कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संस्कार

saṃskāraपुं · masc.

In 10 kośas: 9 synonym verses, 8 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1373 · p. 52
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.780 · p. 89
उपजापो भवेद्भेदः साम सान्त्वमिति स्मृतम् ।तथेति प्रत्ययः श्रद्धा संस्कारो वासना स्मृता ॥ ७८० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.347 · p. 127
समाघातोभिसंपातः संस्कारो दुर्दरः कलिः ।अत्यामर्दश्च सम्मर्दो विमर्दः संयुगोऽस्त्रियाम् ॥ ३४७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.5 · p. 53
उपज्ञा ज्ञानमाद्यं स्याद्वासना-भावने स्त्रियौ ।अनुभूताविस्मृतिः स्यात्संस्कारो नाथ निर्णयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.264 · p. 85
आरेकद्वापरे तुल्ये संख्योहा चर्चया सह ।आद्यज्ञानमुपज्ञा स्यात्संस्कारो वासना मता ॥ २६४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.291 · p. 137
अधिवासनसंस्कारौ गन्धमाल्यादिना कृतम् ।उपभोगोऽपि निर्वेशो विशेषोऽयं निरीक्ष्यताम् ॥ २९१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2496 · p. 404
पूर्वाऽनुभूतस्मरणे वासना भावना भवेत् ।संस्कारोऽप्यनुभूतार्थस्मरणेऽत्र प्रयुज्यते ॥ २४९६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.404 · p. 137
संस्क्रिया सत्क्रिया चेति संस्कारोऽपि निगद्यते ।वन्दिर्वन्दी वन्दिका च प्रग्रहोपग्रहौ तथा ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.156 · p. 171
वैकक्ष्यं तिर्यगुरसि स्थितं निर्माल्यमुज्झिते ।संस्कारो गन्धधूपाद्यैरपुमानधिवासनम् ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.58 · p. 174
विहारो भ्रमणं क्रीडा विहारः सुगतालयः ।संस्कारोऽनुभवाज्जातः संकल्पप्रतियत्नयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.74 · p. 63
उपादभुक्तौ प्रत्याङो निवासस्य विपर्यये ।परेराकोटनेऽनोस्तु धूपे वासयतिर्मतः ॥स्नेहवस्तौ च संस्कारे संस्कारे त्वधितः परः ।भरते भरति भृतौ भटत्यथ नितेः परौ ॥बिभर्तिर्भरतिः प्रोक्तौ विनये प्राङ उत्तरौ ।उपायने समृद्धौ तु समोऽथाङो विभूषणे ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भ (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.91 · p. 65
मर्षति मेहति निन्वतिसेकति धारयति शीकते सेके ।अभितः सिञ्चतिरुक्तःसंस्कारे प्रच्युतावुक्तः ॥ ९१ ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.93 · p. 65
घारिस्त्वभेः स्या[202b]त्संस्कारे स्नेहने त्वाङ्परः स्मृतः ।परेरुक्षिः संप्रदाने वर्षणेऽभेस्तु संस्कृतौ ।व्यापने प्रात्तु सेके स्यात्तथा च पशुमारणे ।आसेचने श्च्योतति स्यादथ स्तिम्यति तिम्यति ।उनत्ति क्लिद्यति स्तीम्यत्यपि मर्धति मर्धते ॥ ९३ ॥
अनुष्टुप्metre not read in every line
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.72 · p. 82
तथा कूणयति ग्रामयति संकेतयत्यपि ।पिङ्क्तेऽवयौति सटति स्याद्बिन्दति च पिंशति ॥स्याद्भिन्दत्यप्यवयवे संस्करोति तु चोच्यति ।उपस्करोति सचते समवैति सचत्यपि ॥ ७२ ॥
अनुष्टुप्
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.93 · p. 84
संस्कारे स्याद्वाजयति तदभावे तु कथ्यते ।श्वण्ठयते श्वण्ठयति श्वठयत्यपि कीर्तितः ॥ ९३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ण्ठ (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.51 · p. 325
सम्मार्जन्यवगुण्ठितेऽनलचटत्कारे तथा संकरःस्त्री पुंदूषितकन्यकास्वथ भवेत्पङ्कार आरोहणे ।सेतौ शैवलवारिकुब्जकगतः संस्कार उक्तो बुधैःसंकल्पप्रतियत्नयोरनुभवेऽथो पक्षिणां पञ्जरे ॥ ५१ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.231 · p. 31
स्वस्तरस्तु स्तृतौ स्वस्य विक्षिप्ततृणसञ्चये ।संस्कार उत्कर्षाधाने मतः सङ्कल्प एव च ॥ २३१ ॥
अनुष्टुप्

संस्कार as a meaning in nānārtha verses