॥ २७० ॥
13.270 · p. 90
अनुष्टुप्
श्यामा कङ्गस्तु मथका यवानलजवोनलः ।जूर्णादयो देवमन्यं जोलनो बीजपुष्पिका ॥ २७१ ॥
13.271 · p. 90
अनुष्टुप्
कड्गुः कम्बुश्च शम्याकः पुष्पलस्तु गवेधुका ।धान्यराशिस्तु वनजा वरण्डस्तृणसञ्चयः ॥ २७२ ॥
13.272 · p. 90
अनुष्टुप्
गृहार्थे सौकपोलूस्त्री विक्षिप्तस्वस्तरो ह्यसौ ।ओषध्यो जातिमात्राः स्युरजातौ सर्वमौषधम् ॥ २७३ ॥
13.273 · p. 90
अनुष्टुप्
शुण्ठी तु रूषणं विश्वभेषजं सिंहलं कटुः ।पिप्पली माधवी शौण्डी वृषलण्डूषणा बला ॥ २७४ ॥
13.274 · p. 91
अनुष्टुप्
मरिचञ्च शिलावृत्तामूषणं धर्मपट्टणम् ।कटुत्रयं त्र्यूषणं च पद्मा तु चविकं चवी ॥ २७५ ॥
13.275 · p. 91
अनुष्टुप्
जीरके तु जया तु स्यात् सूक्ष्मसौदो रसः कणः ।कृष्णे तु जीरके पृथ्वी रोहिण्यां कटुरोहिणी ॥ २७६ ॥
13.276 · p. 91
अनुष्टुप्
सूक्ष्मायां त्रिपुटा कुन्ति कास्मीरे पुष्करं विदुः ।अप्यथातीचरा पद्मा चारिणी पद्मचारिणी ॥ २७७ ॥
13.277 · p. 91
अनुष्टुप्
जन्यां तु जननी प्रोक्ता शृङ्गी तु स्याद्वृषारुणा ।शीघ्रजं श्वेतमरिचं पद्मोत्पलमितीर्यते ॥ २७८ ॥
13.278 · p. 91
अनुष्टुप्
ऋद्धिस्तु प्राणदासिद्धिलक्ष्मीः सर्वजनप्रिया ।अरेणुकाया … स्यादेलावालुकमैलकम् ॥ २७९ ॥
13.279 · p. 91
अनुष्टुप्metre not read in every line
क्रिमिघ्नस्तण्डुलो वेश्मममोघा चित्रतण्डुलम् ।सुगन्धा गन्धना कल्यां गन्धिन्यान्तालपर्णिका ॥ २८० ॥
13.280 · p. 91
अनुष्टुप्
व्यालायुधे व्याघ्रनखं जटामांसी तु जाटिला ।लवङ्कं देवकुसुमं नामिर्मृगमदेऽपि च ॥ २८१ ॥
13.281 · p. 91
अनुष्टुप्
नेपालजस्तु कस्तूरी नगजस्तु जवादिका ।नृता च सान्द्रगन्धोऽथ वालुका कल्कमस्त्रियाम् ।घनसारस्तु कर्पूरः सिताभ्रो हिमवालुका ॥ २८२ ॥
13.282 · p. 91
अनुष्टुप्
अन्दुकाम्पिल्य इत्युक्ते तद्भेदे हिमवालुकम् ।कृत्रिमे घनसारे तु नीराजनमितीर्यते ॥ २८३ ॥
13.283 · p. 91
अनुष्टुप्
तक्कोले स्थूलमरिचं तस्मिन् कोलकमित्यपि ।जातीकोशं कोशफलं श्रीवेष्टः पायसग्रही ॥ २८४ ॥
13.284 · p. 91
अनुष्टुप्
पीतचन्दनमश्रेष्ठं गोशीर्षं हरिचन्दनम् ।चन्दनः स्यान्मलयजो …भ्रश्री रोहिणीदुमः ।श्रीखण्डो गन्धसारश्च शुक्लागरुजलालयम् ॥ २८५ ॥
13.285 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पटीरमपि पाटीरं श्रीगन्धो मलयोद्भवः ।दिव्यनिम्बो निर्जरसं ताम्रसारन्तु चन्दनम् ॥ २८६ ॥
13.286 · p. 92
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable)
कुङ्कुमं घुसृणं रक्तलोहितचन्दनम् ।करटं पीतकौबेरं कालेयं वसनीयकम् ॥ २८७ ॥
13.287 · p. 92
अनुष्टुप्metre not read in every line
काश्मीरजं पुष्परजः सङ्कोचं पीतकं वरम् ।घोरं चाग्निशिखं चापि जपपुष्पं प्रियङ्गु च ।नागोद्भवं तु सिन्दूरं कुङ्कुमेन समप्रभम् ॥ २८८ ॥
13.288 · p. 92
अनुष्टुप्