कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

असु

asuपुं · masc.

In 18 kośas: 16 synonym verses, 2 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1367 · p. 52
जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.119
पूंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ ११९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.134 · p. 16
असवो जीवितं प्राणा जीवो जीवा च कथ्यते ।क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मतः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.385 · p. 131
उपग्रहः करमरी ग्राहो वन्दी च बन्धने ।प्राणोऽसुरसवः प्राणाः पुंसि भूम्न्येकभाषणे ॥ ३८५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.24 · p. 3
पुंसि भूम्यसवो नित्यं प्राणा वातहृतौ पुनः ।जीवो जिगत्नुः स्त्री जीवा जीवः प्राणनजीवने ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
एते शब्दाः नपुंसके भवन्ति । यथा इदं शवं मृतशरीरम् । पलकं नेत्ररोमविशेषः । तल्पं शयनीयम् । सद्म निवासः । बलिशं मत्स्यबन्धनम् । आमिशं गृहद्वारम् । निमित्तं कारणम् । पित्तं धातुविकारः । चित्तं मनः[नमः] । किल्बिषं पापम् । वृजिनं कुटिलम् । पीठमासनम् । पापं पातकम् ।बल्वजलाजासूनां पुंयोगः स्याद्बहुत्वं च ।स्थलशाद्वलशिबिराणां नपुंसकत्वं स्त्रियां पृतना ॥ ६० ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.13 · p. 212
दारासुबल्वजा भूम्नि तलस्तालचपेटयोः ।सूर्यचन्द्रायसामग्रे कान्तशब्दः पुमान् स्मृतः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.404 · p. 77
प्रग्रहोपग्रहौ चाथ प्राणाश्चासव इत्यपि ।पुंसि भूम्नि कदाचित्तु वैकतापि प्रसज्यते ॥ ४०४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.240 · p. 17
मृतः परासुर्निर्ज्जिवः प्रमीतस्त्यक्तजीवनः ।आसुः प्राणो वसुर्जीव आयुर्जीवितजीवने ॥ २४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र्नि (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.70 · p. 41
उत्पत्तिर्जन्म जननमुत्पादो जनिरुद्भवः ।जीवितं चासवः प्राणाः श्वासश्च श्वसितं मरुत् ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2486 · p. 403
जीवातुर्जीवितं प्राणाः जीवोऽसवोऽपि पञ्चमम् ।जीवनरक्षणोपायो जीवातुर्जीवनौषधम् ॥ २४८६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable); pāda 3, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.407 · p. 137
असवः पुंसि भूम्न्येव प्राणाश्च तत्र कीर्तिताः ।प्राणधारणमेव स्यात् जीवो जीवितमित्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1058 · p. 131
आयुर्जीवितकालः स्यादरिष्टं मृतिलक्षणम् ।प्रायो वयोऽसवः प्राणाः पुंसि भूम्न्यथ जीविका ॥ १०५८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीलिङ्गप्रकरणम् Śabdaratnākara 7.1.2320 · p. 282
तर्कसंपर्कगल्वर्कालर्कोदर्कार्कमर्कटाः ।भर्गगर्गस्वर्गवर्गसर्गपुत्स(द्ग)लमुद्गराः ।दारबल्बजलाजायु(सु?)प्राणाः पुंसि च भूम्नि च ॥ २३२० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.5 · p. 270
आनापजननाडीभ्यो युगमङ्गं पदं व्रणम् ।अनक्षे दुन्दुभिरथ बहुत्वेऽप्यसवो ग्रहाः ।सक्तवो वल्कजालाजा दाराः प्राणा दशा इति ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.203 · p. 99
हृषीकमिन्द्रियं प्राणः प्राणा ना भूम्नि चासवः ।प्राणापानादयस्त्वस्य वृत्तयः पंच बायवः ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.10 · p. 21
अन्धुरूधसि कूपेऽपि व्रणेऽक्षुस्त्वब्धिवप्रयोः ।असुध्वनिस्तु प्रज्ञायामसवो भूम्नि जीविते ॥ १० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.6 · p. 43
अगुरुण्ययसो गुन्द्रे शरस्य मकरे त्वसोः ।पिण्डारे त्ववटोः पाणेर्बर्हिष्ठे मुस्तकेऽप्यपम् ॥ ६ ॥
अनुष्टुप्
meaningsमकर

असु as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सत्त्वद्रव्यासुव्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ॥ २१३ ॥ Amarakośa 3.3.213
  • धरणिकोश प्राणप्राणो हृन्मारुते शक्तौ प्राणाः स्युरसवस्तथा । प्राणो [31] गन्धरसे प्रोक्तः पद्यानामप्यलंकृतौ ॥ Dharaṇikośa 14.3.5
  • कोषकल्पतरु प्राणप्रायो भूम्न्यसुषु त्रिषु त्वयमिह स्यात्पूरितेऽथ द्रुणं चापेऽसौ च पुमांस्तु वृश्चिकगतो भृङ्गेऽथ कूर्म्यां द्रुणी । वार्द्रोण्यां च कृपीपतौ तु गदितः पुंस्याढके तच्चतु- ष्के द्रोणः करटेऽसिते द्रुणिरिव द्रोणी च नीवृद्भिदि ॥ ५ ॥ Koṣakalpataru 6.15.5
  • कोषकल्पतरु सत्त्वस्त्री तेजनीस्पृक्क्षितिपाङ्गनासु सत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च । गुणेऽसुषु क्लीबमिहात्मतायां द्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥ Koṣakalpataru 6.29.99
  • नानार्थार्णवसंक्षेप प्राणपक्षाभ्यामिव याहोभ्यां रात्रिर्युक्तात्र सा स्त्रियाम् । प्राणास्तु पुंस्यसुष्वेके त्वस्मिन्नर्थे प्रचक्षते ॥ ७४४ ॥ Nānārthārṇavasaṃkṣepa 2.5.744
  • तन्त्राभिधान रयकारः पवनः काली पुरुषोत्तम एव च । रोऽसुः पञ्चकसीशोऽग्निरङ्कुशं परगुर्विणी ॥ २५ ॥ Tantrābhidhāna 1.25
  • त्रिकाण्डशेष प्राणबोले वाते बले प्राणः पूर्णे पुं भूम्नि चासुषु । पर्णं पक्षे च पत्रे च प्रोक्षणं सेचने वधे ॥ १३३ ॥ Trikāṇḍaśeṣa 3.3.133